SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२९,[ नि.५१३] १४९ अस्मिन् जगति जिनप्रवचने वा 'खलु' निश्चितं सम्यक्त्वमिति गुणगुणिनोरनन्यत्वात्सम्यक्त्वगुणान्वितो जीवस्तस्य सम्यक्त्वे वोक्तरूपे सति पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्या कारिजयसामर्थ्यलक्षणो वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रमं नामाध्ययनमस्तीति गम्यते, नन्वेवमिदमपि गौणमेव नाम तत्किमिति नियुक्तिकृताऽऽदानपदेनैतदुक्तम्?, इतरे तु गौणे इति, सत्यमेतत्, किन्तु नाम्नोऽनेकविधत्वसूचनार्थं नियुक्तिकृतेत्थमुक्तं न त्वस्य गौणत्वव्यवच्छेदार्थ, तच्च केन प्रणीतमित्याह-'श्रमणेन' श्रामण्यमनुचरताधर्मकायावस्थामास्थितेनेत्यर्थः, भगवता महावीरेण काश्यपेन 'प्रवेदितं' स्वतः प्रवेदितमेव भगवता ममेदमाख्यातमित्युक्तं भवति, अनेन वक्तद्वारेण प्रस्तुताध्ययनस्य माहात्म्यमाह-- ___ ननु सुधर्मस्वामिनोऽपि श्रुतकेवलित्वात्तद्वारेणाप्यस्य प्रामाण्यं सिध्यत्येव तत्किमेवमुपन्यास:?, उच्यते, लब्धप्रतिष्ठैरपि गुरूपदिष्ठं गुरुमाहात्म्यं च ख्यापयद्भिः सूत्रमर्थश्चाख्येय इति ख्यापनार्थमेवमुपन्यासः, इत्थं वक्तृद्वारेणस्य माहात्म्यमभिधाय संप्रति फलद्वारेणाह'यदि ति प्रस्तुताध्ययनं 'सम्यग्' अवैपरीत्येन श्रद्धाय' शब्दार्थोभयरूपं सामान्येन प्रतिपद्य 'प्रतीत्य' उक्तरूपमेव विशेषत इत्थमेवेति निश्चित्य, यद्वा संवेगादिजनितफलानुभवलक्षणेन प्रत्ययेन प्रतीतिपथमवतार्य, 'रोचयित्वा' तदभिहितार्थानुष्ठानविषयं तदध्ययनादिविषयं वाऽभिलाषात्मात्म उत्पाद्य, संभवति हि क्वचिद्गुणत्तयाऽवधारितेऽपि कदाचिदरुचिरित्येवमभिधानं, 'फासित्त'ति तदुक्तानुष्ठानतः स्पृष्टवा ‘पालयित्वा' तद्विहितानुष्ठानस्यातीचाररक्षणेन 'तीरयित्वा' तदुक्तानुष्ठानं पारं नीत्वा 'कीर्तयित्वा' स्वाध्यायविधानतः संशुद्ध 'शोधयित्वा' तदुक्तानुष्ठानस्य तत्तद्गुणस्थानावाप्तित उत्तरोत्तरशुद्धिप्रापणेन आराध्य' यथावदुत्सर्गापवादकुशलतया यावज्जीवंतदर्थासेक्नेन, एतत् सर्वं स्वमनीषिकातोऽपि स्यादत आह'आज्ञया' गुरुनियोगात्मिकया अनुपाल्य' सततमासेव्य, यद्वा 'स्पृष्टवा' योगत्रिकेण मनोवाक्कायलक्षणेन, तत्र मनसा-सूत्रार्थो भयचिन्तनेन वचसा-वचनादिना कायेन-भङ्गकरचनादिना, एवं पालनाराधनयोरपि योगत्रयं वाच्यं, 'पालयित्वा' परावर्तनादिनाऽभिरक्ष्य 'तीरयित्वा' अध्ययनादिना परिसमाप्य 'कीर्तयित्वा' गुरोविनयपूर्वकभिदमित्थं मयाऽधीतमिति निवेद्य 'शोधयित्वा' गुरुवदनुभाषणादिभिः शुद्धं विधाय 'आराध्य' उत्सूत्रप्ररूपणादिपरिहारेणाबाधयित्वा शेषं प्राग्वत्रवरम् आज्ञयेति जिनाज्ञया, उक्तं हि "फासिय जोगतिएणं पालियमविराहियं च एमेव। तीरियमंतं पाविय किट्टिय गुरुकहण जिनमाना ।।" एवं च कृत्वा किमित्याह-'बहवः' अनेक एव 'जीवाः' प्राणिनः 'सिद्धन्ति' इहैवागमसिद्धत्वादिना, 'बुध्यन्ते' धातिकर्मक्षयेण, विमुच्यते' भवोपग्राहिकर्मचतुष्टयेन, ततश्च परिनिर्वान्ति' कर्मदावानलोपशमेन अत एव सर्वदुःखानां शारीरमानसानाम्' अन्तं' पर्यन्तं कुर्वन्ति मुक्तिपदावाप्त्येति सत्रार्थः ।।। सम्प्रति विनेयानुग्रहार्थं सम्बन्धाभिधानपुरस्सरं प्रस्तुताध्ययनार्थमाह मू.(१११३) तस्स णं अयमढे एवमाहिज्जइ, तंजहा-संवेगे १ निव्वेए २ धम्मसद्धा ३ गुरुसाहम्मियसुस्सूसणया४ आलोयणा ५ निंदयणा ६ गरिहणया ७ सामाइए ८ चउवीसत्थए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy