________________
अध्ययन-२८,[नि, ५०६] अथालोकाभावोऽन्धकारं, तथा च निरुपाख्यत्वेन तस्यासत्त्वमुच्यते, न, सतः सर्वथा निरन्वयाभावस्याभावेनाभावरूपत्वेऽपि निरूपाख्यत्वासिद्धेः, तथाहि-घटस्य कपालाख्यापर्यायान्तरोत्पत्तिरेवाभावो न पुनरुच्छेदमात्रम्, एवमलोकस्याप्यन्धकाराख्यापर्यायान्तरोत्पत्तिरेवाभावो न तु तथाविधपरमाणुरूपतयाऽप्यभाव एव, इत्थं चैतत्, परिणामित्वाद्वस्तुनः, परिणामस्य च सत एव वस्तुनः पूर्वरूपपरित्यागेन रूपान्तरोत्पत्तिरूपत्वात् जीवस्य उक्तं हि
"परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम्।
नच सर्वथा विनाशः परिणामस्तद्विदामिष्टः ।।" एवं छायाऽऽतपयोरपि पौद्गलिकत्वं वस्तुत्वं च भावनीयं, तथा स्पर्शनग्राह्यत्वाच्चानयोः पौद्गलिकत्वं, तथाहि-छायायाः शैत्यमातपस्य चोप्णत्वं प्रतिप्राणि प्रतीतमेवेति, अतश्च यत्कैश्चिदुच्यते-शब्दोऽम्बरगुण इत्यादि, तदपास्तं भवति- उक्तश्च
"अणवः सर्वशक्तित्वाइँदसंसर्गवृत्तयः।
छायाऽऽतपस्तम; शब्दभावेन परिणामिनः ॥" इत्यादि, वर्णादीनां च पौद्गलिकत्वं सुप्रसिद्धमेवेति सूत्रचतुष्टयार्थः । अनेन द्रव्यलक्षणमुक्तं, पर्यायालक्षणमाहमू.(१०८८) एगत्तं च पुहुतं च, संखा संठाणमेव य।
संजोगा य विभागा य, पज्जवाणं तु लक्खणं॥ वृ. एकस्य भावः एकत्वं-भिन्नेष्वपि परमाण्वादिषु यदेकोऽयं घटादिरिति प्रतीतिहेतुः सामान्यपरिणतिरूपं, चशब्द उत्तरापेक्षया समुच्चये, पृथग्भावः, पृथक्त्वम्-अयमस्मात्पृथगिति प्रत्ययोपनिबन्धनं, 'च:' सर्वत्र प्राग्वत्, संख्यानं सङ्घया-यत एको द्वौ त्रय इत्यादिका प्रतीतिरुपजायते, संतिष्ठतेऽनेनाकारविशेषेण वस्त्विति संस्थानं-परिमण्डलोऽयमित्यादिबुद्धि निबन्धनम्, एवेति पूरणे, 'संयोगा:' अयमंगुल्योः संयोग इत्यादिदिव्यपदेशहेतवः, विभागाच' अयमितो विभक्त इति बुद्धिहेतवः, उभयत्र सम्बन्धिभेदेन भेदमाश्रित्य बहुवचननिर्देशः, चशब्दोऽनुक्तानवपुराणत्वादिपर्यायोपलक्षकः, 'पर्यवाणाम्' उक्तनिरुक्तानां, 'तुः' पूरणे 'लक्षणम्' असाधारणरूपम्, अयमभिप्रायः-यः कश्चिदस्खलितप्रत्ययः स सर्वः सनिबन्धनो, यथा घटादिप्रत्ययः, अस्खलितप्रत्ययाश्चामी एकोऽयमित्यादिप्रत्ययाः, ततोऽवश्यममीषां निबन्धनेन भवितव्यं, तच्च न द्रव्यमेव, तस्य सदाऽवस्थितत्वेन प्रतिनियतकालैकत्वादिप्रत्ययानुत्पत्तिप्रसङ्गात्, ततश्च यदमीषां कालनियमेनोत्पत्तिनिबन्धनं न तत्पर्यवेभ्यस्तत्तत्परिणतिविशेषरूपेभ्योऽन्यत्, गुणानां तु लक्षणानभिधानं रूपादिरूपाणां तेषामतिप्रतीत्वात् प्रायो विप्रतिपत्त्यविषयत्वाच्चेति सूत्रार्थः ।। इत्थं स्वरूपतो विषयतश्च ज्ञानभिधाय दर्शनमुपदर्शनयितुमाहमू.(१०८९) जीवा जीवा य बंधो य, पुत्रं पावाऽऽसवो तहा।
संवरो निज्जरा मुक्खो, संतेए तहिया नव।। मू. (१०९०) तहियाणं तु भावाणं, सब्भावे उवएसणं।
भावेण सहतस्स, सम्मत्तं ति वियाहियं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org