________________
१३८
उत्तराध्ययन- मूलसूत्रम् - २-२८ / १०८७ दिप्रत्यया इत्यनुमानमिति चेद्यद्येवमिदह्यापि यो य इह प्रत्ययः स सर्वः सालम्बनो यथेह कुण्डे दधीति प्रत्यय: इहप्रत्ययश्चायम् इह विहग इति प्रत्ययः इत्यनुमानमस्त्येव, अथैवमाधारमात्रस्यैव सिद्धिर्नत्वाकाशस्य, कथं न तत्सिद्धिः ?, यदेव ह्याधारमात्रं तदेवाकाशमिति वयं ब्रूमः, अथ बाधकाभावात्, ननु बाधकमपि विपरीतप्रत्ययोत्पत्तिरूपं, तदभावश्चोभयत्र समान इति न भित्त्याद्यभाव एवाकाशं किन्तु शुपिररूपमन्यदेव, ततस्तद्भावित्वादवगाहस्य कथं न तत्कारणत्वसिद्धिराकाशस्य ?, एवं च स्थितमेतद्- अवगाहेन कार्यरूपेण लक्ष्यमाणत्वादवगाहलक्षणं नभः, तथा वर्त्तन्ते- भवन्ति भावास्तेन तेन रूपेण तान् प्रति प्रयोजकत्वं वर्त्तना सा लक्षणं-लिङ्गमस्येति वर्त्तनालक्षणः कोऽसौ ? - कालः इदमुक्तं भवति यदमी शीतवातातपादयः ऋतुविभागेन भवन्ति यच्च केचिच्छशधरकरनिकरानुकारिपारतीप्रसवाः अन्ये तु तुहिनशिलाशकलविशदकुन्दमालतीकुसुमवासवाहिनः अपरे च केशरतिलकुरुबकशिरीषाङ्कोल्लप्रसूनजृम्भमाणपरागभाजः तदितरे च करिदशनसकलधवलमल्लिकाबहलपरिमलहारिणः परे च कदम्बकेतकरज: पूरपूरिताम्बरा: अपरे तु सप्तच्छदकुसुमरजो धूलिधूसरितविश्वविश्वम्भराः अविशिष्टवस्तवः प्रकाशन्ते क्रमेणैव भुवन भागांस्तदवश्यममीषां नैयत्यहेतुना केनापि भवितव्यं,
स च काल इत्यलं प्रसङ्गेन, सर्वथा वर्त्तनया लक्ष्यमाणत्वादस्ति काल इति स्थितं, तथा 'जीव: ' जन्तुरुपयोगो - मतिज्ञानादि लक्षणं रूपं यस्यासौ उपयोगलक्षणो, मतिज्ञानादिको छुपयोगस्तद्धर्मः, स च स्वसंविदित एवेति, तदनुभवतो रूपाद्यनुभवादिव घटादिर्जीवो लक्ष्यत इति तल्लक्षणमुच्यते, प्रपञ्चितं चैतदिहैव प्रागन्यत्र चेति न पुनः प्रतन्यते अत एव 'ज्ञानेन' विशेषग्राहिणा 'दर्शनेन च' सामान्यविषयेण 'सुखेन च' आह्लादरूपेण दुःखेन च -तद्विपरीतेन प्रक्रमाल्लक्ष्यत इति गम्यते, न हि ज्ञानादीन्युजीवेषु कदाचिदुपलभ्यन्त इतिकृत्वा ।
सम्प्रति विनेयानां दृढतरसंस्काराधानाय उक्तलक्षणमनूद्य लक्षणान्तरमाह- 'ज्ञानं च ' उक्तरूपमेवं दर्शनं चैव चरित्रं च तपस्तथा 'वीर्यं' वीर्यान्तरायक्षयोपशमसमुत्थं सामर्थ्यलक्षणम् 'उपयोगश्च' अवहितत्वं किमित्याह- 'एतत् ' ज्ञानादि जीवस्य लक्षणम्, एतेन हि जीवोऽनन्यसाधारणतया लक्ष्यत इति । इत्थं जीवलक्षणमभिधाय पुद्गलानां लक्षणमाह
‘शब्द:' ध्वनिः ‘अन्धकारः 'तिमिरम्, उभयत्र सूत्रत्वात्सुपो लुक् 'उद्योतः ' रत्नादिप्रकाशः 'प्रभा' चन्द्रादिदीधिति: 'छाया' शैत्यगुणा: 'आतपः 'रविबिम्बजनित उष्णप्रकाशः, इतिशब्द आद्यर्थः, ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुच्चये, वर्णश्च - नीलादिः रसश्च तिक्तादिः गन्धश्च-सुरभ्यादिः, स्पर्शश्च शीतादिरेषां द्वन्द्वः, इतिशब्देन चाद्यार्थेनैषां ग्रहणेऽपि पुनरुपादानं सर्वत्रानुयायिताख्यापनार्थं, 'पुद्गलानां' स्कन्धादीनां 'तुः' पुनरर्थः लक्षणम्, एतैरेव तेषां लक्ष्यत्वात्, आह-पौद्गलिकत्वे शब्दादीनां पुद्गललक्षणत्वं युक्तं तच्च कथम् ?, उच्यते, शब्दस्तावन्मूर्त्तत्वात्पौद्गलिको, मूर्तिभावोऽस्य प्रतिघातविधायित्वादिभ्यः, उक्तं हि“प्रतिघातविधायित्वाल्लोष्टवन्मूर्त्तता ध्वनेः ।
J
द्वारवातानुपाताच्च, धूमवच्च परिस्फुटम् ॥"
अन्धकारोद्योतप्रभाणां तु पौद्गलिकत्वं चक्षुर्विज्ञानविषयत्वात्, प्रयोगश्चात्र- यत्यौद्गलिकं न भवति तच्चक्षुर्विज्ञानविषयमपि न भवति, यथाऽऽत्मादयः, चक्षुविज्ञानविषयाश्चान्धकारादयः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org