________________
१४०
उत्तराध्ययन-मूलसूत्रम्-२-२८/१०८९ वृ. 'जीवा:' उक्तलक्षणाः अजीवाश्च' धर्मास्तिकायादय उक्तरूपा एव'बन्धश्च' जीवकर्मशोरत्यन्तसंश्लेषः पुण्यं-शुभप्रकृतिरूपंपापम्-अशुभं मिथ्यात्वादि आश्रवति-आगमच्छत्यनेन कर्मेत्वाश्रवः-कर्मोपादानहेतुहिंसादिः, पुण्यादीनां च कृतद्वन्द्वानामिह निर्देशः, 'तथे 'ति समुच्चये, संवरण संवर:-गुप्त्यादिभिराश्रवनिरोधः निर्जरणं निर्जरा-विपाकात्तपसो वा कर्मपरिसारः, 'मोक्षः कृत्स्नकर्मक्षयात्स्वात्मन्यवस्थानं, 'सन्ति' विद्यन्ते 'एते' अनन्तरोक्ताः 'तथ्या: अवितथा निरुपचरितवृत्तयो, न तु सुगतसामुयोलूकादिकल्पितपदार्थवद्विचाराक्षमाः, यथा चैतदेवं तथा सूत्रकृन्नाम्नि द्वितीयाङ्गे प्रपञ्चितमिति तत एवावधार्यम्, इह तु ग्रन्थगौरवयानोच्यते, 'नवे'ति नवसङ्ख्याः , मध्यमप्रस्थानापेक्षया चैतद्, अन्यथा सङ्केपापेक्षया जीवाजीवयोरेव बन्धादीनामन्तर्भावसम्भवात् द्वित्वसङ्घयैवाभिधेयास्यात्, तथा च वक्ष्यति-"जीवा चेव अजीवा य, एस लोगे वियाहिए"त्ति, विस्तरतस्तु तदुत्तरोत्तरभेदविवक्षयाऽनन्तमेव स्यात्।
यद्यमी नव तथ्यास्ततः किमित्याह-'तथ्यानां तु भावानाम्' अनन्तरोदितजीवादिस्वरूपाणां 'सद्भावे' सद्भावविषयं, किमुक्तं भवति?-एतदवितथसत्ताभिधायकम् 'उपदेशनं' गुर्वादिसम्बन्धिनमुपदेशं 'भावेन' अन्त:करणेन 'श्रद्दधतः' तथेति प्रतिपद्यमानस्य सम्याभाव: सम्यक्त्वं दर्शनमितियावत् 'तदिति भावश्रद्धानं विशेषेणाख्यातं तीर्थकृदादिभिरिति गम्यते, पठन्ति च-'सब्भावो(वेणो)वएसणे। भावेण उसद्दहणा सम्मत्तं होति आहिअंसदहणे'ति सूत्रत्वात् श्रद्धानं सम्यक्त्वं भवत्याख्यातं, तच्च श्रद्दधात्यनेन जीवादितत्त्वमिति श्रद्धानंसम्यक्त्वमोहनीयकर्माणुक्षयक्षयोप(शमोप) शमसमुत्थात्मपरिणामरूपम् उक्तं हि-"से य समत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सहे आयपरिणामे पन्नत्ति"त्ति, अवश्यं हि स कश्चिदात्मनः परिणामोऽस्ति येन सत्यपि जीवादिस्वरूपावबोधे कस्यचिदेव सम्यक् प्रतिपतिर्भवति न पुनः सर्वस्य, यथा हि सत्यपि दर्शने कश्चित् शळे श्वेतिमानं प्रतिपद्यते अन्यस्त्वन्यथाभावमिति तत्र कारणविशेषोऽनुमीयते, एवमिहापि, ततश्च जीवादिस्वरूपपरिज्ञानस्य सम्यग्भावहेतुरात्मपरिणामविशेषः सम्यक्त्वं, न तु ज्ञानस्वरूपमेव, अत एव हि ज्ञानादावरणभेदो विषयभेदः, कारणभेदो ज्ञानाकारणत्वं च सम्यक्त्वं श्रुतकेवलिनोक्तं, यत्तु 'तत्त्वार्थ श्रद्धानं सम्यग्दर्शनमपायसद्रव्यतया सम्यग्दर्शनमपायो मतिज्ञानतृतीयांश' इत्यादि तत्कारणे कार्योपचारं कृत्वाऽऽयुधुतमित्यादिवदिति गुरवो व्याचक्षत इति सूत्रद्वयारर्थः ॥ इत्थं सम्यक्त्वस्वरूपभिधाय तद्भेदानाहमू. (१०९१) निस्सग्गुवएसरुई आणारुइ सुत्तबीयरुइमेव।
अभिगमवित्थाररुई किरिया संखेवधम्मरुई। वृ. 'निसग्गुवएरुति'त्ति रुचिशब्द: प्रत्येकं योज्यते, ततो निसर्ग:-स्वाभावस्तेन रुचिःतत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिः, उपदेशो-गुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः, आज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा, 'सुत्तबीयरुइमेव त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमने रुचिर्यस्य स सूचरुचिः, बीजमिव बीजं- यदेकप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, अनयोः समाहारद्वन्द्वः, एवेति समुच्चये, अभिगमो-ज्ञानं विस्तारो-व्यासस्ताभ्यां, प्रत्येकं रुचिशब्दो योज्यते, ततोऽभिगमरुचि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org