________________
अध्ययनं-२७,[नि. ४९९] किञ्चिदित्यर्थः, ममैहिकमामुप्मिकं वा प्रयोजनं सिध्यतीति गम्यते, कै: ? - दुष्टशिष्यैः, प्रक्रमात्प्रेरितैः, किमेवमुच्यते इत्याह-आत्मा 'मे' ममावसीदति, एतत्प्रेरणादिव्यग्रतया तथाविधस्वस्वकृत्याकरणेन, तत एतत्त्यागतो वरमुद्यतविहारेणैव विहृतमिति भावः ।
अथैतत्प्रेरणान्तराले स्वकृत्यमपिकिं न क्रियते? इत्याह-यादृशा मम शिष्याः, 'तुः' पूरणे, तादृशागलिगर्दभाः, यदि परमित्युपस्कार: गर्दभग्रहणमतिकुत्साख्यापकं, ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, तत्स्तत्प्रेरणयैव कालोऽतिक्रामति, न तु तदन्तरालसम्भव इति भावः, यतश्चैवं ततो गलिग निवगलिगर्दमान्-दुःशिष्यांस्त्यक्त्वा 'दृढं' वाढं 'प्रगृह्णामि' पाठान्तरतः 'परिगृह्णाति वा' अङ्गीकुरुते, तदनुशासनरूपपलिमन्थत्यागतः, एकत्र सामान्येन गुरुरन्यत्र तु गर्गनामा, किन्तु 'तपः' अनशनादीति सूत्रद्वयार्थः ।। ततः कीदृशः सन् किमसौ कुरुते? इत्याहमू. (१०७५) मिउमद्दवसंपन्ने, गंभीरे सुसमाहिए।
विहरइ महिं महप्पा, सीईभूएण अप्पण। तिबेमि॥ वृ.'मृदुः' बहिर्वृत्त्या विनयवान् ‘मार्दवसंपन्नः' अन्त:करणतोऽपितादृगेव, कुशिप्यसन्निधौ हि मृदुरपि स्वरूपतोऽमृदुरेवासीत्, उक्तं हि-प्राक्-'अणासवा थूलवया कुसीला, मिउंपि चंडंपकरंति सीसा' इति, अत एव 'गम्भीरः' अलब्धमध्यः 'सुसमाहितः' सुष्टुचित्तसमाधानवान् 'विहरति' अप्रतिबद्धविहारेण पर्यटति 'मही' पृथ्वी महात्मा शीलं-चारित्रं भूतः-प्राप्तः शीलभूतस्तेनात्मना उपलक्षितः, यतश्चैवं गुरोरपि खलुङ्कत्यागत एव मार्दवादिगुणसंपन्नतेति खलुङ्क• ताया इहैवात्मनो गुरूणां च दोषहेतुत्वेन तत्त्यागतोऽशठतैव सेवितव्येत्यध्ययनतात्पर्यार्थः ।। 'इति' परिसमाप्तौ, ब्रवीमिति पूर्ववत् उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव॥
अध्ययनं २७ समाप्तम् मुनि दीपरत्नसगारेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे सप्तविंशमध्ययनं सनियुक्ति: सटीकं परिसमाप्तम्
अध्ययनं २८ मोक्षमार्गगतिः) वृ. व्याख्यातं सतविंशमध्ययनम् अधुनाऽष्टाविंशमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तराध्ययनेऽशठतयैव सामाचारी परिपालयितुं शक्यत इति तामभिहितवान्, इह तु तद्व्यवस्थितस्य न्यायप्राप्तैव मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमध्ययनमारभ्यते, अस्य चानुयोगद्वारचतुष्टयं प्राग्वत्प्ररूपणं यावन्नामनिष्पन्नेनिक्षेपे अस्य मोक्षमार्गगतिरिति नाम अतो मोक्षस्य मार्गस्य गतेश्च निक्षेपभिधातुमाह नियुक्तिकृत्
नि. [५००] निक्खेवो मुक्खंमि(य) चउब्विहो । नि. [५०१] जाणगसरीरभविए तव्वरिते अनियलमाईसु ।
अविहकम्ममको नायव्वो भावओ मुक्खो।। नि. [५०२] निक्खेवो मग्गंमि(वि) चउव्विहो।। नि. [५०३] जाणगसरीरभविए तव्वरिते अ जलथलाईसुं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org