SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ १३० उत्तराध्ययन-मूलसूत्रम्-२-२७/१०७२ कदाचित्प्रज्ञापितो यथा-आयुष्मन् ! ग्लानप्रतिजागरणं महनिर्जरास्थानमित्यमुकस्या अपि श्राविकायाः सकाशादमुकमौषधमाहारजातं वाऽऽनीयतां, ततः स तया ज्ञायमानोऽपि प्रतिकूलतया प्राह-न सा श्राविका मा प्रत्यभिजानाति, अप्रत्यभिज्ञानाच्च न वेत्ति, नैव सा मह्यं दास्यति विवक्षितमौषधादीति गम्यते इति हेतुहेतुमद्भावेन व्याख्येयं, स्वतन्त्रतया वानसा मां विजानाति, नापि सा मह्यं दास्यतीत्याह, यदिवा निर्गता गृहादिदानी सा भविष्यतीति मन्ये इति वक्ति, अथवा साधुः 'अन्यः' मद्यतिरिक्तः 'अत्र' विवक्षितप्रयोजने व्रजतु, किमहमेवैक: साधुरस्मीत्यभिधत्ते। अन्यच्च 'प्रेषिताः' क्वचित्तथाविधप्रयोजने प्रस्थापिताः 'पलिउंचंति'त्ति तत्प्रयोजनानिष्पादने पृष्टाः सन्तोऽपढुवते-क्व वयमुक्ताः?, गता वा तत्र वयं, न त्वसौ दृष्टेति, पठ्यते च-'पोसिया पलिउंचंति' पोषिताः-आहारोपकरणादिना श्रुतादिना च पुष्टि नीता अपहुवतेयथा किमस्माकं गुरुभिः कृतमित्यपलपन्ति 'ते' दुःशिष्याः 'परियंति' पर्यटन्ति समन्ततः' सर्वासु दिक्षु, न गुरुसन्निधौ कदाचिदासते, मा कदाचिदेषां किञ्चित्कृत्यं भविष्यतीति, कथञ्चित्संनिधाने वा कर्तुं प्रवृत्तौ ‘राजवेष्टिमिव' नृपतिहठप्रवर्तितकृत्यमिव 'मन्यमानाः' मनस्वयधारयन्तः कुर्वन्ति 'भ्रकृटीम्' आवेशवशकृतभ्रत्क्षपरूपां 'मुखे' वक्रे, अत्यन्तदुष्टताख्यापकमेतत् तदन्यवपुर्विकारोपलक्षणं च। अपरञ्च-‘वाचिताः' शास्त्राणि पाठिताः, उपलक्षणत्वात्तदर्थं च ग्राहिताः, किमाचार्यान्तरसत्का एवसन्त उतान्यथेत्याह-'संगृहीताः' परिगृहीताश्चशब्दाद् दीक्षिता उपस्थिताश्च स्वयमिति गम्यते, एवेति पूरणे, भक्तपानेन' च सुस्निग्धमधुरादिना, सूत्रे च सुब्ब्यत्ययात्तृतीयार्थे ससमी, 'पोपिताः' उपचितीकृताः, तथाऽपि जातपक्षाः' उत्पन्नापतत्रा यथा हंसाः प्रकर्षण-अतिविप्रकृष्टदेशान्तरगमनलक्षणेन क्रामन्ति-गच्छन्ति प्रक्रामन्ति 'दिसोदिसिं'त्ति दिशि दिशि यहच्छाविहारिणो भवन्तीत्यर्थः। पूर्वकस्थानस्थितानामेव पर्यटनमुक्तम्, इह तु देशान्तरगमन इति न पौनरुक्त्यं, प्रागेकप्रक्रमेऽपि यदिह बह्वभिधानं तदीदृशां भूयस्त्वख्यापनार्थमिति सूत्रषट्कार्थः ।। इत्थं खलुङ्कस्येव समिलाभङ्गादिना दुःशिष्यस्य धृतिदुर्बलत्वादिना दुष्टत्वम्, अत एव स्वस्वामिक्लमासमाधिजनकत्वं चोक्तम्, इदानीं तैरेव प्रापितक्लमासमाधिर्यदसावचेष्टत तदाहमू.(१०७३) अह सारही विचिंतेइ, खलुंके हि समागए। किं मज्झ दुट्ठसीसेहि?, अप्पा मे अवसीअई। मू.(१०७४) जारिसा मम सीसा उ, तारिसा गलिगदहा। गलिगद्दहे चइत्ताणं, दढं पगिण्हई तवं। व. 'अथेति क्लमासमाधिसम्भवानन्तरं सारथिरिव सारथिः स्खलितप्रवर्तकतयाऽऽचार्यादिः 'विचिन्तयति' ध्यायति, आचार्यसमाधिप्रतिसन्धानपक्षे तु अथे'त्यन्तरकोक्तचिन्तानन्तरं 'सारथिः' स एव गर्गाचार्यः खलुबैरिव खलुङ्कः-दुःशिष्यैः, हेतौ तृतीया, श्रमं-खेदमागतः-प्राप्तः श्रमागतः, ते हिदुष्टगवगवदनेकधा प्रेर्यमाणा अपि सन्मार्गगच्छन्तो गुरुश्रमहेतव एव भवन्ति, यदिवा समागतः खलुखैरिति च सहा तृतीया, यद्विचिन्तयति तदाह-किं?, न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy