________________
अध्ययनं - २७, [ नि. ४९९ ]
मू. ( १०६७)
मू. ( १०६८ )
मू. (१०६९)
मू. ( १०७० )
मू. ( १०७१)
मू. (१०७२ )
जायपक्खा जहा हंसा, पक्कमंति दिसोदिसिं ॥
वृ. ' इड्डीगारविए' त्ति ऋद्धा गौरवं श्राद्धा ऋद्धिमन्तो मम वश्याः संपद्यते च यथाचिन्तित - मुपकरणमित्याद्यात्मबहुमानरूपमृद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविको न गुरुनियोगे प्रवर्तते किमेतैर्भमेति एकः - कश्चन, 'एकः' अन्योऽत्रेति-दुः शिष्याधिकारे 'रसगारवे ' त्ति रसेषु-मधुरादिषु गौरवं - गायस्यासौ रसगौरवो वाल'लानादिसमुचिताहारदानतपोऽनुष्ठानादौ न प्रवर्त्तते, 'सायागाविए 'त्ति साते-सुखे गौरवं प्रतिबन्धः सातगौरवं तदस्यास्तीति सातगौरिक एकः, सुखप्रतिबद्धो हि नाप्रतिबद्धविहारादौ प्रवर्त्तितुं क्षमः एकः 'सुचिरक्रोधनः ' प्रभूतकाल - कोपनशीलः, एकदा कुपितः कुपित एवास्ते, न कृत्येषु प्रवर्त्तते ।
भिक्षायामालस्यकः-आलस्यवान् भिक्षाऽऽलस्थिक एको न विहर्तुमिच्छति, एकोऽयमानभीरुः -- भिक्षां भ्रमन्नपि न यस्य तस्यैव वेश्यनि प्रवेष्टुमिच्छति, यदिवा 'ओमाणं' ति प्रवेशः स च स्वपक्षपरपक्षयोस्तद्भीरुर्गृहिप्रतिबन्धेन मा मां प्रविशन्तमवलोक्यान्ये साधवः सौगतादयो वाऽत्र प्रवेक्ष्यन्तीति, ‘थद्धो 'त्ति स्तब्धोऽहङ्कारवान्, न निजकुग्रहान्नमयितुं शक्य इति प्रक्रमः, एकं च दुः शिष्यम्' अनुसासंमि' त्ति आर्षत्वादनुशास्ति गुरुरिति गम्यते, यदा त्वाचार्य आत्मनः समाधिं प्रतिसंधत्ते इति व्याख्या तदाऽनुशास्सीति व्याख्येयं हेतुभिः कारणैश्चोक्तरूपैः ।
स चानुशिष्यमाणः किं कुरुते ? इत्याह- सोऽपि दुः शिष्यः 'अंतरभासिल्ल' त्ति अन्तरभाषावान्, गुरुवचनापान्तराल एव स्वाभिभतभाषक इत्यर्थः, 'दोषमेव' अपराधमेव 'प्रादुष्वक(प्रक) रोति' प्रकर्षेण विधत्ते, न तु शिष्यमानोऽपि तद्विच्छेदमिति भावः, पाठान्तरश्च दोषमेव प्रभाषते, गुरूणामिति गम्यते, न चैतावता तिष्ठति, किन्त्वाचार्याणामुपलक्षणत्वादुपाध्यायादीनां द्वितीयपक्षे त्वाचार्याणां सतामास्माकमिति गम्यते, तदित्यनुशिष्टयभिधायकं वचनं वचः 'प्रतिकूलयति' विपरीतं करोति युक्त्युपन्यासेन विपरीतचेष्टया वा 'अमीक्ष्णं' पुनः पुनः, न त्वेकदैवेत्यभिप्रायः।
इड्डीयारविए एगे, एगिन्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥ भिक्खालसिए एगे, एगे ओमाणभीरुए थद्धे । एगं च अनुसासंमी, हेऊहिं कारणेहिय ।। सोऽवि अंतरभासिल्लो, दोसमेव पकुव्वई । आयरियाणं तं वयणं, पडिकूलेइ अभिक्खणं ।। न सा मम वियाणाइ, नवि सा मज्झ दाहिई | निग्गया होहिई मन्त्रे, साहू अत्रोऽत्थ वच्चउ ॥ पेसिया पलिउंचति, ते परियंति समंतओ । रायविट्ठि व मत्रता, करिति भिउडिं मुहे ॥ वाइया संगहिया चेव, भत्तपानेहिं पोसिया ।
Jain Education International
7
ܕ
यथा प्रतिकूलयति तथाऽऽह न सा 'ममं' ति मां विजानाति, किमुक्तं भवति ? - गुरुभिः
29
9
For Private & Personal Use Only
१२९
www.jainelibrary.org