SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ १२८ उत्तराध्ययन-मूलसूत्रम्-२-२७/१०६५ वाहयमानस्य-कृत्येषु प्रवर्तयतः संसारोऽतिवर्त्तते, तद्विनीततादर्शनादात्मनो विशेषतः समाधिसम्भवादितिभाव इति सोपस्कारतया व्याख्याते, इत्थमात्मनः समाधिप्रतिसन्धानाय विनीतस्वरूपं परिभाव्य स एवाविनीतस्वरूपं यथा परिभावयति तथाऽऽह-खलुंकेत्यादिसूत्रद्वादशककम्। खलुङ्कान् योऽनिर्दिष्टस्वरूप: 'तुः' विशेषणे योजयति-योत्क्रयति वहन इति प्रक्रमः, स किमित्याह-"विहमानो'त्तिसूत्रत्वाद विशेषेण 'घ्नन्' ताडयन् 'क्लाम्यति' श्रमं याति, पाठान्तरतः क्लिश्यति, अत एव 'असमाधि' चित्तोद्वेगरूपं 'वेदयते' अनुभवति 'तोत्रक:' प्राजनकः, स च 'से' इति तस्य खलुङ्कयोजयितुः भज्यते' अतिताडनाद्भङ्गं याति। ततश्चातिरुष्टः सन् यत् कुरुते तदाह-एक 'दशति' दशनैर्भक्षयति 'पुच्छे' वालधौ, 'एकम' अन्यं गलिं 'विध्यति' प्राजनकारया तुदति, उपलक्षणं चैतदश्लीलभाषणादीनाम्, 'अभीक्ष्णं' पुनः पुनः, अथ किमेते कुर्वन्ति? येन योजयितुरेवं निर्वेदहेतव इत्याह-'एक:' कश्चित् खलुङ्को गौ: 'भनक्ति' आमर्दयति, कां?-'समिलां' युगरन्ध्रकीलिकाम्, 'एक:' अन्यस्तामभंक्त्याऽपि उत्पथम्-उन्मार्ग प्रस्थित उत्पथस्थितो भवतीति गम्यते। तथा 'एक:' अपरः पतति 'पाश्र्वेन' एकगात्रविभागेन, गम्यमानत्वाद् भूमौ, अन्यस्तु 'निवेसइ'त्ति निवशति-उपविशति, अपरश्च 'निविज्जए'त्ति शेते, पर: 'उत्कूदते' ऊर्ध्वं गच्छति 'उफिडइ'त्ति मण्डूकवत्प्लवते, अन्यः 'शठः' शाठ्यवान्, अन्यः कश्चिद् 'बालगवी वए'त्ति 'बालगवीम्' अवृद्धां गां 'व्रजेत् तदभिमुखं धावेदित्यर्थः, यदिवाऽऽर्षत्वाद्बालगवीति व्यालगवो-दुष्टबलीवर्दः 'वजेत' गच्छेद् अन्यत इति शेषः।। अन्यश्च 'मायो' मायावान् 'मूर्जा' मस्तकेन पतति, कोऽर्थः? -अतिनिस्सहमिवात्मानमादर्शयन् भुवि शिरसा लुठति, अपरः 'क्रुद्धः' कुपितः सन् 'गच्छति प्रतिपथं' पश्चाद्वलति, अपरः 'मृतलक्ष्येण' मृतव्याजेन 'तिष्ठति' आस्ते, पठ्यते च-'पलयं(यलं)ते न चिट्ठिय'त्ति प्रव(च)लन् प्रकर्षण कम्पमानस्तिष्ठति, कम्पान्न निवर्तत इत्यर्थः, कथञ्चित्प्रवणीकृतः 'वेगेन च प्रधावति' यथा द्वितीयो गन्तुं न शक्नोति तथा गच्छतीति योऽर्थः । छिन्नालः' तथाविधदुष्टजातिः कश्चित् 'छिनत्ति' खण्डयति 'सि(स्वि)ल्लिं'ति रश्मि संयमनरज्जुमितयवात्, अपरस्तु दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भक्त्वा सुस्सुयाइत्त'त्ति सूत्करान् कृत्वा, तथा उज्जुहित्त'त्ति प्रेर्य स्वामिनं शकट चेति गम्यते 'पलायते' अन्यतो धावतीति सूत्रपञ्चकार्थः ।। इत्थं दृष्टान्तमभिधाय दार्टान्तिकयोजनामाहमू. (१०६६) खलुंका जारिसा जुज्जा, दुस्सीसाविहु तारिसा। जोइया धम्मजाणमि, भज्जता धिइदुब्बला। वृ.' खलुङ्काः' इहोक्तरूपा गावो यादृशाः ‘योज्याः' घट्टनीयाः, दुशिष्या अपि 'हुः' अवधारणे भिन्नक्रमश्च, ततस्तादृशादर्शयन्त्येवमेतेऽपि, किमिति?-यतो 'योजिताः' व्यापारिता धर्मो यानमिव मुक्तिपुरप्रापकतया धर्मयानं तस्मिन् ‘भज्यन्ते' न सम्यक् प्रवर्त्तन्ते 'धिइदुब्बल'त्ति प्राकृतत्वाद् दुर्बलधृतयो धर्मानुष्ठानं प्रतीति गम्यत इति सूत्रार्थः ।। धृतिदुर्बलत्वमेव तेषां भावयितुमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy