________________
अध्ययनं - २७, [ नि. ४९९ ]
१२७
धारयति-आत्मन्यवस्थापयतीति गणधरः 'गार्ग्यः' गर्गसगोत्र: तथा मुनिति-प्रतिजानीते सर्वसावद्यविरतिमिति मुनि: 'आसीत्' अभत् 'विशारदः' कुशलः सर्वशास्त्रेषु संग्रहोपग्रहयोर्वा, 'आकीर्णः' आचार्यगुणैराचारश्रुतसम्पदादिभिव्याप्तः परिपूर्ण इतियावत्, 'गणिभात्रे' आचार्यत्वे स्थित इति गम्यते, 'समाहिं पडिसंघए 'त्ति समाधानं समाधिः, स च द्विधा- द्रव्यतो भावतश्च, तत्र द्रव्यसमाधिर्यदुपयोगात्स्वास्थ्यं भवति, यथा (वा) पय: शर्करादिद्रव्याणां परस्परमविरोधः, भावसमाधिस्तु ज्ञानादीनि, तदुपयोगादेवानुपमस्वाथ्ययोगात्, तत्रेह भावसमा भधिर्गृह्यते, ततः समाधि 'प्रतिसंधत्ते' कर्मोदयात् त्रुटितमपि संघट्टयति, तथाविधशिष्याणामिति गम्यते इति सूत्रार्थः ॥ समाधिं च प्रतिसंदधद्यथाऽसौ शिष्येभ्य उपदिशति तथाऽऽह
मू. ( १०६१ )
वहणे वहमानस, कंतारं अइवत्तए ।
जोए वहमानस्स, संसारो अइवत्तए ॥
वृ. उह्यतेऽनेन वोढव्यमिति वहनं-- शकटादिस्तस्मिन् योजितस्येति गम्यते, 'वहमानस्य' सम्यक्प्रवर्त्तमानस्योत्तरत्र खलुङ्कग्रहणादिह विनीतगवादेरिति गम्यते, अतिक्रम्यातिक्रमणसम्बन्धे षष्ठी, वाहकाविनाभूतत्वाच्चास्य वाहकस्य च पामरकादे: 'कान्तारम्' अरण्यम् 'अतिवर्त्तते' सुखातिवर्त्तितया स्वयमेवातिक्रमतीति दृष्टान्तः, उपनयमाह - 'योगे' संयमव्यापारे 'वहत:' तथैव प्रवर्त्तमानस्य इहापि प्राग्वत्प्रवर्त्तकस्य चाचार्यादेः 'संसार:' भवः अतिवर्त्तते' प्राग्वत् स्वयमेवातिक्रामति, इह च योगवहनमशठतेति सैव प्रागध्ययनार्थत्वेनोपवर्णिता कलोपदर्शनद्वारेणानेनो क्तेति भावनीयमिति सूत्रार्थः || तदेवं कथममी अशठतामासेव्य पुनर्ज्ञानादिसमाधिमन्तः शिष्याः स्युरिति तस्या गुणमभिधाय तद्गुणज्ञानमिव तद्विपक्षदोषावधारणमपि तदासेवनाङ्गमीति तद्विपक्षभूतशठतादोषा अपि वाच्याः, ते च कुशिष्यस्वरूपाभिधानत एवाभिधातुं शक्यन्ते इति निर्वेदकत्वं स्वयं दोषदुष्टत्वं च तत्स्वरूपवगमयितुं दृष्टान्तोपवर्णनायाह
मू. ( १०६१)
मू. ( १०६२ )
मू. ( १०६३ )
खलुंके जो उ जोएइ, बिहंमाणे किलिस्साई । असमाहिं च वेइए, तुत्तओ य से भज्जई ॥ एगं डसइ पुच्छंमि, एगं विधइऽभिक्खणं । एगो भंजइ समिल, एगो उप्पहपट्टिओ ॥ एगो पडइ पासेणं, निवेसइ निविज्जई । उक्कुद्दइ उप्फिडई, सढे बालगवी वए । माई मुद्धेण पडई, कुद्धे गच्छइ पडिवहं । मयलक्खेण चिट्ठाई, वेगेण य पहावई ॥ छिन्नाले छिंदई सिल्लि, दुर्द्दते भंजई जुगं । सेविय सुस्सुयाइत्ता, उज्जुहित्ता पलायई ॥
मू. ( १०६४ )
मू. ( १०६५ )
वृ. यद्वा धर्मकथाऽनुयोगत्वादस्य प्रथमसूत्रे गर्गनामाऽऽचार्यः कथञ्चित्कुशिष्यैर्भग्नसमाधिरात्मनः समाधिं प्रति संधत्त इति व्याख्यायते, द्वितीयसूत्रे तु वहने 'वहमाणस्स 'त्ति अन्तर्भावितण्यर्थतया बाहयमानस्य विनीतगवादीन् यथा कान्तारमतिवर्त्तते तथा योग्यान् शिष्यान्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International