________________
१२६
उत्तराध्ययन-मूलसूत्रम्-२-२७/१०५९ चस्य गम्यमानत्वाद् गजांकुशानीव वक्रतया वृन्तानि च-फलबन्धनानि, प्रक्रमात्करमा एवोक्तरूपाणि । अनेकधा द्रव्यखलुङ्काभिधानं च काक्वाऽनेकविधकुशिष्यदृष्टान्तप्रदर्शनार्थमिति गाथात्रयार्थः॥
सम्प्रति यदुक्तं 'प्रतिलोमः सर्वार्थेषु भावतो भवति खलुङ्क' इति तदभिव्यक्तीकर्तुमाहनि. [ ४९६] दंसमसगस्समाना जलुयवाविच्छुयसमा य जे हुंति ।
ते किरहोंति खलुंका तिक्खम्मिउचंडमद्दविआ ।। नि. [४९७] पिसुणा परोवतावी भिन्नरहस्सा परं परिभवंति।
निव्विअनिज्जा य सढा जिनवयणे ते किर खलुंका ।। वृ.दंशमशकैः ‘समाण'त्ति समानाः-- तुल्या दंशमशकसमानाः, ते हि जात्यादिभिस्तद्वत्तुदन्तीति, तथा जलौकाकपिच्छुकसमानाश्च प्रस्तावाच्छिच्या ये भवन्ति, दोषग्राहितयाऽप्रस्तुतपृच्छादिनोद्वेजकतया च, पठन्ति च-'जलूकविच्छुगसमा य'त्ति यथावृश्चिकोऽवष्टब्धो विध्यत्येय कण्टकेन एवं ये शिष्यमाणा गुरुं वचनकण्टैर्विध्यन्ति 'ते' एवंविधाः किल भवन्ति खलुङ्का भावत इति गम्यते, तीक्ष्णा-असहिष्णवो मुदवः-अलसतया कार्यकारणं प्रत्यदक्षाश्चण्डाः-कोपनतया मार्दवेन चरन्ति मार्दविकाः-शतकृत्वोऽपि गुरुप्रेरिता न सम्यनुष्ठानं प्रति प्रवर्त्तन्ते किन्त्वलसा एव, अमीषा द्वन्द्वः।। ___ अन्यच्च-ये किल 'गुरुप्रत्यनीकाः' आचार्यदिप्रतिकूला: कूलवालकवत् 'शबलाः' शबलचारित्रयोगात् 'असमाधिकारका:' गुर्वादीनामसमाधानजनकाः, अत एव पापा: 'अधिकरणकारकात्मानः' कलहकर्तृस्वभावाः सदनुष्ठानं प्रति प्रेर्यमाणा युद्धायैवोपतिष्ठन्ते, 'जिनवचने' सर्वज्ञशासने ते किल खलुङ्का इत्युच्यन्त इति शेषः। __ तथा 'पिशुना:' सूचकाः, अत एव 'परोक्यावि'सि परोपतापिनः भिन्नरहस्या:' विश्वस्तजनकथितरहस्यभेदिनः तथा 'परम्' अन्यं 'परिभवन्ति' येन केनचित्प्रकारेणाभिभवन्ति "निव्वेयणिज्ज'त्ति निर्वेदनीया निर्वेदं प्राप्य प्रक्रमाद्यतिकृत्येन, पाठान्तरतो निर्गता वचनीयाद्उपदेशवाक्यात्मकाद् ये ते निर्वचनीयाः, च: समुच्चये भिन्नक्रमश्च, ततः 'शठाश्च' मायाविनः, पठ्यते च-'निव्वया निस्सीलसढ'त्ति सुगममेव, 'जिनवचने' श्रीसर्वज्ञशासने भणिता ये इति शेषः, ते प्रागभिहितस्वरूपाः किल खलुङ्का इति गाथात्रयार्थः । ततः किमित्याहनि. [४९९] तम्हा खलुकभावं चइऊणं पंडिएण पुरिसेणं।
कायव्वा होइ मई उज्जुसभावंमि भावेणं ।। व.तस्मादित्थं दोषवन्तं खलङ्गभावं त्यक्त्वा 'पण्डितेन' बुद्धिमत्ता पुरुषेण उपलक्षणत्वात् स्त्र्यादिना च कर्त्तव्या भवति ‘मति:' बुद्धिः क्व ?-'ऋजुस्वभावे' आर्जवे भावे 'भावेन' परमार्थेन न तु बहिर्वृत्त्यैवेति गाथार्थः ।। अवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (१०५९) थेरे गणहरे गग्गे, मुनी आसि विसारए।
आइन्ने गणिभावम्मि, समाहिं पडिसंघए।। वृ. धर्मेऽस्थिरान् स्थिरीकरोतीति स्थविर: उक्तं हि-"थिरकरणा पुन थेरो" गणं-गुणसमूह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org