________________
अध्ययनं-२७,[ नि. ४९१]
(अध्ययनं २७ खलुङ्कीयं ) ७. व्याख्यातं पड्विंशमध्ययनं, सम्प्रति सप्तविंशमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तराध्ययने सामाचारी प्रतिपादिता, साचाशठतयैव, पालयितुं शक्या, तद्विपक्षभूतशठताज्ञान एव च तद्विवेकेनासौ ज्ञायत इत्याशयेन दृष्टान्ततः शठतास्वरूपनिरूपणद्वारेणाशठतैवानेनाभिधीयत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ने निक्षेपे खलुङ्कीयमिति नाम, अतः खलुङ्क: (नामतः खल्लुक) निक्षेपायाह नियुक्तिकृत्
नि. [४९१] निक्खेवो खलुकमि चव्विहो । नि. [ ४९२] जाणगसरीरभविए तव्वइरिते बइल्लमाईसुं।
पडिलोमो सव्वत्थेसु भावओ होइ उ खलुको ।। वृ.'निक्खवो' गाथाद्वयं व्याख्यातप्रायमेव, नवरंबलीवर्दादिष्वित्यादिशब्देनाश्वादिपरिग्रहः, निर्धारणे चेयं सप्तमी, ततो बलीवादिषु यो गल्यादिरिति गम्यते स द्रव्यतः खलुङ्क इति, 'प्रतिलोमः प्रतिकूलः सर्वार्थपु, पाठान्तरतः 'सर्वस्थानेषु' ज्ञानादिषु भावतो भवति खलुङ्क इति गाथाद्वयार्थः । तद्वयतिरिक्तद्रव्यखलुङ्कस्वरूपमाहनि. [ ४९३] अवदाली उत्तसओ जोत्तजुगभंज तुत्तभंजो अ।
उप्पहविप्पहगामी एय खलुका भवे गोणा॥ नि. [ ४९४] जंकिर दव्वं खुज्जं कक्कडगुरुयं तहा दुरवनाम।
तं दव्वेसु खलुंके वंककुडिलवेढमाइद्धं ।। नि. [ ४९५] सुचिरंपि वंकडाई होहिंति अनुज्जइज्जमाणाई।
करमंदिदारुआइं गयंकुसा इव बिटाई॥ वृ. 'अवदालि'त्ति अवरदायति शकटं स्वस्वामिनं वा विनाशयतीत्येवंशीलोऽवदारी, उत्त्रसको यो यत्किञ्चनावलोक्योत्रस्यति, 'जुत्तजुगभंज'त्ति योत्रं-तथाविधसंयमनं युगं-- प्रतीतमेव ते भनक्ति-विशायति योत्रयुगभञ्जः, तथा तोत्रं-प्राजनकस्तद्भनक्ति तोत्रभञ्जकश्च, उभयत्र कर्मण्यम्' 'उत्पथविपथगामी' उत्पथ:-उन्मार्गो विपथो-विरूपमार्गस्ताभ्यां गमनशीलः, 'एते' अवदार्यादयः खलुङ्का भवन्ति' भवेयुः ‘गोणाः' बलीवर्दाः, उपलक्षणत्वादश्वादयश्च।अमुमेव प्रकारान्तरेणाह-'यदिति सामान्यनिर्देशे किले'ति परोक्षाप्तवादसूचकः 'द्रव्यं दादि कुब्जमिव कुब्ज मध्यस्थूलतया कर्कशं च तत्कठिनतया गुरुकं चातिनिचितपुद्गलतया कर्कशगुरुकं, तथाऽत एव दुःखेनावनामयितुं शक्यत इति दुखनामं, करीरकाष्ठवत्, तद्रव्येषु खलुङ्गं वक्रमनृजुत्वात्, कुटिलं विशिष्टकौटिल्ययोगात् 'वेढमाइद्धं ति मकारोऽलाक्षणिकस्ततश्च वेष्टैः-ग्रन्थिभिराविद्धं-व्यासं वेष्टाविद्धम्, तेषां विशेषणसमासः । __ इहैव दृष्टान्तमाह-'सुचिरमपि' प्रभूतकालमपि 'वंकडाइ'न्ति वक्राणि, अवधारणाफलत्वाच्च वाक्यस्य वक्राण्येय भविष्यन्ति न कदाचिजुभावमनुभविष्यन्ति, 'अनुज्जइज्जमाणाई ति एकं स्वरूपतोऽनृजूनि अपरं च तेषां क्वचित्कार्येऽनुपयोगात्केनचिदनृजूक्रियमाणानि, कान्येवंविधानीत्याह-करमर्दी-गुल्मभेदस्तद्दारुकानि, तथा 'गयंकुसा इव बिंटाईति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org