SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ १३२ उत्तराध्ययन-मूलसूत्रम्-२-२८/१०७६ भावंमि नाणदंसणतवचरणगुणा मुनेयव्वा ।। नि. [५०४] निक्खेवो उ गईए चउव्विहो दुव्वि०॥ जाणगसरीरभविए तव्वरिते अपुग्गलाईसुं। भावे पंचविहा खलु मुक्खगईए अहीगारो । वृ.निखेवोत्यादि गाथाः षट् प्रतीतार्थ एव, नवरं तव्वइरित्ते यनियलमाईसुत्ति तद्व्यतिरिक्तश्च निगडादिभ्यः, आदिशब्दात्कारागृहादिपरिग्रहः, सूत्रत्वाच्च पञ्चम्यर्थे सप्तमी, इह च निगडादीनां द्रव्यत्वात्तन्मोक्षोऽपि द्रव्यमोक्ष उक्तः, अष्टविधकर्मणा-ज्ञानावरणाददिनिा मुक्तःत्यक्त आत्मेति ज्ञातव्यो भावतो मोक्षः, कथञ्चिद्रव्यपर्याययोरनन्यत्वख्यापनार्थमित्धमुक्तम्, अन्यथा हि क्षायिकभाव एवात्मनो मुक्तत्वलक्षणो मोक्ष इत्युच्यते, आह-कर्मणोऽपि द्रव्यात्वात्कर्मक्षयलक्षणत्वाच्चास्य कथं न द्रव्यमोक्षता?, उच्यते, इहद्रव्यविवक्षितत्वात्क्षायिकभावरूपस्यैव चास्याश्रितत्वान्न दोषः, अथवा भावशब्दोऽत्र परमार्थवचनः, तथा च वक्तारो भवन्ति-अयमत्र भाव:-अयमत परमार्थ इत्यर्थः, ततश्चास्यैवैकान्तिकात्यन्तिकत्वेन तात्त्विकत्वाद्भावमोक्षत्वम्, इतरस्य तु तद्विपरीत्वाद् द्रव्यमोक्षत्वमित्यनवकाश एव प्रेरणायाः, 'तव्वइरितेय जलथलाईसुन्ति जलस्थले-प्रतीते आदिशब्दादुभयपरिग्रहस्तेषु प्रक्रमाद्यो मार्गाः स तद्व्यतिरिक्तो द्रव्ये मुनितव्य इति संटङ्कः, भावो ज्ञानदर्शनतपश्चरणगुणा जीवपर्यायत्वान्मुक्तिपदावप्तिनिमित्ततया च मुनितव्यो मार्ग इति प्रक्रमः । तव्वइरिते य पोग्गलाईसुन्ति सूत्रत्वात्तद्व्यतिरिक्ताचप्रक्रमाद्रव्यगतिः पुद्गलादिषु, आदिशब्दाज्जीवपरिग्रहः, व्यक्तिभेदविवक्षयाच बहुवचननिर्देशः, द्रव्यत्वं चास्या द्रव्यप्राधान्यविवक्षया, अन्यथा हि पुद्गलादिपर्यायत्वाद्भतेर्भावरूपतैव, यदिवा द्रव्यस्य गतिः द्रव्यगतिरिति षष्ठीसमासाश्रयणान्न दोषः, भावे 'पञ्चविधा' पञ्चप्रकारा प्रस्तावाद्गति रकतिर्यङ्गरामरमुक्त्याख्यगम्यभेदेन, मोक्षगत्यासिद्धिगत्या त्वधिकारः, तस्या एवेहाभिधेयत्वादिति गाथाषट्कार्थः ।। सम्प्रति यथाऽस्य मोक्षमार्गगतिरिति नाम तथा दर्शयितुमाहनि. [५०६] मुक्खो मग्गो अ गई वनिज्जइ जम्ह इत्थ अज्झयणे। तं एअं अज्झयणं नायव्वं मुक्खमग्गगई। वृ. मोक्षः प्राप्यतया मार्गस्तत्प्रापणोपायतया चशब्दो भिन्नक्रम: ततः 'गतिश्च' सिद्धिगमनरूपा तदुभयफलतया 'वर्ण्यते' प्ररूप्यते यस्माद् 'अत्रे'ति प्रस्तुतेऽध्ययने 'तत्' तस्मादेतदध्ययनं ज्ञातव्यं 'मोक्षमार्गगतिः' इति मोक्षमार्गगतिनामकम्, अभिधेयेऽभिधानोपचारादिति भाव इति गाथार्थः ।। उक्तो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (१०७६) मुक्खमग्गगई तच्चं (त्थं), सुणेह जिनभासियं। चउकारणसंजुत्तं, नाणदंसणलक्खणं। वृ. मोक्षणं मोक्षः-अष्टविधकर्मोच्छेदस्तस्य मार्ग:-उक्तरूपस्तेन गतिः-अनन्तरोक्ता मोक्षमार्गगतिस्तां, कथ्यमानामिति गम्यते, तच्चं'ति तथ्याम्' अवितथां शृणुत' आकर्णयत 'जिनभाषितां' तीर्थकृदभिहितां, चत्वारिकारणानिवक्ष्यममाणलक्षणानि तैः संयुक्ता-समन्विता चतुष्कारणसंयुक्ता तां, नन्वमूनि चत्वारि कारणानि, कर्मक्षयलक्षणस्य मोक्षस्यैव, मतेस्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy