________________
अध्ययनं-१,[नि. ६४]
४९ गिहिऊण जननीसमीवमुवणीओ, भणिओ अनेन-भावघायय ! कहि ते आहणामित्ति, तेन भणिओ-जहिं सरणागया आहम्मंति, तेण जननी अवलोकिया, ताए भण्णइ-ण पुत्त ! सरणागया आहम्मंति, तेण भण्णइ-कहं रोसं सफलं करेमित्ति, तेण भण्णइ-न पुन ! सव्वत्थ रोसो सफलो कज्जइ, पच्छा सो तेन विसज्जिओ।
एवं क्रोधमसत्यं कुर्वीत, मानादिविफलीकरणे उदाहरणान्यागमादवधारणीयानि, इत्थमुदितानां क्रोधादीनां विफलीकरणमुपदिष्टं, सम्प्रति यथैपामुदय एव न स्यात् तथोपदेष्टुमाह'धारयेत्' स्वरूपेणावधारयेत्. न तद्वशतो रागं द्वेषं वा कुर्यात्, 'प्रियं' प्रीत्युत्पादकं शेषजनापेक्षया स्तुत्यादि, 'अप्रियं' तद्विपरीतं निन्दादि, तत्रोदाहरणसम्प्रदाय:-असिवोवदुए नयरे तिन्नि भूयवाईया रायाणमुत्रगया भणंति-अम्हे असिव उत्रसमेमोत्ति, राइणा भणियं-सणिमो कणोवाएणंति, तत्थेगो भणइ-अस्थि महेगं भूयं, तं सुरूवं विऊण विऊणं गोपुररत्थाइस परियडइ, तं न निहालेयव्वं, तं निहालियं रुसइ, जो पुण तं निहालेति सो विनस्सइ, जो पुण पिच्छिऊण अहोमुहो ठाइ सो रोगाओ मुच्चइ, राया भणति-अलाहि एएण अइरोसणेणंति ।
विइओ भणति-महच्चयं भूयं महतिमहालयं रूवं विउव्वति, लंबोयरं विवृतकुक्षि पंचशिरं एगपादं विसिहं विस्सरुवं अट्टहासं मुयंतं गायंतं पणच्चंतं, तं विकृतरूपं दट्टणं जो पहसति पवंचेति वा तस्स सत्तहा सिरं फुट्टइ, जो पुण तं सुहाहि वायाहिं अभिणंदति धूवपुप्फाईहिं पूएइ सो सव्वहाऽमयातो मुच्चइ, राया भणइ-अलमेएणंपि।
ततितो भणइ-ममवि एवंविहमेव नातिविसेसकरं भयमत्थि, प्रियाप्रियकारिणं रिसणादेव रोगेहितो मोचयति, एवं होउत्ति, तेन तहाकए असिवं उवसंतं ।
एवं साधूवि असारूप्यत्वे सति शब्दादिप्रतिकूलत्वे च परेहिं परिभूयमाणो पवंचिजमाणो हसिज्जमाणो वा तथा थुव्वमाणो वा पूइज्जमाणो वा तं प्रियाप्रियं सहेत। अनेन च मनोगुप्त्यभिधानाच्चारित्रविनय उक्तः, इति सूत्रार्थ: ।। आह-क्रोधासत्यताकरणादिभिरात्मदमनोपाय उक्तः, तत्र च बाह्येष्वपि दमनीयेषु सत्स किमिति तस्यैव दमनोपाय उद्दिश्यते? किंवा तद्दमने फलमिति, मू. (१५) अप्पामेव दमेयव्वो. अप्पा हु खलु दुद्दमो।
अप्पा दंतो सुही होइअस्सि लोए परत्थ य।। व. अतति-सन्ततं गच्छति शद्धिसंक्लेशात्मकपरिणामान्तराणीत्यात्मा तमेव 'दमयेत' इन्द्रियानोइन्द्रियदमेन मनोज्ञेतरविपयेषुरागद्वेपवशतो दुष्टगजभिवोन्मार्गगामिनं स्वयं विवेकांकुशेनोपशमनं नयेत्, पठन्ति च-'अप्पा चेव दमेयव्यो'त्ति स्पष्टं, किमेवमुपदिश्यत इत्याहआत्मैव, हुशब्दस्यैवकारार्थत्वात् 'खलु' इति यस्मात् 'दुर्दमः' दुर्जयः, ततस्तद्दमने दमिता एव बाह्यदमनीया इति, न तद्दमनमुपदिश्यत इति भावः, उक्तं हि-"सव्वमप्पे जिए जियं", कः पुनरेवं गुण इत्याह-आत्मा 'दान्त' उपशममानीतः, सुखमस्यास्तीति सुखी, भवति, क्व?'अस्मिन्' इत्यनुभूयमानायुषि विनेयाध्यक्षे 'लोके' भवे 'परत्र च' इत्यागामिनि भवान्तरे, दान्ताऽऽत्मानो हि परमर्पय इहैव सुरैरपि पूज्यन्ते, अदान्ताऽऽत्मानस्तु चौरपारदारिकादयो विनश्यन्ति, तथा[28/4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org