SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४८ उत्तराध्ययन- मूलसूत्रम् - १-१ / १३ विषयस्य तस्याश्रवणादनाश्रवाः, पठयते च-' -'अनासुण'त्ति अस्यार्थः, स एव, स्थूलम् - अनिपुणं यतस्ततो भाषितया वचो येषां ते स्थूलवचसः 'कुशीला' इति दुःशीलाः, 'मृदुमपि' अकोपनमपि कोमलालापिनमपि वा 'चण्ड' कोपनं परुषभाषिणं वा 'प्रकुर्वन्ति' प्रकर्षेण विदधति 'शिष्याः ' विनेयाः, सम्भवति ह्येवंविधशिष्यानुशासनाय पुनः पुनर्वचनात्मकं खेदमनुभवतो मुदोरपि गुरोः कोप इति । इत्थं गलितुल्यस्य दोषमभिधायेतरस्य गुणमाह- 'चित्तं - हृदयं प्रक्रमात् प्रेरकस्यानुगच्छन्ति- कसपाताननपेक्ष्य जात्याश्ववदनुवर्तयन्तीति चित्तानुगाः, 'लघु' शीघ्रमेव दक्षस्य भावो दाक्ष्यम् अविलम्बितकारित्वं तेन 'उववेय'त्ति उपपेता-युक्त दाक्ष्योपपेताः 'प्रसादयेयुः ' सप्रसादं कुर्युः 'ते' इति शिष्याः, 'हुः' पुनरर्थः, दुःखेनाऽऽ श्रयन्ति तमतिकोपनत्वादिभिरिति दुराश्रयस्तमपि, प्रक्रमाद्गुरुं किं पुनरनुत्कटकषायमित्यपिशब्दार्थः । अत्रोदाहरणं चण्डरुद्राचार्यशिष्यः, तत्र च सम्प्रदायः - अवंतीजनवए उज्जेनीनयरीए न्हवणुज्जाणे साहुणो समोसरिया, तेसिं, सगासं एगो जवा उदत्तवेसो वयंससहिओ उवागतो, सो ते वंदिऊण भणति - भयवं ! अम्हे संसाराउ उत्तारेह, पव्वयामित्ति, एस एमेव पवंचतित्ति काऊण 'घृष्यतां कलिना कलिरि'त्ति चंडरुद्दं आयरियं उवदिसंति, एस ते नित्थारेहित्ति, सोऽवि य सभावेण फरुसो, तओ सो वंदिऊण भणइ-भगवं ! पव्वावेह (हि) ममंति, तेण भणितोछारं आनेहत्ति, आनिए लोयं काऊण पव्वाविओ, वयंसगा से अद्धीइं काऊण पडिगया, तेऽवि उवस्सयं नियगं गया, विलंबिए सूरे पंथं पडिलेहेइ, परं पच्चूसे वच्चामित्ति विसज्जिओ, पडिले हिउमागओ, पच्चूसे निग्गया, पुरतो वच्चति (त्ति) भणितो, वच्चंतो पंथातो फिडितो चंडरुद्द खाणुए क्खलितो, रुसिएण हा दुट्ठसेहत्ति दंडएण मत्थए आहतो, सिरं फोडितं, तहावि सम्मं सहइ, विमले पहाए चंडरुद्देण रुहिरोग्गलंतमुद्धाणो दिट्ठो, हा ! दुट्टु कयंति संवेगमावणेण खामिओ । एवं गुरुप्रसादात् चण्डरुद्राचार्यशिष्यस्येव सकलसमीहितावाप्तिरिति मत्वा मनोवाक्कायैर्गुरुचित्तानुवृत्तिपरैर्भाव्यमिति, अनेनान्तरेण च सूत्रेण प्रतिरूपयोगजनात्मक औपचारिको विनय उक्त इति सूत्रार्थः ॥ कथं पुनर्गुरुचित्तमनुगमनीयमित्याहनापुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए। मू. ( १४ ) कोहं असच्चं कुव्विज्जा, धारिज्जा पियमप्पयं ॥ वृ.'नापृष्टः' कथमिदम्? इत्याद्यजल्पितः, गुरुणेति गम्यते, 'व्यागृणीयात्' वदेत्, तथाविधं कारणं विना, 'किञ्चित्' स्तोकमपि, पृष्टो वा न 'अलीकम्' अनृतं वदेत्' कारणान्तरेण च गुरुभिरतिनिर्भर्तित्सतोऽपि न तावत् क्रुध्येत्, कथञ्चिदुत्पन्नं वा क्रोधम्' असत्यं' तदोत्पन्नकुविकल्पविफलीकरणेन ‘कुर्वीत' विदध्यात् कथम् ? - 'धारयेत्' स्थापयेत्, मनसीति शेषः, 'पियमप्पियं' ति इवाप्योर्गम्यमानत्वात् प्रियमिवेष्टमिव सदा गुणकारणतया अप्रियमपि कर्णकटुकतया तदाऽनिष्टमपि, गुरुवचनमिति गम्यते, अत्र श्लोकपूर्वार्धेन वाचा यथा गुरुरनुवर्तनीयः तथोक्तमुत्तरार्धेन तु मनसेति, अथवा नापृष्ट इति न गुरुणैव किन्तु येन केनचिदपीत्यादिक्रमेण पादत्रयं सामान्येन प्राग्वन्नेयं, नवरं क्रोधम् उपलक्षणत्वान्मानादिकषायं चोत्पन्नमसत्यं कुर्वीत, क्रोधासत्यतायामुदाहरणसम्प्रदायः - कस्सवि कुलपुत्तयस्स भाया - वेरिएण वावाइओ, तओ सो जननीए भन्नइ पुत्त ! पुत्तधाययं घायसुत्ति, तओ सो तेन जीवग्गहो - For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy