SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१,[नि. ६३] ४७ इत्याद्यागममनुस्मरन् कथञ्चित् परैः प्रतीतमप्रतीतं वा मनःशल्यं यथावदालोचयेत्, ततश्चानेन्तरतपोऽन्तर्गताऽऽलोचनाख्याप्रायश्चित्तभेदाभिधानम्, अनेन चशेषतपोभेदानामप्युलक्षितत्वात् तपोविनयमाह इति सूत्रार्थः ।। इहैवं पुनः पुनरुपदेशश्रवणाद् यदैव गुरोरुपदेशस्तदैव प्रवर्तितव्यं निवर्तयितव्यं चेति स्यादाशङ्का, तदपनोदायाहमू.(१२) मा गलियस्सेव कसं, वयणमिच्छे पुनो पुनो। कसं व दगुमाइन्ने, पावगं परिवज्जए। वृ. 'मा' निषेधे, गलि:-अविनीतः, स चासावश्वश्च गल्यश्चः स इव, कशतीति कशस्तम्, उपलक्षणत्वात् कशप्रहारं, 'वचनं' प्रवृत्तिनिवृत्तिविषयमुपदेशं, प्रस्तावाद्गुरूणाम्, 'इच्छेत्' अभिलषेत्, 'पुन: पुन:' वारं वारं, कोऽभिप्राय: ?-यथा गल्यश्चो दुविनीततया न पुनः पुनः कशप्रहारु विना प्रवर्तते निवर्तते वा, नैवं भवताऽपि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्षणीयं, किन्तु 'कसं व दट्टमाइने'त्ति इवशब्दस्य भिन्नक्रमत्वात् कशं-चर्मयष्टि दष्ट्वाऽऽकीर्णो-विनीतः, स चेह प्रस्तावादश्चः, स इव, सूचकत्वात् सूत्रस्य, सुशिष्यो गुरोराकारादि दृष्टवा, पापमेव पापकं,गम्यनमानत्वादनुष्ठानं परिवर्जयेत्' सर्वप्रकारं परिहरेत्, उपलक्षणत्वादितरच्चानुतिष्ठेत, पठन्ति च-पावगं पडिवज्जइ' त्ति तत्र च पुनातीति पावकं-शुभमनुष्ठानं 'प्रतिपद्येत' अङ्गीकुर्यात्, इहापि प्राग्वदितरत्, परिहरेत्, किमुक्तं भवति ?, यथाऽऽकीर्णोऽश्च: कशग्रहणादिनाऽऽरोहकाभिप्रायमुपलभ्य कशेनाताडित एव तदभिप्रायानुरूपं प्रवर्तते निवर्तते वा, तथा सुशिष्येणा(ष्योऽ)प्याकारादिभिराचार्याशियमवगम्य, वचनेनाप्रेरित एव प्रवर्तते, मा भूदन्यथाऽऽरोहकस्येवगुरोरायास इति सूत्रार्थः । अत्र च नियुक्तिकृत् गल्याकीर्णो व्याचिख्यासुः 'तत्त्वभेदपर्यायैाख्या' इति तत्पर्यायानाहनि.[६४] गंडी गली मराली अस्से गोणे य हुंति एगट्ठा। आइन्ने य विनीए य भद्दए वावि एगट्ठा ।। व.गच्छति प्रेरितः प्रतिपथादिना डीयते च कर्दमानो विहायोगमनेनेति गण्डिः, गिलत्येव केवलं न तु वहति गच्छति वेति गलिः, नियत इव शकटादौ योजितो राति च-ददाति लत्तादि लीयते च भुवि पतनेनेति मरालिः, अमी च अश्वे' तुरगे 'गोणे च' बलीवर्दै भवन्ति एकार्थाः' एकोऽर्थो-दष्टतालक्षणः अनन्तरोक्तनीत्या प्रवृत्तिनिमित्तभेदेऽप्यमीषामितिकृत्वा। आकीर्यते' व्याप्यते विनयादिभिर्गुणैरिति आकीर्णः, 'च:' पूरणे, विशेषेणनीत:-प्रापितः प्रेरकचित्तानुवर्तनादिभिः, श्लाघादीति विनीतः, भाति-शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिर्वृतिमिति भद्रः स एव भद्रकः, चशब्द इहाप्यश्वे गोणे चेति विषयानुवृत्त्यर्थः, अपिशब्द इह पूर्वत्र चानुक्तपर्यायान्तरसमुच्चयार्थः, एकार्था' इति प्राग्वदिति गाथार्थः॥न चैवंगल्याकीर्णतुल्यशिष्ययोर्गुरोण्यासजननाजनने एव गुणदोषौ, किन्तु गलिसदृशस्यानाश्रवत्वादेराकीर्णतुल्यस्य चित्तानुगतत्वादेः सम्भव इति तद्वशतः कोपनप्रसादने अपि, अत एवाहमू. (१३) अनासवा धूलवया कुसीला मिपि चंडं पकरंति सीसा। चित्तानुया लहु दक्खोववेया पसायए ते हु दुरासयंपि।। वृ. 'अनासव'त्ति आ-समन्तात् शृण्वन्ति-गुरुवचनमार्णयन्तीत्याश्रवान तथा प्रतिभासा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy