________________
४६
उत्तराध्ययन-मूलसूत्रम्-१-१/९ सहनात्मिका 'सेवेत' भजेत, पण्डाबुद्धिः सा सञ्जाताऽस्येति पण्डितः, तथा 'क्षद्वैः' बालैः शीलहीनैर्वा पार्श्वस्थादिभिः 'सह' समं संसिगं' ति प्राकृततत्वात्संसर्ग, हसनं हासस्तं, क्रीडां च अन्ताक्षरिकाप्रहेलिकादानादिजनितां च वर्जयेत्' परिहरेत् सर्वेषामप्येषा विशिष्टशिक्षाक्षितिहेतुत्वात् लोकागमविरुद्धत्वाच्चेति सूत्रार्थः ।। पुनरन्यथा विनयमाहमू. (१०) मा य चंडालियं कासी, बहुयं मा य आलवे।
कालेन य अहिग्जित्ता, तत्तो झाइज्ज इक्कओ। ७.'मा' निषेधे 'च:' समुच्चये, चण्ड:-क्रोधस्तद्वशादलीकम्-अनृतभाषणं चण्डालीकं, भयालीकाद्युपलक्षणमेतत्, यद्वा-चण्डेनाऽऽलमस्य चण्डेन वा कलितश्चण्डालः, स चातिक्रूरत्वाच्चडालजातिस्तस्मिन् भवं चाण्डालिकं कर्मेति गम्यते, अथवा अचण्ड ! सौम्य ! अलीकम्-अन्यथात्वविधानादिभिरसत्यं, गुरुवचनमागमं चेति गम्यते,'मा कार्षीः' मा विधाः, भगवदुद्दिष्टतिलोत्पाटकस्वेच्छालापिगोशालकवत्, बढेव बहुकम्-अपरिमित मालजालरूपं 'मा च' इति प्राग्वत्, आङिति-स्त्र्यादिकथाऽभिव्याप्त्या लपेत्-भाषेत, बह्वालापनात् ध्यानाध्ययन क्षितिवातक्षोभादिसम्भवात्, किं पुनः कुर्यादित्याह-काल: अध्ययनाद्यवसरः प्रथमपौरुष्यादिस्तेन, 'च:' पुनरर्थे, 'अधीत्य' पठित्वा, प्रच्छनाधुपलक्षणमेतत्, 'ततः' अध्ययनात्, अनन्तरमिति गम्यते, 'ध्यायेत्' चिन्तयेत्, ‘एकक' इति भावतो रागद्वेषादिसाहित्यरहितः, द्रव्यतस्तु विविक्तशय्यादिसंस्थः, इत्थं हि चाण्डालिककरणाद्यनुत्थानमधीतार्थस्थिरीकरणं च कृतं भवतीति भावः।
इह च पादत्रयेण साक्षाद्वाग्गुप्तिरुक्ता, ध्यायेदित्यनेन मनोगुप्तिः, आद्यपादोत्तरव्याख्यानद्वयेन तु कायगुप्तिरपि, एताश्च चारित्रान्तर्गता एव, यदुक्तम्
"पणिहाणजोगजुत्तो पंचहि समितीहि तिहिं गुत्तीहिं।
एस चरित्तायारो अट्ठविहो होइ नायव्वो।" नच चारित्राचारस्तत्त्वतश्चरित्रविनयादतिरिच्यते इति देशतस्तस्याप्यनेनाभिधानमिति सूत्रार्थः इत्थमकृत्यनिषेधः कृत्यविधिश्चोपदिष्टः, कदाचिदेतद्विपर्ययसम्भवे च किं करणीयमित्याहमू.(११) आहच्च चंडालियं कट्ट, न निन्हविज्ज कण्हुइ।
कडंकडंति भासिज्जा, अकडं नो कडति॥ वृ. 'आहत्य' कदाचित् चण्डालीकं च चाण्डालिकं चोक्तरूपं यद्वा चण्डश्चालीकं च चण्डालीकं कृत्वा विधाय'न निन्हुवीत' न कृतमेवेति नापलपेत्, कदाचिदपि, यदा परैरुपलक्षितो यदावा नोपलक्षितस्तदापीत्यर्थः, किं तर्हि कुर्यादित्याह-'कृतं' विहितं चाण्डालिकादि 'कृतमिति' इति कृतमेव, न भयलज्जादिभिरकृतमपि 'भाषेत' ब्रूयात्, 'अकृतं' तदेवाविहितं 'नो कृतमिति' अकृतामेव भाषेत, न तु मायोपरोधादिना कृतमपि, अन्यथा मृषावादादिदोषासम्भवात्, उपलक्षणत्वाच्चास्य बनालपनकालाध्ययनादिविपर्यसम्भवेऽप्येतदेवकृत्यम्, इदं चात्राकृत-कथञ्चिदतिचारसम्भवे लज्जाद्यकुर्वन् स्वयं गुरुसमीपमागत्य
"जह बालो जंपतो कज्जम कज्जं च उज्जुयं भणति । तं तह आलोएज्जा मायामयविप्पमुक्को उ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org