________________
अध्ययनं - २६, [ नि. ४९० ]
११३
शानादिद्रव्यविशेषेण प्राग्गृहीतेनेति गम्यते, सूचकत्वात्सूत्रस्य, तथा चाह - "पुव्वगहिएण छंदणं'ति, इच्छास्वकीयोऽभिप्रायस्तया करणं- तत्कार्यनिर्वर्तनमिच्छाकारः, 'सारणे' इत्यौचित्यत आत्मनः परस्य वा कृत्यं प्रति प्रवर्तने, तत्रात्मसारणे यथेच्छाकारेण युष्मच्चिकीर्षितं कार्यमिदमहं करोमीति, अन्वाह - " अहगं तुब्भं एयं करेमि कज्जं तु इच्छाकारेणं' ति, अन्यसारणे च मम पात्रलेपनादि सूत्रदानादि वा इच्छाकारेण कुरुतेति, तथा चान्वाह" जेइ अब्भत्थिज्ज परं कारणजाए करेज्ज से कोइ । तत्थवि इच्छाकारो न कप्पइ बलाभिओगो उ ॥"
तथा मिथ्येत्यलीकं मिथ्याकरणं मिथ्याकार:- मिथ्येदमिति प्रतिपत्तिः, सा चात्मनो निन्दाजुगुप्सा तस्यां वितथाचरणे हि धिगिदं मिथ्या मया कृतमिति निन्द्यत एवात्मा विदितजिनवचनैः, तथाकरणं तथाकार:- इदमित्थं चैवेत्युभ्युपगमः, स च किं विषयः इत्याह-प्रतिश्रवणं प्रतिश्रुतंगुरौ वाचनादिकं यच्छत्येवमेतदित्यभ्युपगमस्तस्मिन् तथा चान्वाह
"वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए ।
अवितहमेयंति तहा अविकप्पेणं तहक्कारो ।।"
अभीत्याभिमुख्येनोत्थानम्, उद्यमनमभ्युत्थानं तच्च 'गुरुपूय'त्ति सूत्रत्वाद् गुरुपूजायां, सा च गौरवार्हाणाम् - आचार्य ग्लानबालादीनां यथोचिताहारभेषजादिसम्पादनम्, इह च सामान्याभिधानेऽप्यभ्युत्थानं निमन्त्रणारूपमेव परिगृह्यते, अत एव निर्युक्तिकृतैतत्स्थाने निमन्त्रणैवाभिहिता 'छंदणा य निमंतणे'ति, तथा 'अच्छणे 'त्ति आसने प्रक्रमादाचार्यान्तरादिसन्निधौ अवस्थाने उप-सामीप्येन सम्पादनं गमनं सम्पदादित्वात्क्विपि उपसंपद्- इयन्तं कालं भवदन्तिके मयाऽऽसितव्यमित्येवंरूया, इयं च ज्ञानार्थतादिभेदेन त्रिधा, तथा चोक्तम्“उवसंपया य तिविहा नाने तह दंसणे चरिते य"त्ति 'एवम्' इत्युक्तप्रकारेण 'दुपंच संजुत्त'त्ति आर्यत्वात् द्विपञ्चकसंयुक्तां दशसंख्यायुक्तामित्यर्थः, सामाचारी 'प्रवेदयेत्' कथयेत् आर्षत्वाद् गुरुः शिष्यायेति शेषः, अनेन च गुरुणा सदा तदुपदेशपरैणैव भवितव्यमित्यर्थत उक्तं, पठ्यते च - 'एसा दसंगा साहूणं, सामायारी पवेइय'त्ति, एतच्च स्पष्टमिति सूत्रत्रयार्थः ॥ एतावता दशविधसामाचारीमभिधायौ धसामाचारीं विवक्षुरिदमाहपुव्विल्लमि चउब्भागे, आइच्चमि समुट्ठिए । भंडतं पडिलेहित्ता, वंदित्ता य तओ गुरुं ॥ पुच्छिज्जा पंजलिउडो, किं कायव्वं मए इहं ? | इच्छं निओइडं भंते!, वेयावच्चे व सज्झाए । वेयावच्चे निउत्तेणं, कायव्वमगिलायओ। सज्झाए वा निउत्तेणं, सव्वदुक्खविमुक्खणे ॥
मू. ( १०१४ )
मू. (१०१५ )
मू. ( १०१६ )
वृ. 'पुव्विल्लंमि' त्ति पूर्वस्मिंश्चतुर्भागे आदित्ये 'समुत्थिते' समुद्गते, इह च यथा दशाविकलोऽपि पटः पट एवोच्यते, एवं किञ्चदूनोऽपि चतुर्भागश्चतुर्भाग उक्तः, ततोऽयमर्थ:बुद्धा नभश्चतुर्धा विभज्यते, तत्र पूर्वदिक्संबुद्धे किञ्चिदूननभश्चतुर्भागे यदादित्यः समुदेति
29
8
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org