________________
उत्तराध्ययन-मूलसूत्रम्-२-२६/१०१० स्थेयं, किन्तु ततो निर्गन्तव्यं, न च निर्गमनमावश्यकी विनेति प्रथममावश्यकी, निर्गत्य च यत्रास्पदे स्थेयं तत्र नैषेधिकीपूर्वकमेव प्रवेष्टव्यमिति तदनु नैषेधिकी, तत्रापि तिष्ठतो भिक्षाटनादिविषयाभिप्रायोत्पत्तौ गुरुपृच्छापूर्वकमेव तत्साधनमित्यनन्तरमाप्रच्छना, आप्रच्छनायामपि गुरुनियुक्तेन पुनः प्रवत्तिकाले क्वचित्प्रष्टव्या एव गुरव इति तत्पृष्ठतः प्रतिप्रच्छना, कृत्वाऽपि गुर्वनुज्ञया भिक्षाटनादिकं नात्मम्भरिणैव भवितव्यमिति तदनु छन्दना प्रागगृहीतद्रव्यजातेन शेषयतिनिमन्त्रणात्मिका, तस्यामपि प्रयोक्तव्य एवेच्छाकार इति तदनु तस्याभिधानम्, अयं चात्यन्तमवद्यभीरुणैव तत्त्वतो विधीयते, तेन च कथञ्चिदतिचारसम्भवे आत्मा निन्दितव्य इति तदनु मिथ्याकारः, कृतेऽपि च तस्मिन् बृहत्तरदोषसम्भवे गुरूणामालोचना दातव्या, तत्र च यदादिशन्ति गुरवस्तत्तथेति मन्तव्यं इति तथाकारः, तथेति प्रतिपद्य च सर्वकृत्येपद्यमवता भाव्यमिति तदनु तद्रूपमभ्युत्थानम्, उद्यमवता च ज्ञानादिनिमित्तं गच्छान्तरसङ्क्रमोऽपि विधेयः तत्र चोपसम्पद् गृहीतव्येत्यनन्तरमुपसम्पदुक्ता,
उपसंहारमाह-'एषा' अनन्तरोक्ता ‘दशाङ्गा' इच्छादिदशावया 'साधूनां' यतीनां सामाचारी 'प्रवेदिता' तीर्थकरादिभिरुक्तेति सूत्रत्रयगर्भार्थः॥
एतामेव प्रत्यवयवं विषयप्रदर्शनपूर्वकं विधेयतयाऽभिधातुमाहमू. (१०११) गमने आवस्सियं कुज्जा, ठाणे कुज्जा निसीहियं ।
आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा ।। मू.(१०१२) छंदणा दबजाएणं, इच्छकारो असारणे।
मिच्छाकारो अनिदाए. तहकारो पडिस्सुए। मू.(१०१३) अन्भुट्ठाणं गुरुपूया, अच्छणे उवसंपया।
एवं दुपंचसंजुत्ता, सामायारी पवेइया ।। वृ. 'गमने' तथाविधालम्बनतो बहिनिःसरणे आवश्यकेषु-अशेषावश्यकर्त्तव्यव्यापारेषु सत्सु भवाऽऽवश्यकी, उक्तं हि-"आवस्सिया उ आवस्सएहिं सव्वेहि जुत्तजोगस्से"त्यादि, तां 'कुर्याद्' विदध्यात्, स्थीयतेऽस्मिन्निति स्थानम्-उपाश्रयमस्तस्मिन् प्रविशन्निति शेषः, कुर्यात्, कां?-'नैषेधिकी' निषेधेनं निषेधः-पापानुष्ठानेभ्य आत्मनो व्यावर्त्तनं तस्मिन् भवा नैषेधिकी, निषिद्धात्मन एतत्सम्भवात्, उक्तं हि-"जो होइनिसिद्धप्पा निसीहिया तस्स भावओ होइ" इत्यादि, आङिति-सकलकृत्याधिव्याप्त्या प्रच्छना आप्रच्छना-इदमहं कुर्यां न वेत्येवंरूपा तां स्वयमित्यात्मनः करणं-कस्यचिद्विवक्षितकार्यस्य निर्वर्तनं स्वयंकरणं तस्मिन्, तथा परकरणे' अन्यप्रयोजनविधाने प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव गुरुं, स हि कार्यान्तरमप्यादिशेत् सिद्धं वा तदन्यतः स्यादिति, उभयत्र वा स्वकरणपरकरणे उपलक्षणमिति-उच्छासनिःश्वासौ विहाय सर्वकार्येष्वपि स्वपरसम्बन्धिषु गुरवः प्रष्टव्या अतः सर्वविषयमपि प्रथमतः प्रच्छनमापृच्छेत्युच्यते, तथा च नियुक्तिकृता सामान्येनैवावाचि___ "आपुच्छणा तु कज्जे "ति, तथा स्वपरसम्बधिनि सर्वत्रापि कृत्ये गुरुनियुक्तेन, पुनः प्रवृत्तिकाले यद्गुरुप्रच्छनं सा प्रतिपृच्छा, तथा च-"पुव्बनिउत्तेण होइ पडिपुच्छ" त्याविशेषेणैवोक्तं, 'छन्दना' उक्तरूपा विधेयेति शेषः, एवमुत्तरत्रापि, 'द्रव्यजातेन' तथाविधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org