________________
अध्ययनं-२६,[नि. ४८९]
१११ भावसामत्वं चास्य तात्त्विकस्य क्षायोपशमिकादिभावरूपत्वात् परस्परमविरोधेन चावस्थानात्, तथा प्रत्येकप्ररूपणां वक्ष्ये इति प्रतिज्ञामभिधाय यत् प्ररूपणानभिधानं तदावश्यकनिर्युक्तो कृतत्वात्तद्गाथयोरेव चैककर्तृकत्वेनेह लिखितत्वान्न दुष्टमिति भावनीयं, सूत्रक्रमोल्लङ्घनं तु यथाविषयं सर्वेषां सदाकृत्यत्वेन पूर्वापरभावस्याभावप्रदर्शनार्थं, तथा 'तव्वइरित्ते य नामणाईसु'न्ति सोपस्कारत्वान्नामनधावनादिपु सुकराणि यानि द्रव्याणि तानि तद्यतिरिक्तो द्रव्याचार उच्यते, यत उक्तम्
___ "नामणधोवणवासणसिक्खावणसुकरणाविरोहीणि।
दव्वाणि जाणि लोए दव्यायारं वियाणाहि ।।" भावे दशविधाया इच्छादिभेदेन सामाचार्या आचरणा, अत्र बहुलग्रहणात्स्त्रियां युट् एवमाप्रच्छनादिष्वपि, भावत्वं तु जीवद्रव्यपर्यायत्वादस्येति गाथापट्कार्थः॥
सम्प्रत्यध्ययननामान्वर्थमाहनि.[४९०] इच्छाइसाममेसुं आयरणं वन्निअंतु जम्हेत्थ!
तम्हा सामाचारी अज्झयणं होइ नायव्वं ।। वृ. 'इच्छादिसाम'त्ति सुब्ब्यत्ययाद् इच्छादिसामसु 'एषु' अनन्तराभिहितेषु 'आचरणम्' एतद्विषयमनुष्ठानं वर्णितं' प्ररूपितं 'तुः' पूरणे यस्मादत्राध्ययने तस्मात्सामाचारीति-सामाचारीनामकमिदमिति प्रक्रमे अध्ययनं भवति ज्ञातव्यम्, अयमाशयः-समाचारोऽत्र वर्ण्यते ततः समाचारे भवमिति विवक्षायां शैषिकोऽण् रूढितश्च स्त्रीलिङ्गता, तथा च 'टिड्डाणज्' इत्यादिना डीपि सामाचारीति भवतीति गाथार्थः॥
गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(१००७) सामायारिं पवक्खामि, सव्वदुक्खविमुक्खणि।
जं चरित्ता न निगान्था, तिन्ना संसारसागरं ।। ७.समाचरणं-समाचारस्तस्य भावो 'गुणवचनब्राह्मणादिभ्य' इति ष्यञ्, तस्य चषित्करणसामर्थ्यात् स्त्रियामपि वृत्तिरिति 'षिद्गौरादिभ्यश्चे'ति डीपि सामाचारी तां-यतिजनेतिकर्तव्यतारूपामहं प्रवक्ष्यामि 'सर्वदुःखविमोक्षणीम्' अशेषशारीरमानसासातविमुक्तिहेतुम् अत एव यां सामाचारी 'चरित्वा' आसेव्य 'न' इति वाक्यालङ्कारे 'निर्ग्रन्थाः' यतयस्तीर्णाः संसारसागरं, मुक्ति प्राप्ता इति भावः, उपलक्षणत्वाच्च तरन्ति तरिष्यन्ति चेति सूत्रार्थः॥ यथाप्रतिज्ञातमाहमू. (१००८) पढमा आवस्सिया नाम, बिइया य निसीहिया।
आपुच्छणा य तइया, चउत्थी पडिपुच्छणा ।। मू.(१००९) पंचमा छंदणा नामं, इच्छाकारो अछट्ठओ।
सत्तमो मिच्छकारो य, तहक्कारो य अट्ठमो।। मू. (१०१०) . अब्भुट्ठाणं नवमा, दसमा उवसंपया।
एसा दसंगा साहूणं, समायारी पवेइया । वृ. सूत्रत्रयं स्पष्टमेव, नवरंव्रतग्रहणादप्यारभ्य कारणं विना गुर्ववग्रहे आशातनादोषसम्भवान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org