________________
११०
उत्तराध्ययन-मूलसूत्रम्-२-२५/१००४ तु छत्रचामरायलङ्काररूपां किमित्याह-'अनुचरन्ति' पर्यटन्ति साधव इति प्रक्रमः 'भिक्षायै"भिक्षार्थं, किमिति ?- श्रमणस्य तुरिति यस्मात् 'मुक्तस्य'नि:सङ्गस्य, अकारोऽलाक्षणिकः, भिक्षेत्युषलक्षणत्वाद्भित्राचार्या 'चरणं च' व्रतादि चरणहेतुत्वेन 'करणं च' पिण्डविशुद्धादिहेतुत्वेन, ततो विहितानुष्ठानरूपत्वाद्राजर्षिभिरपि सेवितत्वाच्च भिक्षाचर्यायास्तद्विधानार्थमहमिहायातो, भवांस्तु ददातुमा वा भिक्षामिति भावः। 'संजानन्' प्रत्यभिजानानः 'पकामाए'त्ति आर्षत्वात्प्रकामम्-अत्यर्थं ।
'धर्मचरणेन' धर्मानुष्ठानेन भवेति गम्यते। 'सः' इति विजयघोषः सह मनसा चित्तेन वर्त्तत इति समनाः, किमुक्तं भवति?- भावतो न तु बहिर्वृत्त्यैव, तस्य श्रामणस्यान्तिक इति गम्यत इति नियुक्तिगाथानवकार्थः। 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ।।
अध्ययनं-२५-समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे पञ्चविंशतितममध्ययनं सनियुक्तिः सटीकं समाप्तम्
(अध्ययनं-२६-सामाचारी) वृ.व्याख्यातं यज्ञीयाभिधानं पञ्चविंशमध्ययनम्, अधुना षट्विंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने ब्रह्मगुणा उक्ताः, तद्वांश्च यतिरेव भवति, तेन चावश्यं सामाचारी विधेयेति साऽस्मिन्नभिधीयते इत्यभिसम्बन्धागतस्यास्योपक्रमादि प्राग्वत्प्ररूप्यं यावन्नामनिष्पन्ननिक्षेपे सामाचारीति नाम, अतः साम आचारइति च निक्षेप्तव्यमित्यभिप्रायेणाह नियुक्तिकृत्नि.[४८४] निक्खेवो सामंमि(य)चउव्विहो दुव्विहो होइ दव्वंमि।
आगमनोआगमओ नोआगओ य सो तिविहो॥ नि.[ ४८५] जाणगसरीरभविए तव्वइरित्ते अ सक्कराईसुं।
भावंमि दसविहं खलु इच्छामिच्छाइअं होइ॥ नि.[ ४८६] इच्छो मिच्छा तहक्कारो, आवस्सिआ अनिसीहिआ।
आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा ।। नि.[४८७] उवसंपया य काले सामायारी भवे दसविहा उ ।
एएसि तु पयाणं पत्तेय परूवणं वुच्छं ।। नि.[४८८]
आयारे निक्खेवो चउक्कओ दुव्वि० ।। नि.[४८९] जाणगसरीरभविए तव्वइरित्ते य नामणाईसुं।
भावंमि दसविहाए सामायारीइ आयरणा।। वृ.निक्खेवोइत्यादि गाथा: षट् प्राय: प्रतीतार्थाः, सूत्रव्याख्याने च काश्चिद्व्याख्यास्यन्ते, नवरं 'तद्व्यतिरिक्तं च' ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यसाम शर्करादिषु, आदिशब्दातक्षीरादिपरिग्रहः, ततश्च शर्कराक्षीरदधिगुडादीनां यत्परस्परमविरोधेन व्यवस्थानं, भावे साम दशविधं 'खलुः' अवधारणे दशविधमेवेच्छामिथ्यादिकं सामाचारीस्वरूपमिति गम्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org