________________
११४
उत्तराध्ययन- मूलसूत्रम् - २ - २६ / १०१६ तदा, पादोनपौरुष्यामित्युक्तं भवति 'भाण्डकं' पतद्ग्रहाद्युपकरणं 'प्रतिलेख्य' सामयिकपरिभाषया चक्षुषा निरीक्ष्योपलक्षणत्वात्प्रमृज्य च 'वन्दित्वा च' नमस्कृत्य ततः' इति प्रतिलेखनानन्तरं 'गुरुम्' आचार्यादिकं किमित्याह-'पृच्छेत्' पर्यनुयुञ्जीत प्रक्रमाद्गुरुमेव 'पंजलिउड' त्ति प्राग्वत्कृतप्राञ्जलिः, यथा - किं 'कर्त्तव्यम्' अनुष्ठेयं 'मये 'त्यात्मनिर्देश: 'इह' अस्मिन् समये इति गम्यते, कदाचिद्गुरवो मन्येरन् - स्वाध्यायवैयावृत्तयोरन्यतरस्मिन्नेवास्य नियोगे वाञ्छेत्यतो ब्रूयात्
,
'इच्छामि नियोइडं' ति अन्तर्भावितण्यर्थत्वान्नियोजयितुं युष्माभिरात्मानमिति शेष: 'भंते 'त्ति भदन्त ! 'वेयावच्चे 'त्ति वैयावृत्त्ये - ग्लानादिव्यापारे वाशब्दो भिन्नक्रमस्ततः 'सज्झाए 'त्ति आर्पत्वात्स्वाध्याये वा, इह च पात्रप्रतिलेखनानन्तरं गुरुं पृच्छेदिति यदुक्तं तत्प्रायस्तदैव बहुतरवैयावृत्त्यविधानसम्भवात्, यद्वा पूर्वस्मिन्नमश्चतुर्भागे आदित्ये समुत्थिते इव समुत्थिते, बहुतरप्रकाशीभवनात्तस्य, भाण्डमेव भाण्डकं ततस्तदिव धर्मद्रविनोपार्जनाहेतुत्वेन मुखवस्त्रिकावर्पाकल्पादीह भाण्डकमुच्यते, तत्प्रतिलेख्य वन्दित्वा च ततो गुरुं पृच्छेत्, शेषं प्राग्वत्, उपलक्षणं चैतद्-यत: सकलमपि कृत्यं विधाय पुनरभिवन्दनापूर्वकं प्रष्टव्या एव गुरव इति, एवं च पृष्ट्वा यत्कर्तव्यं तदाह-- वैयावृत्त्ये 'नियुक्तेन' व्यापारितेन कर्त्तव्यं प्रक्रमात् वैयावृत्त्यम्, 'अगिलायउ’त्ति अग्लान्यैव शरीरश्रममविचिन्त्यैवेतियावत्, स्वाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे, सकलतपः कर्मप्रधानत्वादस्थ, स्वाध्यायोऽग्लान्यैव कर्त्तव्य इति प्रक्रम इति सूत्रत्रयार्थ: 11 इत्थं सकलौधसामाचारीमूलत्वात्प्रतिलेखनायास्तत्कालं सदाविधेयत्वाद्गुरुपारतन्त्रस्य तच्चाभिधायौत्सर्गिकं दिनकृत्यमाह
मू. ( १०१७ )
दिवसस्स चउरो भागे, कुज्जा भिक्खू वियक्खणो । तओ उत्तरगुणो कुज्जा, दिन भागेसु चउसुवि ॥ पढमं पोरिसिं सज्झायं, बीयं झाणं झियायई । तइयाए भिक्खायरियं, पुनो चउत्थीइ सज्झायं ॥
मू. ( १०१८ )
वृ. सूत्रद्वयं स्पष्टमेव, नवरं चतुरो भागान् कुर्याद् बुद्धेत्युपस्कारः, 'तत' इति चतुर्भागकरणादनन्तरमिति गम्यते उत्तरगुणान् मूलगुणापेक्षया स्वाध्यायादींस्तत्कालोचितान् 'कुर्याद्' विदध्यात् क्व दिन भागे कमुत्तरगुणं कुर्यादित्याह-प्रथमां पौरुषीं 'स्वाध्यायं' वाचनादिकं, सूत्रपौरुषीत्वादस्याः कुर्यादितीहोत्तरत्र च क्रियान्तराभावेऽनुवर्त्यते, द्वितीयां प्रक्रमात्पौरुषीं ध्यानं 'झियायइ'त्ति ध्यायेत्, ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषय एव मानसादिव्यापारणमुच्यते, ध्यायेदिति वाऽनेकार्थत्वाद्धातूनां कुर्यात्, इह च प्रतिलेखनाकालस्याल्पत्वेनाविवक्षितत्वादुभयत्र 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया, तृतीयायां भिक्षाचर्या, पुनश्चतुर्थ्यां स्वाध्यायम्, उपलक्षणत्वातृतीयायां भोजनबहिर्गमनादीनि, इतरत्र तु प्रतिलेखनास्थण्डिलप्रत्युपेक्षणादीनि गृह्यन्ते, इत्थमभिधानं च कालापेक्षयैव कृष्यादेवि सकलानुष्ठानस्य सफलत्वादिति सूत्रद्वयार्थः ॥ यदुक्तं प्रथमपौरुषीं स्वाध्यायं कुर्यात्तत्परिज्ञानार्थमाह
मू. ( १०१९ )
Jain Education International
आसाढे मासे दुपया, पोसे मासे चउप्पया। चित्तासोएसु मासेसु, तिपया हवइ पोरसी ॥
For Private & Personal Use Only
www.jainelibrary.org