________________
९६
मू. (९५८ )
संरंभसमारंभे, आरंभ य तहेव य ।
वयं पवत्तमाणं तु, नियत्तिज्ज जयं जई ||
वृ. सूत्रद्वयमनन्तरं व्याख्यातमेव, नवरं मनोगुप्तिस्थाने वाग्गुतिरुच्चारयितव्या, तथा सत्या वाक् जीवं जीवमिति प्ररूपयतः असत्या जीवमजीवमिति सत्यामृषा काचिद्विवक्षितसमये मनुष्यशतमुत्पन्नमुपरतं चेति असत्यामृषा तु विधेहि स्वाध्यायं नैतत्सदृशमन्यत्तपोऽस्तीत्यादि, तथावाचिक: संरम्भ:-परव्यापादनक्षमक्षुद्रविद्यादिपरावर्त्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन्, समारम्भः - परपरितापकरमन्त्रादिपरावर्त्तनम् 'आरम्भ:' तथाविधसंक्लेशतः प्राणिनां प्राणव्यपरोपक्षणक्षममन्त्रादिजपनमिति सूत्रद्वयार्थः ॥
इदानीं कायगुप्तिमभिधातुमाहमू. ( ९५९ )
उत्तराध्ययन- मूलसूत्रम् - २ - २४ / ९५८
ठाणं निसीयणे चेव, तहेव य तुयट्टणे । उल्लंघण पल्लंघण, इंदियाण य जुंजणे ॥ संरंभसमारंभे, आरंभ य तहेव य ।
मू. ( ९६० )
कायं पवत्तमाणं तु, नियत्तिज्ज जयं जई ॥
वृ. 'स्थाने' ऊद्धर्वस्थाने 'निसीयण'त्ति 'निषदने' उपवेशने, चः तयोरेव विचित्रभेदसमुच्चयार्थः, 'एव' इति पूरणे, तथैव च ' त्वग्वर्त्तने' शयने 'उल्लङ्घने' तथाविधनिमित्तत ऊर्ध्वभूमिकाद्युत्क्रमणे गर्त्ताद्यतिक्रमणे वा 'प्रलङ्घने' सामान्येन गमने, उभयत्र सूत्रत्वात्सुपो लुक, 'इन्द्रियाणां च' स्पर्शनादीनां 'जुंजणे 'त्ति योजनं - शब्दादिविषयेषु व्यापारणं तस्मिन्, सर्वत्र च वर्त्तमान इति शेषः, स्थानादिषु वर्त्तमानः संरम्भः- अभिघातो यष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः परितापकरो मुष्ट्याद्यभिघातः, तत: संरम्भश्च समारम्भश्च संरम्भसमारम्भं तस्मिन्, 'आरम्भे' प्राणिवधात्मनि कार्य प्रवर्त्तमानं निवर्त्तयेत्, शेषं प्राग्वदिति सूत्रद्वयार्थः ॥ सम्प्रति समितिगुप्त्योः परस्परविशेषं स्वयं सूत्रकृदाहमू. (९६१ ) एयाओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती नियत्तणेऽवुत्ता, असुभत्थेसु य सव्वसी ॥
वृ. 'एता:' अनन्तरोक्ताः पञ्च समितयश्चरणं चारित्रं सच्चेष्टेतियावत् तस्य प्रवर्तने पूर्वत्र चशब्दस्य भिन्नक्रमत्वादवधारणार्थत्वाच्च प्रवर्त्तने एव, किमुक्तं भवति ? - सच्चेष्टासु प्रवृत्तावेव समितय:, तथा 'गुत्ती' त्ति गुप्तयो निवर्त्तनेऽप्युक्ताः 'अशुभार्थेभ्यः' अशोभनमनोयोगादिभ्यः, सूत्रे तु सुब्व्यत्ययेन पञ्चम्यर्थे सप्तमी, 'सव्वसो 'त्ति सर्वेभ्योऽपिशब्दाच्चरणप्रवर्त्तने च, उपलक्षर्ण चैतत् शुभार्थेभ्योऽपि निवृत्तेः, वाक्काययोर्निर्व्यापारताया अपि गुप्तिरूपत्वात् उक्तं हि गन्धहस्तिना - " सम्यगागमानुसारेणारक्तद्विष्टपरिणतिसहचरितमनोव्यापारः कायव्यापारो वाग्व्यापारश्च निर्व्यापारता वा वाक्काययोर्गुप्ति" रिति, तदनेन व्यापाराव्यापारात्मिका गुसिरुक्तेति सूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नेतदाचरणफलमाह
मू. ( ९६२ )
Jain Education International
एया पवयणमाया, जे सम्म आयरे मुनी ।
सो खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए ॥ त्तिबेमि ॥
वृ. स्पष्टमेव। नवरं, 'सम्यक् 'अवैपरीत्येन न तु दम्भादिनेति सूत्रार्थः ॥ 'इति' परिसमाप्तौ,
For Private & Personal Use Only
www.jainelibrary.org