________________
९४
उत्तराध्ययन-मूलसूत्रम्-२-२४/९४७ धूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् विसोधयतेत् उभयत्र शोधनमपनयनं, 'जय'ति यतमानः 'यतिः' तपस्वी, व्याख्याद्वयेऽपि च पुनस्तस्या एवं क्रियाया अभिधानमतिशयख्यापनार्थमिति सूत्रद्वयार्थः । इदानीमादाननिक्षेपणसमितिमाहमू. (९४८) ओहोवहोवगहियं, भंडयं दुविहं मुनी।
गिण्हतो निक्खिवंतो य, पउंजिज्ज इमं विहिं।। मू.(९४९) चक्खुसा पडिलेहिता, पमज्जिज्ज जयं जई।
आदिए निविखविज्जा वा, दुहओऽवि समिए सया॥ वृ. 'ओहोवहोवग्गहिय'ति उपधिशब्दो मध्यनिर्दिष्टत्वात् डमरुकगुणग्रन्थिवदुभयत्र सम्बध्यते, तत ओघोपधिमौपग्रहिकोपधिच भाण्डकम्' उपकरणं रजोहरणदण्डकादि द्विविधम्' उक्तभेदतो द्विभेदं मुनिः "गृह्णन्' आददानः 'निक्षिपश्च' क्वचित्स्थापयन् 'प्रयुञ्जीत' व्यापारयेत् ‘इमं' वक्ष्यमाणं 'विधि' न्यायं।
तमेवाह-'चक्षुषा' दृष्ट्या 'पडिलेहित्तति प्रत्युपेक्ष्य' अवलोक्य 'प्रमार्जयेत्' रजोहरणादिना विशोधयेत् यतमानो यतिस्ततः आदिए'त्ति आददीत' गृह्णीयात् 'निक्षिपेद्वा' स्थापयेत् 'दहतोऽवित्ति द्वावपि प्रक्रमादौधिकोपग्राहिकोपधी, यदिवा 'द्विधाऽपि' द्रव्यतो भावतश्च 'समित:' प्रक्रमादादाननिक्षेपणासमितिमान् सन् 'सदा' सर्वकालमिति सूत्रद्वयार्थः॥
सम्प्रति परिष्ठापनासमितिमाहमू.( ९५०) उच्चारं पासवणं, खेलं सिंघाण जल्लियं ।
आहारं उवहिं देह, अन्नं वावि तहाविहं। मू.(९५१) अनावायमसंलोए अनवाए चेव होइ संलोए।
आवायमसंलोए आवाए चेव संलोए। मू.(९५२) अनवायमसंलोए, परस्सऽनुवघाइए।
समे अज्झुसिरे वावि, अचिरकालकमि य॥ मू.(९५३) विच्छिन्ने दूरमोगाढे, नासन्ने बिलवज्जिए।
तसपाणबीयरहिए, उच्चाराईणि बोसिरे।। वृ. 'उच्चारं' पुरीषं 'प्रश्रवणं' मूत्रं 'खेलं' मुखविनिर्गतं श्लेष्माणं 'सिंघाणं'ति नासिकानिष्क्रान्तं तमेव 'दल्लियं ति आर्षत्वात् जल्लो-मलस्तम् 'आहारम्' अशनादिकम् 'उपधि' वर्षाकल्पादि 'देह' शरीरम् 'अन्यद्वा' कारणतो गृहीतं गोमयादि अपिः' पूरणे तथाविधं परिष्ठापनार्ह प्रक्रमात्स्थण्डिले व्युत्सृजेदित्युत्तरेण सम्बन्धः । _स्थण्डिलं च दशविशेषणपदविशिष्टमिति मनस्याधाय तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणषदयोर्भङ्गरचनामाह-अविद्यमान आपात:-स्वपरोभयपक्षसमीपागमनरूपोऽस्मिन्नित्यनापातं स्थण्डिलमिति गम्यते, 'असंलोए'त्ति सूत्रत्वादिहोत्तरत्र च लिङ्गव्यत्यये न विद्यते संलोको-दूरस्थितस्यापि स्वपक्षादेरालोको यस्मिंस्तत्तथेति प्रथमो भङ्ग १, 'अनापातं चैव भवति संलोकं' यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः २, आपातमसंलोक'मिति यत्रापातोऽस्ति न च संलोक इति तृतीयोभङ्गः ३, 'आपातं चैव संलोकं' यत्रोभयमपि संभवतीति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org