________________
अध्ययनं-२४,[नि.४६३] हासे 'भय'त्ति भये मौखर्ये विकथासु तथैवोपयुक्ततेनि सम्बन्धः, तत्र क्रोधे यथा कश्चिदतिकुपितः पिता प्राह-न त्वं मम पुत्रः, पार्श्ववर्तिनो वा प्रति प्राह-बन्धीत बन्धीतैनमित्यादि, माने यथा कश्चिदभिमानाध्मातचेता न कश्चिन्मम जात्यादिभस्तुल्य इति वक्ति, मायायां यथा परव्यसनार्थमपरिचितस्थानवत्ती सुतादौ भणति-नायं मम पुत्रो न चाहमस्स पितेत्यादि, लोभे यथा कश्चिद्वणिक् परकीयमपि भाण्डादिकमात्मीयमभिधत्ते, हास्ये यथा केलीकिलतया कञ्चन तथाविधं कुलीनमप्यकुलीनमित्युल्लपति, भये यथा तथाविधमकार्यमाचर्य स त्वं येन तत्तदाचरितमिति पृष्टः प्राह-नाहं तदाऽस्मिन् देशे एवाभूवमित्यादि, मौखये यथा मुखरतया यत्तत्परपरिवादादि वदत्रास्ते, विकथासु'स्त्यादिकथासु-'अहो!' कटाक्षविक्षेपास्तस्याः' इत्यादिकमाह, पठ्यते च
"कोहे य माने य माया य लोभे य तेहव य।
हासभयमोहरीए, विकहा य तहेव य॥" गतार्थमेव । 'एतानि' अनन्तरमुक्तरूपाण्यष्टौ स्थानानि 'परिवर्ण्य' परिहत्य संयतः किमित्याह-'असावधां' निर्दोषां तामपि 'मिता' स्तोकां यावत्युपयुज्यते तावतीमेव 'काले' प्रस्त्वे 'भाषां' वाचं 'भाषेत' वदेत् प्रज्ञा-बुद्धिस्तद्वानिति सूत्रद्वयार्थः ॥ एषणासमितिमाहमू.(१४६) गवेसणाए गहणे य, परिभोगेसणा य जा।
आहारोवहिसिज्जाए, एए तिन्नि विसोहए। मू.(१४७)
उग्गमुप्पायणं पढमे, बीए सोहिज्ज एसणं।
परिभोगांमि चउक्कं, विसोहिज्ज जयं जई। वृ.'गवेषणायाम्' अन्वेषणायां 'ग्रहणे च' स्वीकारे, उभयत्र प्राकृतत्वादेपणेति सम्बध्यते, तसो गवेषणायामेषणा ग्रहणे चैषणा, परिभोग-आसेवनं तद्विपयैषणा परिभोगैषणा च या, 'आहारोवहिसेज्जाए'त्ति वचनव्यत्ययाद् 'आहारोपधिशय्यासु' प्रतीतासु 'एता:' उक्तरूपा एषणाः सूत्रत्वालिङ्गव्यत्यात्तिस्रः 'विशोधयेत्' निर्दोषा विदध्यात्, पठ्यते च
"गवेसणाए गहणेणं, परिभोगेसणाणि य।
__ आहरमुवहिं सेज्जं, एए तिन्नि विसोहिय ।।"त्ति, । अस्य च गवेषणादिभिराहारादीनि त्रीणि विशोधयेदिति सङ्केपार्थः । कथं विशोधयेदित्याहउद्गमश्चोत्पादना चोद्गमोत्पादनमिति समाहारः, तत्किमित्याह-विशोधयेदित्युत्तरेण सम्बन्धः, किमुक्तं भवति?-आधाकर्मादिदोषपरिहारत उद्गमं धात्र्यादिदोषपरित्यागतश्चोत्पादनां शुद्धामादधीत 'पढमे'त्ति प्रथमायां गवेषणैषणायां, बीय'त्ति द्वितीयायां ग्रहणैषणायां शोधयेच्छङ्कितादिदोषत्यागतः ‘एषणां' ग्रहणकालभाविग्राह्यगतदोषान्वेषणात्मिकां, 'परिभोग' इति परिभोगैषणायां चतुष्कं पिण्डशय्यावस्त्रपात्रात्मकम्, उक्तं हि-पिंडंसेज्जं च वत्थं च, चउत्थं पायमेव य"त्ति, विशोधयेत्, इह चतुष्कशब्देन तद्विषय उपभोग उपलक्षितः, ततस्तं विशोधयेदिति, कोऽर्थः?-उद्गमादिदोषत्यागतः शुद्धमेव चतुष्कं परिभुञ्जीत, यदिवोद्गमादीनां दोषोपलक्षणत्वात् 'उग्गम'त्ति उद्गमदोषान् 'उप्पायणं'ति उत्पादनादोषान् ‘एसण'त्ति एपणादोषान् विशोधयेत्, 'चतुष्कं च' संयोजनाप्रमाणाङ्गारधूमकारणात्मकम्, अङ्गार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org