________________
९२
उत्तराध्ययन-मूलसूत्रम्-२-२४/९४२ मू. ( ९४२) दव्यओ चक्खुसा पेहे, जुगमित्तं च खित्तओ।
कालओ जाव रोइज्जा, उवउत्तो य भावओ।। मू.( ९४३) इंदियत्थे विवज्जित्ता, सज्झायं चेव पंचहा।
तम्मुत्ती तत्पुरकारे, उवउत्ते रियं रिए। वृ.आलम्बनेन कालेन मार्गेण यतनया च चतुष्कारणैः-एभिरेवालम्बनादिभिः परिशुद्धानिर्दोषा चतुष्कारणपरिशुद्धा तां 'संयतः' यतिः ‘इयाँ' गति 'रिये'त्ति रीयेत अनुष्ठानविषयतया प्राप्नुयात्, यद्वा सुब्ब्यत्ययाच्चतुष्कारणपरिशुद्धया ईर्यवा 'रीयेत' गच्छेत् । आलम्बनादीन्येव व्याख्यातुमाह-'तत्र' तेष्वालम्बनादिषुमध्ये आलम्बनं यदालम्ब्य गमनमनुज्ञायते, निरालम्बनस्य हि नानुज्ञातमेव गमनं, तत्किमित्याह-'ज्ञान' सूत्रार्थोभयात्मकागमरूपं 'दर्शन' दर्शनप्रयोजन (शास्त्र) 'चरणं' चारित्रं, तथाशब्दोऽनुक्तसमुच्चयार्थः, तेन द्वित्रादिभङ्गसूचकः, ततोऽयमर्थ:प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगतो वा गमनमनुज्ञातम्, आलम्बनेनेति व्याख्यातं, कालेनेति व्याचष्टे-कालश्च प्रस्तावादीया दिवस उक्तः, तीर्थकृदादिभिरिति गम्यते, रात्रौ ह्यचक्षुविषयत्वेन पुष्टतरालम्बनं विना नानुज्ञातमेव गमनं, मार्गेणेति द्वारं व्याख्यातुमाह-मार्ग इम सामान्येन पन्थाः स उत्पथेन-उन्मार्गेण वर्जितो-रहित उत्पथवजित उक्त इति सम्बन्धः, उत्पथे हि व्रजत आत्मसंयमविराधनादयो दोषाः । ___ यतनेति वुवूपराह-'दव्वतो' इत्यादि, सुगममेव, नवरं 'ताम्' इति चतुर्विधयतनां मे 'कीर्तयतः' सम्यक्स्वरूपाभिधानद्वारेण संशब्दयतः शृणु' आकर्णय शिष्येति गम्यते । यथाप्रतिज्ञामेवाह-'द्रव्यत' इति जीवादिकं द्रव्यमाश्रित्येयं यतना-यत् 'चक्षुषा' दृष्टया 'प्रेक्षेत' अवलोकयेत्, प्रक्रमाज्जीवादिकं द्रव्यम, अवलोक्य च संयमात्मविराधनापरिहारेण गच्छेदिति भावः, 'युगमानं च' चतुर्हस्तप्रमाणं प्रस्तावात्क्षेत्रं प्रेक्षेत, इयं क्षेत्रतो यतना, कालतो यतना यावत् रीयिज्ज'त्ति रीयते यावन्तं कालं पर्यटन्ति तावत्कालमानेति गम्यते, उपयुक्तश्च भावतोदत्तावधानो यद्रीयते, इयं भावमङ्गीकृत्य यतना।
उपयुक्तत्वमेव स्पष्टयितुमाह-'इन्द्रियार्थान्' शब्दादीन् ‘विवर्य' तदनध्यवसानतः परिहृदय, स्वाध्यायं चैव 'च:' समुच्चये एवकारोऽपिशब्दार्थः, ततोऽयमर्थः-न केवलमिन्द्रियार्थान् विवर्ण्य किन्तु स्वाध्यायं चापि 'पञ्चधे'ति वाचनादिभेदतः पञ्चप्रकार, गत्युपयोगोपधातित्वात्, ततश्च तस्यामेवेर्यायां मूर्ति:-शरीरमाद्वयाप्रियमाणा यस्यासौ तन्मूर्तिः, तथा तामेव पुरस्करोति-तत्रैवोपयुक्ततया प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः, अनेन कायमनसोस्तत्परतोक्ता, वचसो हि तत्र व्यापार एव न समस्ति, एवमुपयुक्तः सन्नीर्वां रीयेत यतिरिति शेषः, सर्वत्र च संयमात्मविराधनैव विपक्षे दोष इति सूत्रपञ्चकार्थः ।। सम्प्रति भाषासमितिमाहमू.(९४४) कोहे माने य माया य, लोभे य उवउत्तया।
हासे भय मोहरिए विगहास तहेव य॥ मू. ( ९४५) एयाइं अट्ठ गणाई, परिवज्जितु संजओ।
असावजं मियं काले, भासं भासिज्ज पत्रवं ।। वृ. क्रोधे माने च मायायां लोभे च उपयुक्तता' क्रोधाधुपयोगपरता तदेका यतनेतियावत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org