SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२४,[नि. ४६३] वृ. सूत्रत्रयं प्रकटार्थमेव, नवरं 'समिति'त्ति समितयः 'गुत्ति'त्ति गुप्तयः, तत्र च समितिःसम्यक-सर्ववित्प्रवचनानुसारितया इतिः-आत्मनः चेष्टा समितिः तान्त्रिकी सञ्ज्ञा ईर्यादिचेष्टासु पञ्चसु, गोपनं गुप्ति:-सभ्यग्योगनिग्रहः तथैव चेति समुच्चये, उक्तं हि-'सम्यगयोगनिग्रहो गुप्ति'रिति भवन्त्वेताः प्रवचनमाताः, अष्टसङ्ख्यत्वं तु कथमासामिति संशये समितिना पञ्चत्वं गुप्तीना च त्रिकत्वमुक्तम् 'आहिया' इति आख्याता:-कथिताः, तीर्थकृदादिभिरिति गम्यते, ता एवं नामग्राहमाह-ईरणमीर्या-गतिपरिणामो भाषणं तं करोतीति निक ततः स्त्रीलिङ्के भावे युटि एषणा आदानं-ग्रहणं प्रातादेः निक्षेपेपलक्षणमेतत् तत एषां समाहारे ईर्याभाषैयणादानं तस्मिन. 'उच्चारे समिई इय'त्ति चस्य भिन्नक्रमत्वादुच्चारशब्दस्य चोपलक्षणत्वादुच्चारादिपरिष्ठापनायां च समितिः, अस्य च प्रत्येकमभिसम्बन्धादीर्यासमितिरित्यादिरभिलापो विधेयः, 'इति' परिसमाप्तौ, एतावत्य एव समितयः, तथा मनसो गुप्तिर्मनोगुप्तिरिति तत्पुरुषः, एवमुत्तरयोरपि, निगमनमाह "एताः' इत्यनन्तरोक्ताभिधाना अष्ट समितयो, गुसीनामपि 'प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं गुप्ति'रिति वचनात्कञ्चित्सच्चेष्टात्मकत्वात्समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः, यत्तु भेदेनोपादानं तत्समितिनां प्रवीचाररूपत्वेन गुप्तीनां प्रवीचाराप्रवीचारात्मकत्वेनान्योऽन्यं कथञ्चिद्भेदात्, तथा चागमः "समिओ नियमा गुत्तो गुत्तो समियत्तणं भइयव्वो। कुसलवइमदीरंतो जं वइगुत्तोऽवि समिओऽवि॥" 'समासेन' सकलागमसंग्रहेण व्याख्याताः, जिनाख्यातं मातम् उत्तरत्र तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वात् 'मातमेव' अन्तर्भूतमेव 'यत्र' इति यासु 'प्रवचनम्' आगमः, तथाहि-ईर्यासमिती प्राणातिपातविरमणव्रतमवतरति, तद्वृत्तिकल्पनानि च शेषव्रतानि तत्रैयान्तर्भावमुपयान्ति, तेषु च न तदस्ति यन्न समवतरति, यत उक्तम् "पढमंमि सव्वजीवा बीए चरिमे य सव्वदव्वाई। सेसा महव्वया खलु तदेक्कदेसेण नायव्वा ।।" इत्यर्थतः सर्वमपि प्रवचनमिह मातमुच्यते, भाषासमितिस्तु सावधवचनपरिहारतो निरवद्यवचोभाषणात्मिका तया च वचनपर्यायः सकलोऽप्याक्षिप्त एव, न च तद्बहिर्भूतं द्वादशाङ्गमस्ति, एवमेषणासमित्यादिष्वपि स्वधिया भावनीयं, यद्वा सर्वा अप्यमूश्चारित्ररूपाः, ज्ञानदर्शनाविनाभावि च चारित्रं, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमिति सर्वास्वप्येतासु प्रवचनं मातमुच्यते, अन्यथा वाऽऽगमाविरोधेनाभिधेयमिति सूत्रत्रयार्थः। तत्रेर्यासमितिस्वरूपमाहमू.(१३९) आलंबनेनं कालेणं, मग्गेण जयणाइ य। चउकारणपरिसुद्धं, संजए इरियं रिए। मू. ( १४०) तत्थ आलंबणं नाणं, दसणं चरणं तहा। काले य दिवसे वुत्ते, मग्गे उप्पहवज्जिए। मू.( ९४१) दव्वओ खित्तओ चेव, कालओ भावओ तहा। जयणा चउल्विहा वुत्ता, तं मे कित्तयओ सुण ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy