SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन- मूलसूत्रम् - २-२४ / ९३६ जाणगसरीरभविए तव्वइरित्ते कुतित्थिमाईसु । भावे दुवालसंगं गणिपिडगं होइ नायव्वं ॥ मायंमि उ निक्खेवो चउत्रिहो दुविहो० ॥ जाणगसरीरभविए तव्वइरित्ते अ भायणे दव्वं । भावमि अ समिईओ मायं खलु पवयणं जत्थ ॥ वृ. निक्खेवेत्यादि गाथाश्चतस्रः, निक्षेपः प्रवचने चतुर्विधो-नामादिः, तत्र नामस्थापने क्षुत्रे एवेत्यनादृत्य द्रव्यनिक्षेपमाह - द्विविधो भवति 'द्रव्ये' विचार्ये, निक्षेप इति गम्यते, 'द्वैविध्यमेवाह- आगमतो नोआगमतः, तत्रागमतो ज्ञाता तत्र चानुपयोगवान्, नोआगमतस्तु स त्रिविधः । कथमित्याह- 'जाणगसरीरभविए तव्वतिरित्ते य'त्ति, ज्ञशरीरभव्यशरीरे प्रक्रमात्प्रवचने तद्व्यतिरिक्तं 'कुतित्थिमाईसु'त्ति कुतीर्थ्यादिषु प्रवचनमादिशब्दात्सुतीर्थेषु च ऋषभादिसम्बन्धिषु पुस्तकादिन्यस्तं भाष्यमाणं वा, भावे 'द्वादशाङ्गम्' आचारादिदृष्टिवादपर्यन्तं गणिन:आचार्यास्तेषां पिटकमिव पिटकं सर्वस्वाऽऽधारो गणिपिटकं 'भवति' ज्ञातव्यं प्रवचनं, नन्येवं दृष्टिवादान्तर्गतत्वात्सकलकुदृटीनामपि भावप्रवचनतैव प्राप्ता ?, उच्यते, अस्त्येतत्, किन्त्वेकपक्षावधारणपरतयाऽसद्दृष्टित्वाद्रव्यप्रवचनतैवाऽऽसामिति नोक्तदोषापत्तिः ॥ मातशब्द निक्षेप्तुमाह-'माते' मातशब्दे 'तुः' पूरणे निक्षेपश्चतुर्विधो नामादिः, द्विविधो भवति द्रव्ये - आगमनो आगमतः, तत्रागमतस्तथैव, नोआगमतश्च स त्रिविधो- ज्ञशरीरभव्यशरीरे तद्व्यतिरिक्तं च ' भाजने' कांस्यप्रात्रादौ 'द्रव्यम्' मोदकादि, प्रस्तावाद्यत्र मातम् - अन्तः प्राप्तावस्थिति तद्रव्यं मातमुच्यते, भावे च 'समितयः' ईर्यासमित्यादयो माता अभिधीयन्ते 'मातम्' अन्तरवस्थितं 'खलु' निश्चितं 'प्रवचनं' द्वादशाङ्गं 'यत्र' इति यासु । तदेवं निर्युक्तिकृता मातशब्दो निक्षिप्तः, यदा तु माय'त्ति पदस्य मातर इति संस्कारस्तदा द्रव्यमातरो जनन्यो भावमातरस्तु समितयः, एताभ्यः प्रवचनप्रसवात्, उक्तं हि "एया पवयणमाया दुवालसंगं पसूयातो"त्ति, सुज्ञानत्वाच्च एतन्निक्षेप उपेक्षित इति गाथाचतुष्टयार्थः ॥ सम्प्रति नामान्वर्थमाहअवि समिसु अ दुवालसंगं समोअरइ जम्हा । तम्हा पवयणमाया अज्झयणं होइ नायव्वं ॥ नि. [ ४६३ ] ९० नि. [ ४६० ] नि. [ ४६१ ] नि. [ ४६२ ] , वृ. 'अष्टास्वपि' अष्टसङ्ख्यास्वपि समितिषु 'द्वादशाङ्गं' प्रवचनं समवतरति - संभवति यस्मात्, ताश्चेहाभिधीयन्त इति गम्यते, तस्मात्प्रवचनमाता प्रवचनमातरो वोपचारत इदमध्ययनं 'भवति' ज्ञातव्यमिति गाथार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमच्चारणीयं तच्चेदम्'अट्टप्पवयणमायाओ, समिई गुत्ती तहेव य । पंचेव य समिईओ, तओ गुत्तीउ आहिया ।। इरियाभासेसणादाने, उच्चारे समिई इय । मनगुत्ती, वयगुत्ती, कायगुत्ती उ अट्टमा ॥ एयाओ अट्ठ समिईओ, समासेन वियाहिया । दुवालसंग जिनक्खायं, मायं जत्थ उपवयणं ॥ मू. ( ९३६ ) मू. ( ९३७ ) मू. ( १३८ ) Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy