________________
८४
उत्तराध्ययन-मूलसूत्रम्-२-२३/९०३ तओ केसि बुवंतंतु, गोयमो इणमब्बवी ।। मू.( ९०४) मनो साहस्सिओ भीमो, दुट्ठस्सो परिधावई।
तं सम्मं तु निगिण्हामि, धम्मसिक्खाइ कंथगं॥ वृ. सूत्रचतुष्टयम्। 'अयं प्रत्यक्षः सहसा-असमीक्ष्य प्रवर्तत इति साहसिको भीमः प्राग्वत्, दुष्टश्चासावकार्य प्रवृत्त्याऽश्वश्च दुष्टाश्वः ‘परिधावति' समन्ताद्गच्छति, यः कीदृगित्याह-यं दुष्टाश्वमभिभवसि, यदिवा 'यंसि'त्ति यस्मिन् हे गौतम! 'आरूढः' चटितः, अनारूढस्य हि न वक्ष्यमाणापायहेतुरसौ स्यादित्येवमभिधानं, ततः कथमीति प्रश्ने 'तेन' इति दुष्टाश्वेन न हियसे' प्रस्तावनोन्मार्ग नीयसे?।
गौतम आह-'प्रधावन्तम्' उन्मार्गाभिमुखं गच्छन्तं 'निगृह्णामि' निरुणध्मी, कीदृशं तमित्याह-श्रुतम्, आगमो नियन्त्रकतया रश्मिरिव रश्मिः-प्रग्रहः श्रुतरश्मिस्तेन समाहितोबद्धः श्रुतरश्मिसमाहितस्तम्, अतो न 'मे' मम सम्बन्धि दुष्टाश्चः 'गच्छति' याति 'उन्मार्गम्' उत्पथं, ततो न मम तेन हरणमिति भावः, ततश्च किमुदास्त एवेत्याह-'मार्ग च' सत्पथं पुनः 'प्रतिपद्यते' अङ्गीकुरुते । 'अस्से य' इत्यादि सुगम, नवरं मनः' चित्तम्, इह च साहसिक इत्याद्यभिधानं प्रक्रमानुस्मरणार्थं, विशेषमुपदर्शयन्नुपसंहारमाह-तं सम्यग् निगृह्णामि धर्मविषया शिक्षा-उपदेशो धर्मशिक्षा तया, यद्वा शिक्षा-अभ्यासस्ततो 'धर्मशिक्षायै' धर्माभ्यासनिमित्तं कन्थको-जात्याश्वस्ततश्च कन्थकमिव कन्थकं, किमुक्तं भवति?-दुष्टाश्वोऽपि निग्रहणयोग्यः कन्थकप्राय एवेति सुत्रचतुष्टयार्थः ।। केशिराहमू. (९०५) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो।
अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा!॥ वृ. साहुसूत्रं तथैव। तथा 'पथपरिज्ञाते' त्यष्टमं द्वारमाश्रित्याहमू. (९०६)
कुप्पहा बहवे लोए, जेसि नासंति जंतवो।
अद्धाणे कह वट्टतो, तं न नाससि गोयमा!? | मू.(९०७) जे अमागेण गच्छति जे अ उम्मग्गपट्टिया।
ते सव्वे विइया मज्झं, तो न नस्सामहं मुनी! ।। मू. ( ९०८) अग्गे अ इति के बुत्ते?, केसी गोयममब्बवी।
तओ केसि बुवंतं तु, गोयमो इणमब्बवी॥ मू. (९०९) कुप्पवयणपासंडी, सव्वे उम्मग्गपट्ठिया।
सम्मागंतु जिनक्खायं, एस मागे हि उत्तमे ।। वृ. सूत्राणि चत्वारि। कुत्सिताः पथाः कुपथा:-अशोभनमार्गाः 'बहवः' अनेके 'लोके' जगति 'यैः' कुपथैः 'नश्यन्ति' सन्मार्गाद्भश्यन्ति 'जन्तवः' प्राणिनः, ततश्चाध्वनि प्रस्तावात्सन्मार्गे 'कहन्ति कथं वर्तमानस्त्वं न 'नश्यसि ?' सत्पथाच्यवसे ? हे गौतम ! । गौतम आह-'ये' केचित् ‘मार्गेणे'ति सन्मार्गेण 'गच्छन्ति' यान्ति ये च 'उन्मार्गप्रस्थिताः' उत्पथप्रवृत्ताः, ते 'सर्वे' निरवशेषा विदिताः-प्रतीता मम, न चैते पथापथपरिज्ञामन्तरेण सम्यग् ज्ञायन्त इति सैवानेन भङ्गयन्तरेणाक्ता, विचित्रत्वाच्च ऋषीणां सूत्रकृतेरेवमभिधानं, ततश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org