________________
८३
अध्ययन-२३,[ नि. ४५८] मू. (८९७) महामेहपसूयाओ, गिज्झ वारि जलुत्तम।
सिंचामि सययं ते उ सित्ता नो व डहति मे। मू.(८९८) अग्गी अ इह के वुत्ते?, केसी गोयममब्बवी।
तओ केसि, बुवंतं तु, गोयमो ईणमब्बवी।। मू.(८९९) कसाया अग्गिणो वुत्ताः, सुअसीलतवो जलं।
सुयधाराभिहया संता, भिन्ना हु न डहति मे ।। वृ.सूत्रचतुष्टयम्। समन्तात्प्रकर्षेण ज्वलिताः संप्रज्वलिता अत एव 'घोराः' रौद्राः 'अग्गी चिट्ठइत्त आर्षत्वाद्वचनव्यत्ययात्ततोऽग्नयस्तिष्ठान्ति हे गौतम ! ये दहन्तीव दहन्ति परितापकारितया 'शरीरस्थाः देहस्थाः, न बहिर्वतिन इत्यर्थः, एते च यद्यप्यात्मस्थास्तथाऽपि शरीरात्मनोरन्योऽन्यानुगमख्यापनायेत्थमुक्ताः, कथं विध्यापिता:' निर्वापितास्त्वया? । गौतम आहमहामेघात् प्रसूतम्-उत्पन्न महामेधप्रसूत तस्मात्, महाश्रोतस इति गम्यते, गिज्झ'त्ति गृहीत्वा वारयति तृष्णादिदोषानिति वारि-पानीयं 'जलोत्तम' शेषजलापेक्षया प्रधानं तेन 'सिञ्चामि' उक्षामि विध्यापयामीतियावत्, 'सततम्' अनवरतं, 'त उत्ति तुशब्दस्य भिन्न(:) क्रमस्ततस्तानग्नीन्, प्रसङ्गतस्तेत्सेचनफलमाह-सिक्तास्तु 'नो वे'ति नैव दहन्ति 'मे'त्ति मां, पठ्यते च'सययं देहित्ति, इह च देहस्थितत्वेनाग्नयोऽपि देहा उक्ताः, उक्तं हितास्थ्यात्तद्वयपदेश'इति, अन्ये तु पूर्वसूत्रं पठन्ति-'जा डहेति सरीरत्थे'ति, अत्र तु पठन्ति-'सिंचामी सययं तं तु' इति, इह च 'तं' मित्यग्निमन्यत् प्राग्वद्, एकवचनान्तत्वमेव तु सर्वत्र विशेषः।। __"अग्गी येत्यादि प्राग्वत्, नवरमग्निप्रश्नो महामेघादिप्रश्नोपलक्षणं, कषायाः' क्रोधादयः अग्नयः परितापकतया शोषकतया चोक्तास्तीर्थकृद्धिीरिति गम्यते, श्रुतं चेहोपचारात्कषायोपशमहेतवः श्रुतान्तर्गतोपदेशाः शीलं च-महाव्रतानि तपश्च-अनशनग्रायश्चित्तादि श्रुतशीलतप इति समाहारः-तत्किमित्याह-जलं-पानीयमुपलक्षणत्वाच्चास्य महामेघस्त्रिजगदानन्दकतया शेषमेघातिशायित्वेन भगवांस्तीर्थकरो महाश्रोताश्च तत उत्पन्न आगमः, उक्तमेवार्थं सविशेषमुपसंहरनाह-श्रुतस्य आगमस्योपालक्षणत्वाच्छीलतपसोश्च धारा इव धारा-आक्रोशहननतर्जनधर्मभ्रंशेषूतरोभावस्यालाभरूपतादिसततपिभावनास्ताभिराभिहताः-ताडिताः श्रुतधाराभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयः 'भिन्नाः' विदारितास्तदभिधातेन लवमात्रीकृता इतियावत् ‘हुः' पूरणे न दहन्ति मामिति सूत्रचतुष्टयार्थः ।। मू.(९००) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो।
अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा!॥ वृ. प्राग्वत् ! 'दुष्टाश्वनिग्रह' इति सप्तमद्वारमुररीकृत्याहमू.(९०१) अयं साहस्सिओ भीमो, दुट्ठस्सो परिधावई।
जसि गोयम! आरूढो, कहं तेन न हीरसि? | मू. (९०२) पहावंतं निगिण्हामि, सुयरस्सीसमाहियं ।
न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ। मू. (९०३) अस्से अ इइ के वुत्ते?, केसी गोयममब्बवी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org