________________
८२
उत्तराध्ययन-मूलसूत्रम्-२-२३/८८९ भावनाऽभ्यासात् । ततः पाशाश्च-पाशशब्दवाच्याः के 'वुत्ते'ति उक्ताः।
रागद्वेषादयः, आदिशब्दान्मोहपरिग्रहः 'तीव्राः' इति गाढाः, तथा 'नेह'त्ति स्नेहा:-पुत्रकलत्रादिसम्बन्धास्ते पाशा इव पारवश्यहेतुतया पाशा इत्युक्ता इति क्रमः, अतिगाढत्वाच्च रागान्तर्गतत्वेऽप्यमीषांपुनरुपादानं, भयङ्कराः' अनर्थहेतुतया त्रासोत्पादका 'यथाक्रमम्' इति क्रमोयतिविहित आचारस्तदनतिक्रमेणेति सूत्रचतुष्टयार्थः ।।। मू.(८९०) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो।
अन्नोऽवि संसओ मज्झ, तं मे कहसु गोयमा! ।। वृ. पूर्ववत् । सम्प्रति 'तन्तूद्धरणबंधणे'त्ति पञ्चमद्वारावसरः, तत्र च तन्यते भवोऽनेनेति तन्तुः-भवतृष्णा स एव बन्धहेतुत्वाद्वन्धनं तस्योद्धरणम्-उन्मूलनं तन्तुबन्धनोद्धरणं, प्राग्वत्परनिपातः । तदधिकृत्याहमू.(८९१) अंतो हिअयसंभूया, लया चिट्ठई गोयमा !।
फलेइ विसभक्खीणं, सा उ उद्धरिया कहं ? ।। मू.(८९२) तं लयं सव्वसो छित्ता, उद्धरित्ता समूलियं ।
विहरामि जहानायं, मुक्कोमि विसभक्खणं॥ मू. (८१३) लया य इति का वुत्ता?, केसी गोयममब्बवी।
केसिमेवं बुवंतं तु, गोयमो इणमब्बवी॥ मू.(८९४) भवतण्हा लया वुत्ता, भीमा भीमफलोदया।
तमुच्छित्तु जहानायं, विहरामि महामुनी ।। वृ.हृदयस्यान्तरन्तर्हृदयं-मन इत्यर्थस्तत्र संभूता- उत्पन्ना लता ‘तिष्ठति' आस्ते हे गौतम!, 'फलेइ विसभक्खीणं'ति आर्षत्वात्फलति विषयद्भक्ष्यन्त इति विषभक्ष्याणि-पर्यन्तदारुणतया विषोपमानि फलानीति गम्यते, सा पुनः 'उद्धृता' उत्पाटिता त्वयेति गम्यते, 'कथं' केन प्रकारेण, इति केशिप्रश्नः । गौतम आह-'ताम्' इत्युक्तविशेषणां लतां 'सव्वसो'त्ति सर्वतः 'छित्वा' खण्डीकृत्य 'उद्धृत्य' उत्पाट्य समूलामेव समूलिकां रागद्वेषलक्षणमूलनिर्मूलनेन यथान्यायं विहरामीति प्राग्वत्, अनेन सर्वच्छेदसमूलोद्धरणं चोद्धरणप्रकार उक्तः, तत्फलमाह-मुक्तोऽस्मि 'विसभक्खणं'ति सुब्ब्यत्ययाद् विषभक्षणाद्-विषफलाभ्यवहारोपमात् क्लिष्टकर्मणः ।
'लते'त्यादि स्पष्टं, भवः-संसारस्तस्मिन् तृष्णा लोभात्मिका भवतृष्णा लतोक्ता भीमा' भयदा स्वरूपतः कार्यतश्च भीमो दुःखहेतुतया फलानामाक्लिष्टकर्मणामुदयः-परिपाको यस्याः सा तथा, न चेह प्राग् लतामात्रस्यैव प्रश्न इति विशेषणाभिधानमयुक्तं, सविशेषणाया एव तस्याः प्रक्रान्तत्वात्, प्रक्रमापेक्षत्वाच्च प्रश्नस्य, शेषमुपसंहाराभिधायीति सूत्रचतुष्टयार्थः ॥ मू. (८९५) साहु गोयम! पन्ना ते, छिन्त्रो मे संसओ इमो।
अनोऽवि संसओ मज्झं, तं मे कहसं गोयमा ।। वृ. गतार्थम् । 'अग्निनिर्वापणं चेव'त्ति षष्ठद्वारमङ्गीकृत्याहमू.(८९६) संपज्जलिया घोरा, अग्गी चिट्ठइ गोयमा!।
जे डहति सरीरत्था, कहं विज्झाविया तुमे?॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org