________________
अध्ययनं-२३,[नि. ४५८ ] "तत' इति पथापथपरिज्ञातो न नश्याम्यहं मुने! ये हि स्वयं कुपथसत्पथस्वरूपानभिज्ञा भवन्ति ते बहुतरकुपथदर्शनात्तेष्वेव सुपथभ्रान्त्या नश्येयुः, अहं तु न तथेति कथं बहुतरकुपथदर्शनेऽपि नश्येयमिति भावः?। _ 'मग्गे'त्यादि (सूत्र) सुगम, नवरं मार्ग:-सन्मार्गः कः?, उपलक्षणत्वात्कुमार्गाश्च के?, कुप्रवचनेषु-कपिलादिप्ररूपितकुत्सितदर्शनेषु पापण्डिनो-व्रतिनः कुप्रवचनपाषण्डिनः सर्वे उन्मार्गप्रस्थिताः, बहुविधापायभाजनत्वात्तेषामिति भावः, अनेनापि भङ्गया कुप्रवचनानि कुपथा इत्युक्तं भवति, 'सन्मार्गंतु' प्रशस्तमार्ग पुनर्विद्यादिति शेष: 'जिनख्यातं' जिनप्रणीतं मार्गमिति प्रक्रमः, कुतः इत्याह-एष मार्गो 'ही'ति यस्माद् 'उत्तमः' अन्यमार्गेभ्यः प्रधानः, तस्मादयमेव सन्मार्ग इत्यभिप्रायः, उत्तमत्वं चास्य प्रणेतृणां रागादिविकलत्वेनेति भावनीयमिति। मू.(९१०) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इहो।
अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा!" वृ. साधुसूत्रं प्राग्वत् ! सम्प्रति 'महाश्रोतोनिवारणे'त्ति नवमद्वारमुररीकृत्याहमू. (९११) __ महाउदगवेगेणं, वुज्झमाणाण पाणिणं।
सरणं गई पइष्टुं च, दीवं कं मन्नसी? मुनी।। मू.(९१२) अस्थि एगो महादीवो, वारीमज्झे महालओ।
महाउदगवेगस्स, गई तत्थ न विज्जई।। मू. (९१३)
दीवे अइइ के वृत्ते?, केसी गोयममब्बवी।
तओ केसि बुवंतं तु, गोयमो इणमब्बवी। मू. (९१४) जरामरणवेगेणं, वुज्झमाणाण पाणिणं।
धम्मो दीको पइट्ठा य, गई सरणमुत्तमं॥ वृ.सूत्रचतुष्टयम्, महदुदकं यत्र तत् महोदकं प्रक्रमान्महाश्रोतस्तस्य वेगो-रयो महोदकवेगस्तेन 'उह्यमानानां नीयमानानां पाणिणं'ति प्राणिनां शरणं तनिवारणक्षममत एव गम्यमानत्वाद् गति तत एव च प्रतीत्य-आश्रित्य तिष्ठन्त्यत्र दुःखाभिहताः प्राणिन इति प्रतिष्ठा, 'अन्यत्रापी'ति(वा०) वचनाद्तां च द्वीपंकं मन्यसे? मुने! नास्त्येव कश्चन तादृशो द्वीप इति प्रश्नयितुराशयः । गौतम आह अस्ति-विद्यते एको महांश्चासौ प्रशस्यतया द्वीपश्च महाद्वीपः, क्व?'वारिमध्ये' जलस्यान्तः समुद्रान्तर्वर्त्यन्तरद्वीप इत्यर्थः ।
कीदृश्?-'महालओ'त्ति महान्-उच्चस्त्वेन विस्तीर्णतया च अत एव महोदकवेगस्यक्षुभितपापालकलशवातेरीतप्रवृद्धजलमहाश्रोतोवेगस्य 'गतिः' गमनं 'तो'ति महाद्वीपे न विद्यते। 'दीवे' इत्यादि, गतार्थं। जरामरणे एव च निरन्तरप्रवाहप्रवृत्ततया वेग: प्रक्रमादुदकमहाश्रोतसो जरामरणवेगस्तेनोह्यमानानामपरापरपर्यायमयनेन 'प्राणिनां' जीवानां धर्मः' श्रुतधर्मादिः द्वीप इव द्वीप उक्त इति प्रक्रमः, सही भवोदधिमध्यवर्ती मुक्तिपदनिबन्धनतया न जरामरणवेगेन गन्तुं शक्यत इति, तत्र तथाविधजरामरणाभावाद्, अत एव विवेकिनस्तमाश्रित्य तिष्ठन्तीति प्रतिष्ठा, तथा गतिः शरणं चोत्तमं प्राग्वत्।। इहापि द्वीपमात्रप्रश्नाभिधानेऽपिशेषाभिधानं प्रक्रमोपलक्षणत्वात्तत्प्रश्नस्येति भावनीयमिति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org