SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-१-१/४ पूर्तिस्तद्व्याप्तौ कौँ यस्याः सा पूतिकर्णा, सकलावयवकुत्सोपलक्षणं चैतत्, सा चेदृशी शुनी किमित्याह-'निष्काश्यते' निर्वास्यते वहिनिः सार्यत इतियावत्, कुतः?, 'सव्वसो'त्ति सर्वतः सर्वेभ्यो गोपुरगृहाङ्गणादिभ्यः सर्वान् वा हतहतेत्यादिविरूक्षवचनलतालकुटलेष्टुघातादिकान् प्रकारानाश्रित्य 'छन्दोवत् सूत्राणि भवन्ती'ति छान्दसत्वाच्च सूत्रे शस्तप्रत्ययः । उपनयमाह एवम्' अनेनैव प्रकारेण, दुष्टमिति-रागद्वेषादिदोषविकृतं शीलं-स्वभावः समाधिराचारो वा यस्यासौ दुःशीलः, प्रत्यनीकः प्राग्वत्, मुखेनारिमावहति मुखमेव वेहपरलोकापकारितया-ऽरिरस्य मुधैव वा कार्यु विनवारयो यस्यासौ मुखारिर्मुधारिर्वा-बहुविधासम्बद्धभाषी, सूत्रत्वाद्वा 'मुहरि'त्ति मुखरो-वाचाट निष्काश्यते 'सर्वतः' इतिहापि योज्यते, ततश्च सर्वतो निष्काश्यते, सर्वथा कुलगणसङ्घसमवायबहिर्वर्ती विधीयत इति सूत्रार्थः॥आह-दौःशील्यनिमित्त एवायमविनीतस्य दोषः, प्रत्यनोकतामुखरत्वयोरपि तत्प्रभवत्वात् तत्र चैवमनर्थहेतो किमसौ प्रवर्तत इति, अत्रोच्यते, पापोपहतमतित्वेन तत्रैवास्याभिरतिरितिकृत्वा, तामेवाह कणकुंडगं जहित्ता णं, विट्ठ भुंजइ सूयरो। एवं सील जहिता णं, दुस्सिले रमइ मिए। वृ. कणाः-तन्दुलास्तेषां तन्मिश्रो वा कुण्डकः-तत्क्षोदनोत्पन्नकुक्कुसः कणकुण्डकस्तं 'हित्वा' पाठान्तरतस्त्यक्त्वा वा 'विष्ठां' पुरीषं 'भुंङ्के' अभ्यवहरति सूकर' इति गर्तासूकरो, यथेति गम्यते, एवं 'शीलम्' उक्तरूपं प्रस्तावाच्छोभनं 'हित्वा' प्राग्वत्यक्त्वा वा दुष्टं शीलं दुःशीलं तस्मिन् भावप्रधानत्वाद्वा निर्देशस्य दुष्टं शीलमस्येति दुःशीलस्तद्भावो दौःशील्यं तस्मिन्, उभयत्र दुराचारादौ 'रमते' धृतिमाधत्ते मृग इव मृगः अज्ञत्वादविनीत इति प्रक्रमः, इदमत्र हृदयं-यथा मृग उद्गीर्णासिपुत्रिकगौरिगायनपुरुषहेतुकमायतौ मृत्युरूपमपायमपश्यनज्ञः, एवमयमपि दौःशील्यहेतुकमागामिनं भवभ्रमणलक्षणमपायमनालोकयन्नज्ञ एव सन् गर्तासूकरोपमः सदा पुष्टिदायिकणकुण्डकसदृशं शीलमपहाय विवेकिजनगर्हिततया विष्ठोपमे दुःशीले दौःशील्ये वा रमते, इह च दृष्टान्तेऽपिविभुक्त्यभिरतिरेवार्थत उक्ता, तदविनाभावित्वात्तस्याः, यद्वा शुभपरिहारेणाशुभाश्रयणमुभयत्रापि सादृश्यनिमित्तस्तीति नोपमानोपमेयभावाविरोध इति सूत्रार्थः । उक्तोपसंहारपूर्वकं कृत्योपदेशमाहमू.(६) सुणियाभावं साणस्स, सूयरस्स नरस्स या विनए उविज्ज अप्पाणं, इच्छंतो हियमप्पाणो। वृ.'श्रुत्वा' आकर्ण्य अभावं' नञः कुत्सायामपि दर्शनादशोभनं भावं-सर्वतो निष्काशनलक्षणं पर्यायं सानस्स'त्ति प्राकृतत्वादिवेत्यस्य गम्यमानत्वात् शून्या एव सूकरस्य' उक्तन्यायेन शूकरोपमस्य नरस्य 'चः' पूरणे, यद्वा शून्याः शूकरस्य च दृष्टान्तस्य नरस्य च दान्तिकस्याशोभनं भावं त्रयाणामप्युक्तरूपं श्रुत्वा, किमित्याह-'विनये' वक्ष्यमाणस्वरूपे, स्थापयेदात्मानम्, आत्मनैवेति गम्यते, 'इच्छन्' वाञ्छन् 'हितम्' ऐहिकमामुष्मिकं च पथ्यम् 'आत्मनः' स्वस्य, इहच पुनदृष्टान्ताभिधानमुपसंहारत्वेनाविनये शिष्यस्याशुभभावस्योत्पादनार्थत्वेन वा नाप्रकृतमिति सूत्रार्थः ।। यतश्चैवं ततः किमित्याहमू. (७) विनयमेसिज्जा, सौलं पडीलभे जओ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy