________________
४३
अध्ययनं-१,[नि. ६३] कथञ्चित्त्याज्यतया च शिष्यमतिव्युत्पादनाय चोपन्यास इति भावनीयम्, । उक्तः संयोगः, तदभिधानाच्च व्याख्यातं प्रथमसूत्रम् ।। सम्प्रति यदुक्तं "विनयं प्रादुष्करिष्यामी'ति, तत्र विनयो धर्मः, स च धर्मिणः, कथञ्चिदभिन्न इति धर्मिद्वारेण तत्स्वरूपमाहमू.(२)
आणानिदेसयरे, गुरुणमुववायकारए।
इंगियागारसंपन्ने, से विनीएत्ति वुच्चइ।। वृ. आङिति स्वस्वभावावस्थानात्मिकया मयादयाऽभिव्याप्ता वा ज्ञायन्तेऽर्था अनयेत्याज्ञाभगवदभिहितागमरूपा तस्या निर्देश-उत्सर्गापवादाभ्यां प्रतिपादनमाज्ञानिर्देशः, इदमित्थं विधेयमिदमित्थं वेत्येवमात्मक: तत्करणशीलस्तदनुलोमानुष्टानो वा आज्ञानिर्देशकरः, यद्वाऽ5ज्ञा-सौम्य ! इदं करु इदं च मा कार्षीरिति गुरुवचनमेव, तस्या निर्देश-इदमित्थमेव करोमि इति निश्चयाभिधानं तत्करः, आज्ञानिर्देशेन वा तरति भवाम्भोधिमित्याज्ञानिर्देशतर इत्यादयोऽनन्तगमपर्यायात्वाद्भगवद्वचनस्य व्याख्याभेदाः, सम्भवन्तोऽपि मन्दमतीनां व्यामोहहेतुतया बालाबलादिबोधोत्पादनार्थत्वाच्चास्य प्रयासस्य न प्रतिसूत्रं प्रदर्शयिष्यन्ते, तथा 'गुरूणां' गौरवार्हाणामाचार्यादीनामुप-समीपे पतनं-स्थानमुपपात:-दृग्वचनविषयदेशावस्थानं तत्कारकः-तदनष्ठाता, न त गर्वादेशादिभीत्या तद्वयहितदेशस्थायीतियावत, तथेङ्गितंनिपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीषद्भूशिरः कम्पादिआकार:-स्थूलधीसंवेद्यः प्रस्थानादिभावाभिव्यञ्जको दिगवलोकनादिः, आह च
"अवलोयणं दिसाणं वियंमणं साडयस्स संठवणं।
__ आसनसिढिलीकरणं पट्ठियलिंगाई एयाई ।।" अनयोर्द्वन्द्वे इङ्गिताका तौ अर्थाद्गुरुगतौ सम्यक् प्रकर्षण जानाति इङ्गिताकारसम्प्रज्ञः, यद्वा-इङ्गिताकाराभ्यां गुरुगतभावपरिज्ञानमेव कारणे कार्योपचारादिङ्गिताकारशब्देनोक्तं, तेन सम्पन्नो-युक्तः, 'स' इत्युक्तविशेषणान्वितः 'विनीतः' विनयान्वितः, 'इति' सूत्रपरामर्श, उच्यते, तीर्थकृद्गुणधरादिभिरिति गम्यते, अनेन च स्वमनीषिकाऽपोहमाह इति सूत्रार्थः ।। इह विनयोऽभिधित्सितः, स च विपर्ययाभिधान एवतद्विविक्ततया सुखेन ज्ञातुं शक्यत इत्यविनयं धर्मिद्वारेणाहम.(३)
आणानिसकरे, गुरुणमनुववायकारए।
पडिनीए असंबुद्धे, अविनीएत्ति वुच्चइ॥ वृ.पादद्वयं प्राग्वत्, नवरं नयोजननाद्व्यतिरेकतो व्याख्येयं, 'प्रत्यनीकः' प्रतिकूलवर्ती शिलाऽऽक्षेपककूलवालकश्रमणवत्, दोषानीकं प्रति वर्तत इति प्रत्यनीकः, किमित्येवंविधोऽसावित्याह-'असम्बुद्धः' अनवगततत्त्वः ‘अविनीतः' अविनयवान् ‘इत्युच्यते' इति पूर्ववदिति सूत्रार्थः । साम्प्रतं दृष्टान्तपूर्वकमिहैवास्य सदोषतामाहमू.(४) जहा सुणी पुईकनी, निक्कासिज्जइ सव्वसो।
एवं दुसीलपडिनीए, मुहरि निश्कासिज्जइ । वृ.'यथा' इत्युपदर्शने, श्वसितीति शुनी, स्त्रीनिर्देशोऽत्यन्तकुत्सोपदर्शकः, पूती-परिपाकतः कुथितगन्धौ कृमिकुलाकुलत्वाद्युपलक्षणमेतत्, तथाविधौ कौँ-श्रुती यस्याः पक्वरक्तं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org