________________
७३
अध्ययनं-२२,[ नि. ४५१] गाथापञ्चकार्थः । सम्प्रति प्रतिभग्नपरिणामतया मा भूद्रथनेमौ कस्यचिदवज्ञेति सूत्रकृदाहमू.(८४६) एवं करेंति संबुद्धा, पंडिया परियक्खणा।।
विनियट्टति भोगेसुं, जहा सो पुरुसोत्तमो । तिबेमि वृ.'एवम्' इति वक्ष्यमाणं 'कुर्वन्ति' विदधति संबुद्धाः' बोधिलाभतः पण्डिताः' बुद्धिमत्त्वेन 'प्रविचक्षणा:' प्रकर्पण शास्त्रज्ञतया न त्वनीदृशाः, किमित्याह-अविशेषेण किथञ्चिद्विश्रोतासिकोत्पत्तावपि तन्निरोधलक्षणेन निवर्तन्ते, 'भोगेसुन्ति भोगेभ्यो यथा सः 'पुरुषोत्तमो' रथनेमिः, अनीदृशा ह्येकदा भग्नपरिणामा न पुनः संयमे प्रवर्तितुं क्षमाः, ततो भोगविनिवर्त्तनात् संबुद्धादिविशेषणान्वितत्वेन कथमयमवज्ञास्पदं भवेदिति भावः, उपदेशपरतया वा प्राग्वद्याख्येयमिति सूत्रार्थः ॥ इति परिसमाप्तौ, ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव
अध्ययनं - २२ समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे द्वाविंशतितमध्ययनं सनियुक्तिः सटीकं समाप्तम्
अध्ययनं २३ केशि गौतमीयं वृ. व्याख्यातं रथनेमीयनामकं द्वाविंशतितममध्ययनम्, अधुना त्रयोविंशतितमारभ्ययते, अस्य चायमभिसम्बन्धः--इहानन्तराध्ययने कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धृतिश्चरणे विधेयेत्यभिहितम्, इह तु परेषामपि चित्तविप्लुतिमुपलभ्य के शिगौतमवत्तदपनयनाय यतितव्यमित्यभिप्रायेण यथा शिष्यसंशयोत्पत्तौ केशिपृष्टेन गौतमेन धर्मस्तदुपयोगि च लिङ्गादि वर्णितं तथाऽनेनाभिधीयत इत्यमुना सम्बन्धेन प्राप्तस्यास्याध्यनस्य प्राग्वदुपक्रमादि प्रतिपाद्यं यावन्नामनिष्पन्ननिपेक्षे केशिगौतमीयमिति नाम, अत: केशिगौतमशब्दयोनिक्षेपोऽभिधेयः, तत्र च वर्तमानतीर्थाधिप्रथमगणधरतयैतत्तीर्थापेक्षया गौतमस्य ज्येष्ठत्वादादौ तदभिधानस्य तदनु केशिशब्दस्य निक्षेपमाह नियुक्तिकृत्
नि.[४५२] निक्खेवो गोअमंमी चउक्कओ दुवि० ।। नि.[ ४५३]
जाणग सरीरं भवियं० ।। नि.[४५४] गोयमनामागोयं वेयंतो भावगोयमो होइ।
एमेव य केसिस्सवि निक्खेवो चउक्कओ होइ ।। वृ. गाथात्रयं प्राग्वनावरं गौतमाभिलाष एव विशेषः, 'एवमेव' उक्तप्रकारेणैव केशेरपि' केशिशब्दस्यापि निक्षेप(:) चतुष्कको भवति, ज्ञातव्य इति शेषः, गाथात्रयार्थः ।। नामान्वर्थमाहनि.[४५५] गोअम केसीओ आ संवायसमुट्ठियं तु जम्हेयं ।
तो केसिगोयमिज्जं अज्झयणं होइ नायव्वं ॥ वृ.गौतमात् केशिनश्च संवादः-परस्परभाषणं वचनैक्यं वा यतस्तयोस्तात्पर्यत एकार्थाभिधायितयै(तै)व ततः संवादात्समुत्थितम्-उत्पन्नं संवादसमुत्थितम्, अनेन भावार्थ उक्तः, तुः अवधारणे, ततो गौतमत्केशिनश्च संवादसमुत्थितमेव यस्मादेतत्-प्रस्तुतं ततः केशिगौत
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org