________________
७२
उत्तराध्ययन- मूलसूत्रम् - २-२२/८४४ आकर्ण्य 'संयताया: ' प्रव्रजिताया: सुष्ठु - संवेगजनकत्वेन भाषितम् उक्तं सुभाषितम् 'अंकुशेन' प्रतीतेन यथा 'नाग: ' हस्ती पथीति शेषः, एवं 'धर्मे' चारित्रधर्मे 'संपडिवाइओ 'त्ति संप्रतियातित: ' संस्थितः, तद्वचसैवेति गम्यते । अत्र च वृद्धसंप्रदायः- “नेउरपंडियाक्खानययं भणिऊण जाव ततो रुद्वेण राइणा देवी मेंठो हत्थी य तत्रिवि छिनकडगे चडावियाणि, भणिओ य मेंठो - एत्थं वाहेही हत्थि वाहेहि हत्थि, दोहि य पासेहिं वेणुग्गहा ठविया, जाव एगो पाओ आगासे ठविओ, जो भाइ-किं एस तिरियो जाणइ ?, एयाणि मारेयव्वाणि, तहावि राया रोसं न मुञ्चति, ततो अ तिनि पाया आयासे कया, एगेन ठितो, लोगेन अक्कंदो कतो-किमेयं हरियणं वावाइज्जति ?, रन्ना मिठो भणिओ-तरसि नियत्तेउं ?, भणइ - जइ दुयग्गाणवि अभयं देसि दिनं, ततो अंकुसेण नियत्तिओ हत्थित्ति । "
-
इह चायमभिप्रायः - यथाऽयमीदृगवस्थो द्विषोऽकुशवशतः पथि संस्थित एवमयमप्युत्पन्नविश्रोतसिकस्तद्वचेनन अहितप्रवृत्तिनिर्वत्तकतयाऽकुशप्रायेण धर्म इति, ततश्च श्रामण्यं 'निश्चलं' स्थिरं 'फासे 'त्ति अस्माक्षीद्-आसेवितवान्, शेषं स्पष्टमिति सूत्रद्वयार्थः ॥
उभयोरप्युत्तरवक्तव्यतामाह
मू. ( ८४५ )
उग्गं तवं चरित्ता गं, जाया दुन्निवि केवली । सव्वं कम्म खवित्ता णं, सिद्धिं पत्ता अनुत्तरं ॥
वृ. उग्रं कर्मरिपुदारणतया 'तपः' अनशनादि 'चरित्ताणं' ति चरित्वा 'जातौ' भूतौ 'द्वावपी' त्ति रथनेमिराजीमत्यौ 'केवली' ति केवलिनौ 'सर्वं' निरवशेषं 'कर्म' भवोपग्राहि 'खवित्ता णं' त्ति क्षपयित्वा सिद्धिं प्राप्तावनुत्तरामिति सूत्रार्थः ॥ सम्प्रति निर्युक्तिरनुश्रियते
नि. [ ४४७ ]
नि. [ ४४८ ]
नि. [ ४४९ ]
सोरियपुरंमि नयरे आसी राया समुद्दविजओत्ति । तस्सासि अग्गमहिसी सिवत्ति देवी अनुज्जंगी ॥ तेसि पुत्ता चउरो अरिनेमि तहेव रहनेमी । तइओ अ सच्चनेमी चउत्थओ होइ दढनेमी ॥ जो सो अरिनेमी बावीसइमो अहेसि सो अरिहा । रहनेमि सच्चनेमी एए पत्तेयबुद्धा उ ॥ रहने मिस्स भगवओ गिहत्थए चउर हुंति वाससया । संवच्छर छउमत्थो पंचसए केवली हुंति ॥ नववाससए वासाहिए उ सव्वाउगस्स नायव्वं ! एसो उचेव कालो रायमईए उ नायव्वो ।
नि. [ ४५० ]
नि. [ ४५१]
वृ. अत्र च प्रथमगाथया रथनेमेरन्वय उक्तः । 'तेसिं' ति 'तयो: ' समुद्रविजयशिवादेव्योः, 'प्रसङ्गतश्चेह शेषपुत्राभिधानम्, 'अहेसि 'त्ति अभूत्, ह च यदरिष्टनेमेरर्हत्त्वं रथनेमेश्च प्रत्येकबुद्धत्वमुक्तं तदर्हद्भ्रातृत्वेन स्वगुणप्रकर्षेण च रथनेमेर्माहात्म्यख्यापनार्थम् । चतुर्थगाथया पर्यायपरिमाणाभिधानं, तत्र चत्वारि वर्षशतानि गृहस्थपर्यायः वर्ष छद्मस्थपर्याय: वर्षशतकपञ्चकं केवलिपर्याय इति मिलितानि नव वर्षशतानि वर्षाधिकानि सर्वायुरभिहितम्, एष 'चैवत्विति चतुशब्दौ पूरणे, तत एष एव च वर्षाधिकवर्षशतनवकलक्षणः, शेषं स्पष्टमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-