________________
अध्ययनं-२२,[ नि.४४६ ] त्येवमुक्तं । 'सुस्थिता' निश्चला 'नियमव्रते' इतीन्द्रियनोइन्द्रियनियमने प्रव्रज्यायां च जाति कुलं शीलं च 'रक्खमाणी'त्ति रक्षन्ती, शीलध्वंसे हि कदाचिदस्या एवंविधैव जातिः कुलं चेति सम्भावनातस्ते अपि विनाशिते स्यातामित्येवमुक्तं, यद्यपि 'असि' भवसि 'रूपेण' आकारसौन्दर्येण 'वैश्रमणः' धनदः 'ललितेन' सविलासचेष्टितने 'नलकूबर:' देवविशेष: 'ते' इति त्वां साक्षात्' समक्षः 'पुरन्दरः' इन्द्रो रूपाद्यनेकगुणाश्रयो य इति भावः, रूपाद्यभिमानी चायमित्येवमुक्तः ।।
अपरं च-धिगस्तु 'ते' तव पौरुषमिति गम्यते, अयश:कामिन्निव अयशः कामिन् !-- अकीर्त्यभिलाषिन् !, दुराचारवाञ्छितया, यद्वा 'ते' तव यशो-महाकुलसंभवोद्भूतं धिगस्त्विति सम्बन्धः 'कामिन्!' भोगाभिलाषिन्! 'जीवितकारणात्' जीवितनिमित्तमाश्रित्य, तदनासेवने हि तथाविधदशावाप्तौ मरणमपि स्यादित्येवभिधानं, 'वान्तम्' उद्गीण यत् शृगालैरपि परिहतं तदिच्छस्यापातं, यथा हि कश्चिद्वान्तमापातुमिच्छत्येवं भवानपि प्रव्रज्याग्रहणतस्त्यक्तान् भोगान् पुनरापातुमिवापातुम्- उपभोक्तुमिच्छति अतः 'श्रेयः' कल्याणं 'ते' तव मरणं भवेत्, न तु वान्तापानं, ततो मरणस्यैवाल्पदोषत्वात्, अनूदितं चैतद्
"विज्ञाय वस्तु निन्द्यं त्यक्त्वा गृह्णन्ति किं क्वचित्पुरुषाः? ।
वान्तं पुनरपि भुक्ते न च सर्वः सारमेयोऽपि॥" 'अहमि' त्यात्मनिर्देशे 'चः' पूरणे भोजराजस्य' उग्रसेनस्य त्वं च असि' भवसि अन्धकवृष्णे:, कुले जात इत्युभयत्र शेषः, अतश्च 'मा' इति निषेधे 'कुले' अन्वये 'गंधणे'तिगन्धनाना' सर्पविशेषाणां 'होमो'त्ति भूव, तच्चेष्टितानुकारितयेति भावः, ते हि वान्तमपि विषं ज्वलद्धह्रिपातभीरुतया पुनरपि पिबन्ति, तथा च वृद्धाः-"सप्पाणं किल दो जाईओ-गंधणा य अगंधणा य, तत्थ गंधणा नाम जे डसिए मंतेहिआकड्डियातं विसं वणमुहातो आवियंति, अगंधणा उण अवि मरणमज्झवसंति न य वंतमाइयंति।
किं तर्हि कृत्यमित्याह-संयमं निभृतःस्थिर: 'चर' आरोवस्व, यदि त्वं भावं' प्रक्रमाद्भोगाभिलाषरूपं या याः 'दिच्छसित्ति द्रक्ष्यसि तासु तास्विति गम्यते, ततः किमित्याहवातेनाविद्धः-समन्तात्ताडितो वाताविद्धो भ्रमति इतियावत्, हठो-वनस्पतिविशेषः स इवास्थितात्मा-चञ्चलचित्ततयाऽस्थिरस्वभावः । 'गोपालः' यो गाः पालयति 'भाण्डपालो वा' य: परकीवानि भाण्डानि भाटकादिना पालयति, पठयते च –'दण्डापालो पा' नगररक्षको वा यथा 'तद्रव्यस्य गवादेः सततरक्षणीयस्य 'अनीश्वरः' अप्रभुः, विशिष्टतत्फलोपभोगाभावात्, एवमनीश्वरत्वमपि श्रामण्यस्य भविष्यसि, भोगाभिलाषतस्तत्फलस्यापि विशिष्टस्याभावादिति भाव इति सूत्रसप्तकार्थः । एवं तयोक्तो रथनेमिः किं कृतवानित्याहमू.(८४३) तीसे सो वयणं सुच्चा, संजईए सुभासियं।
अंकुसेण जहा नागो, धम्मे संपडिवाइओ ।। मू.(८४४) मनगुत्तो, वयगुत्तो, कायगुत्तो जिइंदिओ।
सामनं निच्चलं फासे, जावज्जीवं दडब्बओ। वृ.सूत्रद्वयम् तस्याः' राजीमत्याः 'स:' रथनेमिः 'वचनम्' अनन्तरोक्तानुशिष्टिरूपं श्रुत्वा'
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org