SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-२-२३/८४७ मयोर्भवमित्यर्थे 'नामधेयेन नामधेयत्वेऽस्ये'ति वृद्धसङ्घत्वात्, 'वृद्धाच्छः' इति छप्रत्यये केशिगौतमीयमध्ययनं भवति' ज्ञातव्यमिति गाथार्थः । उक्तो नामनिष्पन्ननिक्षेपः, इदानीं सूत्रालापकनिष्पन्ननिक्षेपावसरः, सच सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्म.(८४७) जिने पासित्ति नामेणं, अरहा लोगपइए। संवुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिने । व. 'जिनः' परीषहोपसर्गजेता पार्श्व इति नाम्नाऽभूदिति शेषः, स चान्योऽपि संभवत्यत आह-अर्हति देवेन्द्रादिविहितानि वन्दननमस्करणादीन्यर्हन् तीर्थकृदित्यर्थः, अत एव लोकपूजितः संबुद्धः-तत्त्वावगमवानात्माऽस्येति संबुद्धात्मा, 'च: पूरणे, स चानुत्पन्नाकेवलोऽपि स्यादित्याह-'सर्वज्ञः' सकलद्रव्यपर्यायवित्, तथा धर्म एव तीर्यते भवाम्भोधिरनेनेति तीर्थं धर्मतीर्थं तत्करणशीलो धर्मतीर्थंकर: 'जिनः' जितसकलकर्मा, भवोपग्राहिकर्मणामपि दग्धज्जुसंस्थानतयैव तेन व्यवस्थापनात्, मुक्त्यवस्थाऽपेक्षया वा, पठयते च'अरिहा लोयविस्सुए। सव्वन्नू सव्वदंसी य, धम्मतित्थस्स देसए ।।' स्पष्टमेवेति सूत्रार्थः ।। ततः किमित्याहमू.(८४८) तस्स लोगपईवस्स, आसि सीसे महायसे। केसी कुमारसमणे, विज्जाचरणपारगे। मू. (८४९) ओहिनाणसुए बुद्धे, सीससंघसमाउले। गामानुगामंरीयंते, सेऽवि सावत्थिमागए। मू. (८५०) तिंदुयं नाम उज्जाणं, तंमि नयरमंडले। फासएसिज्जसंथारे, तत्थ वासमुवागए। वृ. 'तस्य' इति पार्श्वगाम्नोऽर्हतो लोके प्रदीप इव प्रदीपस्तद्गतसकलवस्तुप्रकाशकतया लोकप्रदीपस्तस्यासीच्छिव्यो महायशाः 'केशिः' केशिनामा कुमारश्चासावपरिणीततया श्रमणश्च तपस्वितया कुमारश्रवणो विद्याचरणे-ज्ञानचारित्रे तयोः पारगः-पर्यन्तगामी विद्याचरणपारगः, 'ओहिनाणसुए'त्ति सुब्ब्यत्यवादवधिज्ञानश्रुताभ्यां मइपुव्वं जेण सुयं'इत्यागमात्मतिपूर्वकतया श्रुतस्य मत्या च 'बुद्धः' अवगतहेयोपादेयविभागो विशेषाभिधायित्वादस्यापुनरुक्तता, शिष्याणां सङ्घः-समूहस्तेन समाकुल:-आकीर्णः परिबंहित इतियावत् शिष्यसङ्घसमाकुलो ग्रामानुग्रामं पूर्ववत् 'रीयंते'-त्ति 'रीयमाणः' विहरन् ‘श्रावस्ती' श्रावस्तीनाम्नी, 'तम्मि'त्ति तस्याः श्रावस्त्याः 'नगरमण्डले' पुरपरिक्षेपपरिसरे 'प्रासुके' स्वभाविकागन्तुकसत्त्वरहिते, केत्याह, शय्या-वसतिस्तस्यां संस्तारक:-शिलाफलकादिः शय्यासंस्तारकस्तस्मिन् 'तो'ति तिन्दुकोद्याने वासम्,-अवस्थानम् 'उपागतः' प्राप्तः, शेषं स्पष्टमिति सूत्रत्रयार्थः ।त् अस्मिश्चान्तरे यदभूत्तदाहमू.(८५१) अह तेनेव कालेणं, धम्मतित्थयरे जिने। भयवं वद्धमानुत्ति, सबलोगमि विस्सुए। मू.(८५२) तस्स लोगपईवस्स, आसि सीसे महायसे। भयवं गोयमे नाम, विज्जाचरणपारगे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy