________________
उत्तराध्ययन-मूलसूत्रम्-२-२२/८१२ वृद्धयादयः सर्वोषधयस्ताभिः स्तपितः-अभिषिक्तः, कृतकैतुकमङ्गल इत्यत्र कौतुकानिललाटस्य मुशलस्पर्शनादीनि मङ्गलानि च-दध्यक्षतदूर्वाचन्दनादीनि 'दिव्वजुयलपरिहिय'त्ति प्राग्वत्परिहितं दिव्ययुगलमिति प्रस्तावाटूष्ययुगलं येन स तथा, वासुदेवस्य सम्बन्धिनमिति गम्यते, ज्येष्ठमेव ज्येष्ठकम्-अतिशयप्रशस्ममतिवृद्धं वा गुणैः पट्टहस्तिनमित्यर्थः, शोभत इति वर्तमाननिर्देशः प्राग्वत्, 'चूडामणिः' शिरोऽलङ्काररत्नम्।
'अथ' अनन्तरम् “उच्छ्रितेन' उपरिधृतेन पाठान्तरतश्च-श्वेतोच्छ्रितेन 'चामराहि यत्ति चामराभ्यां च शोभित: 'दसारचक्केणं'ति दशार्हचक्रेण यदुसमूहेन 'चतुरङ्गिण्या' हस्त्यश्वरधपदातिरूपाङ्गचतष्टयान्वितया 'रचितया' न्यस्तया 'यथाक्रम' यथापरिपाटी तूर्याणां-मृदङ्ग-- पटहादीनां सनिनादेनेति-संनहत इत्यादिषु समो भृशार्थस्यापि दर्शनादतिगाढध्वनिना 'दिव्येन' इति प्रधानेन देवागमनस्यापि तदा सम्भवाद्देवलोकोद्भवेन वा 'गयणं फुसे'त्ति आर्षत्वाद, 'गगनस्पशा' अतिप्रबलतया नभोऽङ्गणव्यापिना, सर्वत्र चलक्षणे तृतीया, 'एतादृश्या' अनन्तराभिहितरूपया 'ऋद्धया' विभूत्या 'द्युत्या' दीप्त्या, उत्तरत्र चशब्दोऽभिन्नक्रमतो द्युत्या चोत्तमयोपलक्षीतः सन्निजकाद्भुवनात् 'निर्यातः निष्क्रान्तः वृष्णिपुङ्गवः यादवप्रधानो भगवानरिष्ठनेमिरितियावत् ।
ततश्चासौ क्रमेण गच्छन् प्राप्तो विवाहमण्डपासत्रदेशम, 'अथ' अनन्तरं स तत्र 'निर्यन्' अधिकं गच्छन् ‘दिस्संपत्ति दृष्ट्वा अवलोक्य 'प्राणान्' स 'प्राणिनः' मृगलावकादीन् 'भयद्रुतान्' भयत्रस्तान् वाटैरिति-वाटकैः-वृत्तिवरण्डकादिपरिक्षिप्तप्रदेशरूपैः ‘पञ्जरेश्च' बन्धनविशेषैः 'सन्निरुद्धान्' गाढनियन्त्रितान्, पाठान्तरतस्तु-बद्धरुद्धान्, अत एव सुदुःखितान्, तथा जीवितस्यान्तो-जीवितानतो मरणभित्यर्थस्तं संप्राप्तानिव संप्राप्तान्, अतिप्रत्यासत्रत्वात्तस्य, यद्वा जीवितस्यान्तः-पर्यन्तवर्ती भागस्तमुक्तहेतोः संप्राप्तान् ‘मांसार्थ' मसनिमित्तं च भक्षयितव्यान् मांसस्यैवातिगृद्धिहेतुत्वेन तद्भक्षणनिमित्तत्वादेवमुक्तं, यदिवा 'मांसेनैव मांसमुपचीयते' इति प्रवादतो मांसमुपचितं स्यादिति मांसार्थं भक्षयितव्यानविवेकभिरिति शेषः, 'पासित्त'ति दृष्ट्वा, कोऽर्थः?-उक्तविशेषणविशिष्टान् हदि निधाय 'सः' इति भगवानरिष्टनेमिमहती प्रज्ञाप्रक्रमान्मतिश्रुतावधिज्ञानत्रयात्मिका यस्यासौ महाप्रज्ञः 'सारथि प्रवर्त्तयितारं प्रक्रमाद्गन्धहस्तिनो हस्तिपकमितियावत्, यद्वाऽत एव तदा रथारोहणमनुमीयत इति रथप्रवर्तयिताराम् । ___ 'कस्स?'त्ति कस्य ‘अर्थात्' निमित्तादिमे प्राणाः, एते सर्वे 'इमे' इत्यनेनैव च गते एते इति पुनरभिधानमतिसार्द्रहदयतया पुनः पुनस्त एव भगवओ हृदि विपरिवत्तन्त इति ख्याफ्नार्थं, यदिवा 'इमे' प्रत्यक्षाः 'एते' समीपतरवत्तिनः, उक्तं हि 'इदम: प्रत्यक्षगतं समीपतरवत्ति चैतदो रूपम्' पठ्यते च-'बहुपाने'त्ति प्रतीतं, 'सुखैषीणः' साताभिलाषिणः 'सन्निरुद्धे य'त्ति सन्निरुद्धाः 'च' पूरणे 'अच्छिहि'त्ति आसत इति षोडशसूत्रार्थः ॥ एवं च भगवतोक्तेमू. (८१३) अह सारही तओ भणइ, एए भद्दा उ पाणिणो।
तुझं विवाहकमि , भोआवेउं बहुं जनं ।। वृ. सुगममेव, नवरम् 'अथ' इति भगवद्वचनानन्तरं 'भद्दा उ'त्ति 'भद्रा एव' कल्याणा एव न तु श्वशृगालादय एव कुत्सिताः अनपराधतया वा भद्रा इत्युक्तं भवति, तव 'विवाहकार्ये'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org