________________
अध्ययनं-२२,[ नि. ४४६] परिणयनरूपप्रयोजने 'भोयावेउं'ति भोजयितुम्, अनेन यदुक्तं 'कस्यादिति तत्प्रत्युत्तरमुक्तमिति सूत्रार्थः । इत्थं सारथिनोक्ते यद्भागवान् विहितवांस्तदाहमू.(८१४) सोऊण तस्स वयण, बहुपाणिविनासणं।
चिंतेइ से महापन्ने, सानुक्कोसे जिएहि उ॥ मू.(८१५) जइ मज्झ कारणा एए, हम्मति सुबहू जिया।
न मे एयं ति निस्सेसं, परलोगे भविस्सई ।। मू.(८१६) सो कुंडलाण जुयलं, सुत्तगं च महायसो।
आभरणाणि य सव्वाणि, सारहिस्स पणामई। मू.(८१७) मनपरिणामो अकओ, देवा य जहोइयं समोईना।
सविडिइ सपरिसा, निक्खमणं तस्स काउंजे।। मू.(८१८) देवमनुस्सपरिवुडो, सिवियारयणं तओ समारूढो।
निक्खमिय बारगाओ, रेवयमि ठिओ भयवं । मू.(८१९) उज्जाने संपत्तो, ओइनो उत्तमाउसीयाओ।
साहस्सीए परिवुडो अह निक्खमइ उचित्ताहिं।। मू.(८२०) अह सो सुंगंधगंधिए तुरियं मउअकुंचिए।
सयमेव लुचई केसे, पंचद्विहिं समाहिओ।। वृ. सुगममेव नवरं 'तस्य' इति सारथेः बहूनां-प्रभूतानां प्राणानां-प्राणिनां विनाशनंहननमर्थादिभिधेयं यस्मिस्तद्बहुप्राणविनाशनं सः' भगवान् ‘सानुक्रोशः' सकरुणः, केषु?'जिएहि उत्ति जीवेषु 'तु' पूरणे । मम कारणादितिहेतोर्मद्विवाहप्रयोजने भोजनार्थत्वादभीषामित्यभिप्रायः, 'हम्मंति'ति हन्यन्ते वर्तमानसामीप्ये लट्, ततो हनिष्यन्त इत्यर्थः, पाठान्तरतः 'हम्मिहंति'त्ति स्पष्टं, 'सुबहवः' अतिप्रभूताः 'जिय'त्ति जीवाः, एतदिति जीवहननं 'तुः' एवकारार्थो नेत्यनेन योज्यते, ततः 'न तु' नैव 'निस्सेसं'त्ति 'निःश्रेयसं' कल्याणं परलोके भविष्यति, पापहेतुत्वादस्येति भावः, भवान्तरेषु परलोकभीरुत्वस्यात्यन्तमभ्यस्ततयैवमभिधानमन्यथा चरमशरीरत्वादतिशयज्ञानित्वाच्च भगवतः कुत एवंविधचिन्तावसर: ?, एवं च विदितभगवदाकूतेन सारथिना मोचितेषु सत्त्वेषु परितोषिताऽसौ यत्कृत्वांस्तदाह-'सो' इत्यादि सुत्तकं चे'त्ति कटीसूत्रम्, अपर्यतीति योगः, किमेतदेवेत्याह-आभरणानि च सर्वाणि शेषाणीति गम्यते, ततश्च 'मनःपरिणामश्च' अभिप्रायः कृतो निष्क्रमणं प्रतीति गम्यते, 'देवाः' चतुर्निकाया एव 'यथोचितम्' औचित्यानतिक्रमेण समवतीर्णाः, पाठान्तरतः समवपतिताः, चकाराभ्यां चेह समुच्चयार्थाभ्यामपि तुल्यकालताया ध्वन्यमानत्वात्तदैवेति गम्यते, 'सर्वर्धा' समस्तविभूत्या 'सपरिषदः' बाह्यमध्याभ्यन्तरपर्षन्त्रयोपेताः 'निष्क्रमणम्' इति प्रक्रमानिष्क्रमणमहिमानं 'तस्य' इति भगवतोऽरिष्ठनेमिनः कत्तुं 'जे' इति निपातः पूरणे। _ 'शिबिकारत्न' देवनिर्मितमुत्तरकुरुनामकमिति गम्यते, 'ततः तदनन्तरं 'समारूढः' अध्यासीन: 'निष्क्रम्य' निर्गत्य 'द्वारकातः' द्वारकापुर्याः 'रैवतके उज्जयन्ते 'स्थितः गमनानिवृत्तः ।
तत्रापि कतरप्रदेशं प्राप्तः स्थित इत्याह-'उद्यानं' सहस्राम्रवणनामकं संप्राप्तः, तत्र चावतीर्णः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org