________________
अध्ययनं - २२, नि. ४४६ ]
मू. ( ८१० )
मू. (८११ )
नियगाओ भवनाओ, निज्जाओ वण्हिपुंगवो ॥ अह सो तत्थ विज्र्ज्जतो, दिस्स पाने भयहुए। वाडेहि पंजरेहिं च, संनिरुद्धे सुदुक्खिए ॥ जीवियंतं तु संपत्ते, मंसट्टा भक्खियव्वए । पासित्ता से महापत्रे, सारहिं इणमब्बवी ॥ कस्स(अ) ट्ठा इमे पाणा, एए सव्वे सुहेसिणो । वाडेहि पंजरेहिं च, संनिरुद्धा य अच्छहि ? |
मू. ( ८१२ )
वृ. सूत्रषोडशकं प्राय: प्रकटार्थमेव, नवरं राजेव राजा तस्य लक्षणानि चक्रस्वस्तिकांकुशादीनि त्यागसत्यशौर्यादीनि वा तैः संयुतो युक्तो राजलक्षणसंयुतोऽत एत राजेत्युक्तं, 'भज्जा दुवे आसि'त्ति भार्ये द्वे अभूतां, 'तासि' न्ति तयो रोहिणीदेवक्योद्वौ पुत्रौ 'इष्टौ ' वल्लभौ 'रामकेसवौ' बलभद्रवासुदेवाय भूतामितिहापि योज्यते, तत्र रोहिण्या रामो देवक्याश्च केशवः, इह च रथनेमिवक्तव्यतायां कस्यायं तीर्थ इति प्रसङ्गेन भगवच्चरितेऽभिधित्सितेऽपि तद्विवाहादिषूपयोगिनः केशवस्य पूर्वोत्पन्नत्वेन प्रथममभिधानं, तत्सहचरितत्वाच्चा रामस्येतिभावनीयं, पुन: सौर्यपुराभिधानं च समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम्, इह च राजलक्षणसंयुत इत्यत्र राजलक्षणानि - छत्रचामरसिंहासनादिन्यपि गृह्यन्ते ।
दमिन: उपशमिनस्तेषामीश्वरः - अत्यन्तोपशमवत्तया नायको दमीश्वरः कौमार एव क्षतमारवीर्यत्वात्तस्य । 'लक्खणसरसंजुतो' त्ति प्राकृतत्वात्स्वरस्य यानि लक्षणानि - सौन्दर्यगाम्भीर्यादीनि तैः संयुतः स्वरलक्षणसंयुतः, लक्षणोपलक्षितो वा स्वरो लक्षणस्वरः प्राग्वन्मध्यपदलोपी समास:, तेन संयुतो लक्षणस्वरसंयुतः, पठन्ति च- 'वंजनस्सरसंजुओ' त्ति व्यञ्जनानि-प्रशस्ततिलकादीनि स्वरो- गाम्भीर्यादिगुणोपेतत्सत्संयुतः 'अष्टसहस्रलक्षणधरः' अष्टोत्तरसहस्त्रसङ्ख्यशुभसूचककरादिरेखाद्यात्मकचक्रादिलक्षणधारक : 'गौतमः ' गौतमसगोत्र: 'कालकच्छविः' कृष्णत्वक्। 'झसोदरो 'त्ति झषो-मत्स्यस्तदुदरमिव तदाकारतयोदरं यस्यासौ झषोदरो, मध्यपदलोपी समासः, इतश्च गतेषु द्वारकापुरी यदुषु निहते जरासिन्धनृपतावधिगत भरतार्द्धराज्य: केशवो यौवनस्थेऽरिष्टनेमिनि समुद्रविजयादेशतो यदचेष्टत तदाह-'तस्य' अरिष्ठनेमिनो राजीमत भार्यां गन्तुमिति शेषः, याचते केशवस्तज्जनकमिति प्रक्रमः ।
सा च कीदृशीत्याह-‘अथ' इत्युपन्यासे, राजवर इहोग्रसेनस्तस्य कन्या राज्ञो वा तस्यैव वरकन्या राजवरकन्या सुष्ठु शीलं स्वभावो यस्याः सा सुशीला चारु प्रेक्षितुं - अवलोकितुं शीलमस्या: चारुप्रेक्षिणी, नाधोदृष्टितादिदोषदुष्टा, 'विज्जुसोयामणिप्पह' त्ति विशेषेण द्योततेदीप्यत इति विद्युत् सा चासौ सौदामनी च विद्युत्सौदामनी, अथवा विद्यदग्निः सौदामिनी च तडित् अन्ये तु सौदामिनी प्रधानमणिरित्याहुः ।
६५
'अथ' इति याञ्चाऽनन्तरमाह जनकस्तस्याः -राजीमत्या उग्रसेन इत्युक्तं, 'जा से 'त्ति सुव्यत्याद् येन तस्मै ' ददामि' विवाहविधिनोपढौकयाम्यहम्। एवं च प्रतिपन्नायामुग्रसेनेन राजीमत्यामासन्ने च क्रौष्ठिक्यादिष्टे विवाहलग्ने यदभूत्तदाह-सर्वाश्च ता औषधयश्च जयाविजयद्धि
29 5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org