________________
६२
उत्तराध्ययन- - मूलसूत्रम्- -२-२१/७९५ अननुकुलं 'सव्व तितिक्खएज्ज' त्ति सर्वम् 'अतितिक्षत' सोढवान्, किञ्च 'न सव्व 'त्ति सर्वं वस्तु सर्वत्र स्थानेऽभ्य रोचयत, न यथादृष्टाभिलाषुकोऽभूदिति भावः, यदिवा यदेकत्र पुष्टालम्बनतः सेवितं न तत्सर्वम्-अभिमताहारादि सर्वत्राभिलषितवान्, न चापि पूजां गह वाऽभ्यरोचयतेति सम्बन्ध:, इह च गर्हातोऽपि कर्मक्षय इति केचिदतस्तन्मतव्यवच्छेदार्थं ग्रहणं यद्वा गर्हा - परापवादरूपा ।
ननु भिक्षोरपि किमन्यथाभावः संभवति ? येनेत्थमित्थं च तद्गुणाभिधानमित्याह'अनेग' त्ति वृत्तार्द्ध, तत्र च ' अनेग'ति अनेके 'छन्दा:' अभिप्रायाः संभवन्तीति गम्यते, 'मिह'त्ति मकारोऽलाक्षणिक: ‘इह' जगति 'माणवेहिं' ति सुब्व्यत्ययान्मानवेषु 'जे' इति याननेकान् छन्दान् 'भावतः 'तत्त्वत्वृत्त्यौदायिकादिभावतो वा सः 'प्रकरोति' भृशं विधत्ते 'भिक्खू'त्ति अपिशब्दस्य गम्यमानत्वाद् भिक्षुरपि-अनागारोऽपि सन्, अत इत्थमित्थं च तद्गुणाभिधानमिति भावः । अपरञ्च-‘भयभैरवाः’ भयोत्पादकत्वेन भीषणाः 'तत्र' इति ब्रह्मप्रतिपत्तौ 'उइंति' त्ति 'उद्यन्ति' उदयं यान्ति, पठ्यते च-'उवेंति 'त्ति, उपयन्ति भयभैरवा इत्यनेनापि गते भीमा इति पुनरभिधानमतिरौद्रताख्यापनायोक्तं, 'दिव्या' इत्यादावपुसर्गा इति गम्यते, 'तिचित्छ'त्ति तैरश्चाः ||
तथा 'परिसह ' त्ति परीषहाश्च उद्यन्तीति सम्बन्धः, 'सीदन्ति' संयमं प्रति शिथिलीभवन्ति 'जत्थ'त्ति यत्र- येषूपसर्गेषु परीषहेषु च सत्सु 'से' इति सः 'तत्र' तेषु 'पत्ते' त्ति वचनव्यत्य- यात्प्राप्तेषु प्राप्तो वा- -अनुभवद्वारेणायातो न ('व्यथेत' स्यात्' व्यथाभीतश्चलीतो वा सत्त्वाद्, भिक्षुः सन् 'संग्रामशीर्ष इव' युद्धप्रकर्ष इव 'नागराजः' हस्तिराजः । 'स्पर्शी : ' तृणस्पर्शादयः 'आतङ्का: ' रोगाः 'स्पृशन्ति' उपतापयन्ति 'अकुक्कुय'त्ति आर्षत्वात् कुत्सितं कूजति-पीडितः सन्नाक्रन्दति कुकूजो न तथेत्यकुकूज:, पठ्यते च - 'अकक्करे' त्ति कदाचिद्वेदहनाऽऽकुलितो न कर्करायितकारी, अनेन चानन्तरसूत्रोक्त एवार्थो विस्पष्टतार्थमन्वयेनोक्तः, एवंविधश्च स रजांसीव रजांसि - जीवमालिन्यहेतुतया कर्माणि 'खेविज्जे 'ति अक्षिपत् परीषहसहनादिभिः क्षिप्तवान्। 'मोह(म्)' इति मिथ्यात्वहास्यादिरूपोऽज्ञानं वा गृह्यते, आत्मना गुप्तः आत्मगुप्तःकूर्मवत्संकुचितसर्वाङ्गः, अनेन परीषहसहनोपाय उक्तः ।
किञ्च- 'नयावि पूयं गरिहं च संजये 'त्ति न चापि पूजां गर्हां च प्रतीति शेषः 'असजत्' सङ्गं विहितवान्, तत्र च अनुन्नतत्वमनवनतत्वं च हेतुर्भावतः, उन्नतो हि पूजां प्रति अवनतश्च गर्हां प्रति सङ्गं कुर्यान्न त्वन्ययेति भाव:, पूर्वत्राभिरुचिनिषध उक्तः, इहं तु सङ्गस्येति पूर्वस्माद्विशेष:, 'स' इति 'सः' एवंगुणः 'ऋजुभावम्' आर्जवं 'प्रतिपद्य' अङ्गीकृत्य संयतो 'निर्वाणमार्गं' सम्यग्दर्शनादिरूपं विरतः सन् 'उपैति' विशेषेण प्राप्नोति, वर्त्तमाननिर्देश इहोत्तरत्र च प्राग्वत् । ततः स तदा कीदृशः किं करोतीत्याह- अरतितरती संयमासंयमविषये सहते न ताभ्यां बाध्यत इत्यरतिरतिसहः, 'पहीणसंथवे 'त्ति प्रक्षीणसंस्तवः संस्तवप्रहीणो वा, संस्तवश्च प्रर्वपश्चात्संस्तवरूपो वचनसंवासरूवो वा गृहिभिः सह, प्रधानः स च संयमो मुक्तिहेतुत्वात् स यस्यास्त्यसौ प्रधानवान्, परमः -प्रधानोऽर्थः पुरुषार्थो वाऽनयोः कर्मधारयो परमार्थो मोक्षः पद्यते गम्यते यैस्तानि परमार्थपदानि सम्यग्दर्शनादीनि सुब्व्यत्ययात् तषु तिष्ठति अविराधकतयाऽऽस्ते 'छिन्नसोय'त्ति छिन्नशोकः छिन्नानि वा श्रोतांसीव श्रोतांसि - मिथ्यादर्शनादीनी
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-