SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ६१ अध्ययनं-२१,[ नि. ४४२] से उज्जं भावं पडिवज्ज संजए, निव्वाणमग्गं विरए उवेइ॥ मू. ( ७९३) अरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं। परमट्ठपएहि चिटुइ, छिन्नसोए अममे अकिंचने ।। मू. (७९४) विवत्तलयनाई भइण्ज ताई, निरोवलेवाइं असंथडाइं। __इसीहिं चिन्नाई महायसेहि, कारण फासिज्ज परीसहाई॥ मू.(७९५) सत्राणनाणोवगए महेसी, अनुत्तरं चरियं धम्मसंचयं। अनुत्तरेनाणधरे जसंसी. ओभासई सूरिए वंऽतिलिक्खे। वृ.त्रयोदश सूत्राणि प्रायः सुगमान्येव, नवरं हित्वा' त्यक्त्वा संश्चासौ ग्रन्थस्य सद्भग्रन्थः, प्राकृतत्वाद्विन्दुलोपस्तं, पठन्ति च-'जहित्तं संगं चत्ति जहाय संगं च'त्ति वा उभयत्र हित्वा 'सङ्ग स्वजनादिप्रतिबन्धं 'च:' पूरणे निपातः, महान् क्लेशो यस्माद्यस्मिन् वा तं महाक्लेश, 'महंतमोहं'ति महान् मोह:-अभिष्वङ्गो यस्मिन् यतो वा तं तथाविधं, 'कसिणं'ति कृत्स्नं कृष्णं वा कृष्णलेश्यापरिणामहेतुत्वेन 'भयानकं' महाक्लेशादिरूपत्वादेव विवेकिनां भयावह 'परियाय'त्ति प्रक्रमात् प्रव्रज्यापर्यायस्तत्र धर्मः पर्यायधर्मस्तं, चशब्दः पादपूरणे, अभिरोयएज्ज'त्ति आर्षत्वाद् हस्तन्यर्थे सप्तमी, ततः 'अभ्यरोचत' अभिरोचितवान तदनुष्ठानविषयां प्रीतिं कृतवान, उपदेशरूपतां च तन्त्रन्यायेन ख्यापयितुमित्थं प्रयोगः, यद्वाऽऽत्मानमेवायमनुशास्ति-यथा हे आत्मन् ! सङ्गं त्यक्त्वा प्रव्रज्याधर्ममभिरोचये भवान्, एवमुत्तरक्रियास्वपि यथासम्भवं भावनीयं, प्रव्रज्यापर्यायधर्ममेव विशेषत आह-'व्रतानि' महाव्रतानि 'शीलानि' पिण्डविशुद्धयाधुत्तरगुणरूपाणि 'परीषहान्' इति भीमसेनन्यायेन परीषहसहनानि च । एतदभिरुच्य तदनन्तरं च यत् कृतवांस्तदाह-अहिंसां सत्यमस्तैन्यकं च 'तत्तो अ बंभं अपरिग्गहं च'त्ति ततश्च ब्रह्मचर्यमपरिग्रहं च 'प्रतिपद्य' अङ्गीकृत्य 'अब्बभपरिग्गहं च' इति तु पाठे परिवर्णं चेत्यध्याहार्य 'पञ्च महाव्रतानि' उक्तरूपाणि 'चरेज्जत्ति प्राग्वचरत्, नाङ्गीकृत्यैव तिष्ठेदिति भावः, 'धर्म' श्रुतचारित्ररूपं जिनदेशितं 'विऊ'त्ति विद्वान् जानानः। 'सव्वेहिं भएहि' सुब्ब्यत्ययात् 'सर्वेषु' अशेषेषु प्राणिषु दयया-हितोपदेशादिदानात्मिकया रक्षणरूपया वाऽनुकम्पनशीलो दयानुकम्पी पाठान्तरतो दयानुकम्पो वा, क्षान्त्या न त्वशक्त्या क्षमतेप्रत्यनीकाधुदीरितदुर्वचनादिकं सहत इति क्षान्तिक्षमः, संयत इति संयतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी च संयतब्रह्मचारी पूर्वं ब्रह्मप्रतिपत्त्या गतत्वेऽपि ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुरनुचरत्वख्यापनार्थम्, अनेन च मूलगुणरक्षणोपाय उक्तः। __ 'कालेन कालं'ति रूढितः काले-प्रस्तावे यद्वा कालेन-पादोनपौरुष्यादिना कालमितिकालोचितं प्रत्युपेक्षणादि कुर्वन्नति शेषः, 'राष्ट्र मण्डले 'बलाबलं' सहिष्णुत्वासहिष्णुत्वलक्षणं ज्ञात्वाऽऽत्मनः यथा यथाऽऽत्मनः संयमयोगहानिर्न जायते तथा तथेत्यभिप्राय:, अन्यच्च सिंहवत् 'शब्देन' प्रस्तावाद्भयोत्पादकेन न समत्रस्यत्' नैव सत्त्वाच्चलितवान्, सिंहदृष्टान्ताभिधानं च तस्य सात्त्विकत्वेनातिस्थिरत्वात्, अत एव च वाग्योगम् अर्थाद् दुःखोपादकं 'सोच्च'त्ति श्रुत्वा 'न' नैव असभ्यम्' अश्लीलरूपम् 'आहु'त्ति उक्तवान् । तहि किमयमकरोदित्याह-'उपेक्षमाणः' तमवधीरयन् पर्यव्रजत्, तथा 'प्रियम्' अनुकूलम 'अप्रियम्' For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy