________________
उत्तराध्ययन-मूलसूत्रम्-२-२१/७७७ मू. (७७७)
खेमेण आगए चंप, सावए वाणिए घरं।
संबड्डई घरे तस्स, दारए से सुहोइए। मू. (७७८) बावत्तरीकलाओ अ, सिक्खिए नीइकोविए।
जुब्वनेन य अप्फुन्ने, सुरूवे पियदसणे॥ मू.(७७९) तस्स रूववई भजं, पिया आनेइ रूविर्णि।
पासाए कीलए रम्मे, देवो दोगुंदगो जहा ।। मू.( ७८०) अह अन्नया कयाई, पासायालोअने ठीओ।
वज्झमंडनसोभाग, वज्झं पासइ बज्झगं।। मू. ( ७८१) तं पासिऊण संविग्गो, समुद्दपालो इणमब्बवी।
अहो असुहान कम्माणं, निजाणं पावगं इमं ।। मू. (७८२) संबुद्धो सो तहिं भयवं परमं संवेगमागओ।
आपुच्छऽम्मापियरो, पब्बए अनगारियं ।। वृ. सूत्राणि दश ! इदमुत्तरं चाध्ययनं क्वचित्सोपस्कारतया व्याख्यास्यते-'चम्पायां' चम्पाऽभिधानायां परि पालितो नाम सार्थवाहः 'श्रावकः' श्रमणोपासक: 'आसीत्' अभूद वणिगेव वणिजः-वनिग्जाति: महावीरस्य भगवतः 'शिष्यः' विनेयः स इति, सतुः विशेषणे 'महात्मनः' प्रशस्यात्मनः । स च कीदृगित्याह-'नैन्थे' निर्ग्रन्थसम्बन्धिनि 'पावयणे'त्ति प्रवचने श्रावकः सः इति पालितो विशेषेण कोविदः-पण्डितो विकोविदः, कोऽर्थः?-विदितजीवादिपदार्थः 'पोतेन व्यवहरन्' प्रवहणवाणिज्यं कुर्वन् 'पिहण्डं पिहुण्डनामक नगरम् 'आगतः प्राप्तः । तत्र च पिहुण्डे व्यवहरते तद्गुणाकृष्टचेताः कश्चिद्वाणिजो 'ददाति' यच्छति 'धूयरं ति दुहितरम्, उदूढवांश्च तामसौ, स्थित्वा च तत्र कियन्तमपि कालं तां 'ससत्त्वा' मित्यापन्नसत्त्वां परिगृह्य' आदाय स्वदेशम् 'अथ' अनन्तरं प्रस्थितः' चलितः। तत्र चागच्छतोऽथ पालितस्य गृहिणी 'समुद्रे' जलधौ 'प्रसूते' गर्भ विमुञ्चति स्मेति शेषः, 'अथे'त्युपन्यासे 'दारकः' सुतः तस्मिनु' इति प्रसवने 'जातः' उत्पन्नः समुद्रपाल इति 'नामतो' नामाश्रित्य ।
क्रमेण चागच्छन् 'क्षेमेण' कुशलेनागतश्चम्पायां श्रावको वाणिजः 'घरं ति चस्य गम्यमानत्वाद्, गृहं च स्वकीयं, कृतं च तत्र वर्धापनकादि, संवर्द्धते च 'गृहे' वेश्मनि, 'तस्य' इति पालिताभिधानवणिजो दारकः सः 'सुखोचितः' सुकुमारः। एवं च प्राप्तः कलाग्रहणयोग्यता द्विसप्ततिकलाश्च शिक्षितः, शिक्षते वा पाठान्तरतः, जातश्च 'नीतिकोविदः' न्यायाभिज्ञः, 'जोव्वनेन य अप्फुन्ने"त्ति, चस्य भिन्नाक्रमत्वाद्यौवनेन आपूर्णश्च परिपूर्णशरीरश्च, पठ्यते च'जोव्वनेन य संपन्ने'त्ति, तत्र च 'संपन्नः' युक्तोऽत एव सुरूपः' सुसंस्थानः 'प्रियदर्शन:' सर्वस्यैवानन्ददाता।
परिणयनयोग्यतां च तस्य विज्ञाय 'रूपवती' विशिष्टाकृति भार्यां पत्नीं 'पिता' पालितवणिम् 'आनयति' तथाविधकुलादागमयति रूपिणी' रूपिणीनाम्नी, परिणायितश्च तामसौ, प्रासादे क्रीडति-रमति तया सह 'रम्ये' अभिरतिहेतौ देवो दोगुन्दको यथा । अथान्यदा कदाचित् 'प्रासादालोकने' उक्तरूपे स्थित: सन्वधमर्हतिवध्यत्सस्य मण्डनानि-रक्तचन्दनकरवीरादीनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org