________________
to
अध्ययनं-२०,[ नि. ४२९] मू. ( ७७२) इयरोऽवि गुणसमिद्धो तिगुत्तिगुत्तो तिदंडविरओ य।
विहग इव विप्पमुक्को विहरइ वसुहं विगयमोहु।। वृ. राजा चासौ सिंहश्चातिपराक्रमवत्तया राजसिंहः, अनगारस्य च सिंहत्वं कर्ममगान् प्रत्यतिदारुणत्वात् प्रशंसाख्यापकं वा उभयत्र सिंह इति, 'सावरोध:' सान्तःपुरः सपरिजनः' सपरिवार: 'विमलेन' विगत मिथ्यात्वमेलेन । उच्चसिताइवोच्छसिताः-उद्भिन्ना रोमकूपारोमरन्ध्राणि यस्यासावुच्छसितरोमकूपः 'अतियातो'त्ति अतियातः' गतः स्वस्थानमिति गम्यते, 'इतरः' संयतः सोऽपि हि 'विहग इव' पक्षीव 'विप्रमुक्तः' क्वचिदपि प्रतिबन्धविरहितो विहरतीति वर्तमाननिर्देशः प्राग्वत्, 'विगतमोह:' विगतवैचित्त्य, शेषं सुगममिति सूत्रत्रयार्थः ।। 'इति' परिसमासौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ।।
अध्ययनं - २० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे विंशतितमध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः एवं शान्त्याचार्य विरचिता टीका परिसमाप्ता।
(अध्ययनं २१ समुद्रपालितं ) वृ. व्याख्यातं महानिर्ग्रन्थीयं नाम विंशतितममध्ययनम्, इदानीमेकविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययनेऽनाथत्वमनेकधोक्तम्, इह तु तदालोचनाद्विविक्तचर्ययैव चरितव्यमित्यभिप्रायणे सैवोच्यत इत्यनेनाभिसम्बन्धेनायातस्याध्ययनस्य प्राग्वदनुयोगद्वारचतुष्टयं प्ररूप्यं तावद् यावन्नामनिप्पन्ननिक्षेपे समुद्रपालीयमिति नामात: समुद्रपालनिक्षेपाभिधानायाह नियुक्तिकृत्नि.[४३०] समुद्देण पालिअंमि अ निक्खेवु चउक्कओ दुविह दव्व। नि.[४३१] समुद्दपालिआऊ वेयंतो भावओ य नायव्यो।
तत्तो समुट्ठिअमिणं समुद्दपालिज्जमज्झयणं॥ वृ.गाथाद्वयं प्रतीतार्थमेव, नवरं समुद्रपालनिक्षेपप्रस्तावे यत्समुद्रेण पालित इत्युक्तं तत्समुद्रपाल इत्यत्र समुद्रेण पाल्यते स्मेति समुद्रपाल इति व्युत्पत्तिख्यापनार्थमिति गाथाद्वयार्थः ।।
गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकानिष्पन्ननिक्षेपावसरः, स च सति सूत्र इति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(७७३) चंपाए पालिए नाम, सावए आसि वाणिए।
महावीरस्स भगवओ, सीसो सो उमहप्पणो ।। मू. (७७४) निग्गंथे पावयणे, सावए से विकोविए।
पोएण ववहरते, पिहुंडं नयरमागए। मू. ( ७७५) पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं।
तं ससत्तं पइगिज्झ, सदेसमह पत्थिओ। मू. (७७६) अह पालियस्स धरणी, समुदंमि पसवई।
अह दारए तर्हि जाए, समुद्दपालित्ति नामए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org