________________
अध्ययनं-२०,[ नि. ४२९] 'से' तस्य 'दुरप्य'त्तिं प्राकृतत्वात् 'दुरात्मता' दुष्टाचारप्रवृत्तिरूपा, नचैनामाचरत्रपि जन्तुरत्यन्तमूढ़तया वेत्ति, ततः किमुत्तरकालमपि न वेत्स्यतीत्याह' सः' दुरात्मताकर्ता ज्ञास्यति प्रक्रमाद् दुरात्मतां मृत्युमुखं तु' मरणसमयं पुनः प्राप्तः पश्चादनुतापेन-हा दुष्ठ मयाऽनुष्ठितमित्येवंरूपेण, दया-संयमः सत्याधुपलक्षणमहिंसा वा तद्विहीनः सन्, मरणसमयो हि प्रायोऽतिमन्दधर्मस्यापि धर्माभिप्रायोत्पत्तिरित्येवमभिधानं, यतश्चैवं महाऽनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता तत आदित एव मूढतामपहाय परिहर्तव्येयमिति भावः ॥ मू. (७६१) निरत्थया नग्गरुई उ तस्स. जे उत्तमढे विवयासमेइ।
इमेवि से नत्थि परेवि लोए, दुहओऽवि से झिज्झइ तत्थ लोए। वृ.यस्तु मृत्युमुखप्राप्तोऽपि न तां वेत्स्यति तस्य का वार्त्तत्याह-'निडीए' इत्यादि, निरर्थिका तुशब्दस्यैवकारार्थस्येह सम्बन्धात् 'निरर्थकैव' निष्फलैव नाग्न्ये श्रामण्ये रचि:- इच्छा नाग्न्यरुचिस्तस्य'जे उत्तमटुं'ति सुब्ब्यत्ययादपेश्च गम्यमानत्वाद् 'उत्तमार्थेऽपि' पर्यन्तसमयाराधनारूपेऽपि आस्तां पूर्वमित्यपिशब्दार्थः "विपर्यासं' दुरात्मतायामपि सुन्दरात्मतापरिज्ञानरूपम् 'एति' गच्छति, इतरस्य तु कथञ्चित्स्यादपि किञ्चित्फलमिति भावः, किमेवमुच्यते?, यतः 'इमेवि'त्ति अयमपि प्रत्यक्षो लोक इति सम्बन्धः, 'से' इति तस्य 'नास्ति' न विद्यते, न केवलमयमेव परोऽपि लोको-जन्मान्तरलक्षणः, तत्रैहलोकाभावः शरीरक्लेशहेतुलोचादिसेवनात् परलोकाभावश्च कुगतिगमनतः शारीरमानसदुःखसम्भवात, तथा च 'दुहतोऽवित्तिद्विधाऽपि ऐहिकपारत्रिकार्थाभावेन ‘स झिज्झइ'त्ति, स ऐहिकपारत्रिकार्थसम्पत्तिमतो जनान् विलोक्य धिग्मामपुण्यभाजनमुभयभ्रष्टतयेति चिन्तया क्षीयते, 'तत्र' इत्युभयलोकाभावे सति 'लोके' जगति।। मू. (७६२) एमेवऽहाछंदकुसीलरूवे, मग्गं विराहित्तु जिनुत्तमाणं ।
कुररी विवा भोगरसानुगिद्धा, निद्धसोया परितावमेइ ।। वृ.यदुक्तं स ज्ञास्यति पश्चादनुतापेनेति, तत्र यथाऽसौ परितप्यते तथा दर्शयन्नुपसंहारमाह'एवमेव' उक्तरूपेणैव महाव्रतास्पर्शादिना प्रकारेण 'यथाच्छन्दाः' स्वरुचिविरचिताचाराः कुशीला:-कुत्सितशीलास्तद्रूपः-तत्स्वभावः 'कुररीव' पक्षिणीव 'निरट्ठसोय'त्ति निरर्थोनिष्प्रयोजनः शोको यस्याः सा निरर्थशोका परितापं' पश्चात्तापरूपम् ‘एति' गच्छति, यथा चैषाऽऽमिषगृद्धा पक्ष्यन्तरेभ्यो विपत्प्राप्तौ शोचते न च ततः कश्चिद् विपत्प्रतीकार इति, एवमसावपि भोगरसगृद्ध ऐहिकामुष्मिकानर्थप्राप्तौ, ततोऽस्य स्वपरपरित्राणासमर्थत्वेनानाथत्वमिति भाव इति त्रयोशदसूत्रार्थः । एतत् श्रुत्वा यत्कृत्यं तदुपदेष्टुमाहमू. (७६३) सुच्चाण मेहावि सुभासियं, इमं अनुसासनं नाणगुणोववेयं।
मग्गं कुसीलाण जहाय सव्वं, महानियंगण वए पहेणं। वृ. सुगम, नवरं 'मेहाविपत्ति मेधाविन् ! सुष्ठ-शोभनप्रकारेण भाषितं सुभाषितम् ‘इमम्' इत्यनन्तरोक्तम् 'अनुशासनं विषदनदोषदर्शनेनार्थावृत्त्या शिक्षणं ज्ञानस्य गुणो ज्ञात्वा विरमणात्मकस्तेन, ज्ञानगुणाभ्यां वोपपेतं-युक्त ज्ञानगुणोपपेतं 'वयेत्ति व्रजेस्त्वं 'पहेणं'ति पथा' मार्गेण महानिर्ग्रन्थानामिति सम्बन्धः । ततः कि फलमित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org