________________
उत्तराध्ययन-मूलसूत्रम्-२-२०/७५५ लाभ:-स्वर्गापवर्गाप्राप्तिरूपस्तं मन्यमानो ममायं भविष्यतीति गणयन् 'विनिघातं' विविधाभिघातरूपम् 'आगच्छति' आयाति स 'चिरमपि' प्रभूतकालमप्यास्तामल्यं नरकगत्वादाविति भाव:।। मू.(७५६) विसंतु पीयं जह कालकूड, हणाइ सत्थ जह कुग्गही।
एसेव धम्मो विसओवक्नो, हणाइ वेयाल इवाविवन्नो ।। वृ. इहैव हेतुमाह-विषं पिबन्तीति आर्षत्वात्पीतं यथा 'कालकूट' कालकूटनामकं 'हणाइ'त्ति हन्ति, चस्य च गम्यमानत्वात्, शस्त्र च, यथा कुत्सितं गृहीतं कृगृहीतम् 'एसेव'त्ति एष एवं विषादिवत् 'धम्मो'त्तिधर्मो-यतिधर्मः 'विषयोपपन्नः' शब्दादिविषययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन, द्रव्ययतिमिति शेष: 'वेताल इवाविवन्न'त्ति अविपन्नः अप्राप्तविपत् मन्त्रादिभिरनियन्त्रित इत्यर्थः, पठ्यते च–'वेयाल इवाविबंधणो'त्ति इह च 'अविबन्धनः' अविद्यमानमन्त्रादिनियन्त्रणः, उभयत्र साधकमिति गम्यते॥ मू. ( ७५७) जो लक्खणं सुविण पउंजमाणो, निमित्तकोऊहलसंपगाढे।
कुहेडविज्जासवदारजीवी, न गच्छई सरणं तंमि काले। वृ.यो लक्षणं 'सुविनो'त्ति स्वप्नं चोक्तरूपं 'प्रयुञ्जानः' व्यापारयन् निमित्तं च-भौमादि कौतुकं च-अपत्याद्यर्थं स्नपनादि तयोः संप्रगाढ:-अतिशयासक्तो निमित्तकौतुकसंप्रगाढः 'कुहेडविज्ज'त्ति कुहेटकविद्या-अलीकाश्चर्यविधायिमन्त्रतन्त्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुतयाऽऽश्रवद्वाराणि तैर्जीवितुंशीलमस्येति कहेटकविद्याऽऽश्रवद्वारजीवी 'न गच्छति' न प्राप्नोति 'शरणं' त्राणं दुष्कृतरक्षाक्षमं 'तस्मिन्' फलोपभोगोफ्लक्षिते 'काले' समये ।। मू. (७५८) तमंतमेणेव उसे असीले, सया दुही विप्परियासुवेइ।
संधावई नरगतिरिक्खजोणी, मोनं विराहितु असाहुरूवे॥ वृ.अमुमेवार्थ भावयितुमाह-'तमंतमेणेव उत्ति अतिमिथ्यात्वोपहततया 'तमस्तमसैव' प्रकृष्टाज्ञानेनैव 'तुः पूरणे 'सः' द्रव्ययतिः अशीलः सदा दुःखी विराधनाजनितदुःखेनैव 'विप्परियासुवेइ'त्ति विपर्यासं तत्त्वादिषु वैपरीत्यम् 'उपैति' उपगच्छति, ततश्च 'संधावति' सततं गच्छति नरकतिर्यग्योनी: 'मौनं' चारित्रं विराध्य 'असाधुरूपं तत्त्वतोऽयतिस्वभावः सन्, अनेन विराधनाया अनुबन्धवत्फलमुक्तम् ।। मू. (७५९) उद्देसियं कीयगडं नियागं न मुच्चई किंचि अनेसणिज्जं।
अग्गीविवा सव्व भक्खी भवित्ता, इओ चुओ गच्छइ कट्ट पावं ।। वृ. कथं पुनमौनं विराध्य कथं वा नारकतिर्यग्गतीः संधावतीत्याह-'उद्देसिय'मित्यादि, क्रयणंक्रीतं तेन कृतं-निवर्तितं क्रीतकृतं नित्यागं' नित्यपिण्डम् 'अग्गीविव'त्ति अग्निरिव प्राकृतत्वादाकारः सर्वम्-अप्राशुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा चपापमिति योगः, 'गच्छति' याति कुगतिमिति शेषः॥ मू. (७६०) नतं अरीकंठ छित्ता करेइ, जं से करे अप्पणिया दुरप्पा।
से नाहिई मच्चुमुहंतु पत्ते, पच्छानुतावेण दयाविहूणो। वृ.यतश्चैवं दुश्चरितैरेव दुर्गतिप्राप्तिरत: 'न' नैव तम्' इति प्रस्तावादन) कण्ठछत्ता' प्राणहर्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org