SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२०,[नि. ४२९] वृ. 'जो पव्वइत्ताणे'त्यादि सूत्राणि सीदनस्यैवानेकधा स्वरूपानुवादतः फलदर्शकानि स्पष्टान्यैव नवरं 'नो स्पशति' इति नासेवते 'प्रमादात्' निद्रादेरनिगृहीत:- अविद्यामानविषयनियन्त्रण आत्माऽस्येत्यनिग्रहात्मा, अत एव 'रसेषु' मधुरादिषु गृद्धः' गृद्धिमान् बध्यतेऽनेन कर्मेति बन्धनं-रागद्वेषात्मक 'से'इति सः॥ मू. ( ७५२) आउत्तया जस्स य नत्थि कावि, इरियाइ भासाइ तहेसणाए। आयाणनिक्खेवदुगुंछणाए, न वीरजायं अनुजाइ मग्गं॥ वृ. 'आयुक्तता' दत्तावधानता 'काचिदिति स्वल्पाऽपि 'आयाणनिक्खेदुगुंछणाए'त्ति आदाननिक्षेपयोः-उपकरणग्रहणन्यासयोर्जुगुपसनायाम्, इह चोच्चारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिस्थापना जुगुप्सनोक्त, सईदृक्किमि-त्याह-वीरैर्यातो-गतो वीरयातस्तम् 'अनुयाति' अनुगच्छति, नेति सम्बन्धः, अल्पसत्त्वतयेति भावः, क?- 'मार्ग' सम्यग्दर्शनादिकं मुक्तिपथम्॥ मू. ( ७५३) चिरंपि से मुंडरई भवित्ता, अथिरव्वए तवनियमेहि भट्ठे। चिरंपि अप्पाण किलेसइत्ता, न पारए होइ हु संपराए । वृ.तथा च 'चिरमपि' प्रभूतकालमपि मुण्डएव-मुण्डन एव केशापनयनात्मनिशेषानुष्ठानपराङ्मुखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिराणि-गृहीतमुक्ततया चलानि व्रतान्यस्येत्यस्थिरव्रत: 'तपोनियमेभ्यः' उक्तरूपेभ्य: 'भ्रष्टः' च्युतश्चिरमपि 'अप्पाण'त्ति आत्मानं 'क्लेशयित्वा' लोचादिनां बाधयित्वा, आत्मनैवेति गम्यते, न 'पारगः' पर्यन्तगामी भवति 'हुः' वाक्यालगारे संपराए'त्ति सपरायन्ति-भृशं पर्यटन्त्यस्मिन् जन्तव इति सम्परायः-संसारस्तस्य, सूत्रे च सुब्ब्यत्यायात्सप्तमी॥ मू. (७५४) पुल्लेव मुट्ठी जह से असारे, अयंतिते कूडकहावणे य। राढामणी वेरुलियप्पगासे, अमहाधर होइ हु जाणएसु।। वृ.स चैवंविधः पोल्लेत्यन्तः शुषिरा 'एव' इत्यवधारणे तेन पोल्लैव, न मनागपि निविडा 'मुष्टिः' अंगुलिसन्निवेशविशेषात्मिका 'यथा' इति सादृश्ये, पठ्यते वा-पोल्लारमुट्ठी जह'तति इहापि 'पोल्लर'त्ति शुषिरा, असारत्वं चोभयोरपि सदर्थशून्यतथा 'अयंतिय'त्ति 'अयन्त्रितः' अनियमितः कूटकार्षापणवत्, वाशब्दस्यहोपमार्थत्वात्, यथा ह्यसौ न केनचित्कूटतया नियन्त्रते, तथैषोऽपि गुरूणामप्यविनीततयोपेक्षणीत्वात्, 'राढामणि'त्ति काचमणिर्वैडूर्यवत्प्रकाशतेप्रतिभासत इति वेडूर्यप्रकाश:-वैडूर्यमणिसदृशः 'अमहार्धकः' इत्यमहामूल्यो भवति, 'च:' समुच्चये भिन्न-क्रमस्ततोऽमहार्धकश्च 'जाणएसु'त्ति ज्ञेषु मुग्धजनविप्रतारकत्वात्तस्य ।। मू. (७५५) कुसीललिंग इह धारइत्ता, इसिज्झयं जीविय बूहइत्ता। असंजए संजय लप्पमाणे, विणिधायमागच्छइ से चिरंपि।। वृ. कुशीललिङ्ग पार्श्वस्थादिवेषम् 'इह' अस्मिन् जन्मनि धारयित्वा'ऋषिध्वज' मुनिचिह्न रजोहरणादि 'जीविय'त्ति आर्षत्वाज्जीविकायै 'बृहयित्वा' असंयमजीवितं जीविकां वानिर्वहणोपायरूपां बृंहयित्वेति-पोषयित्वाऽत एवासंयतः सन् ‘संजय लप्पमाणे ति प्राकृतत्वात्सोपस्करात्वाच्च संयमतमात्मानं लपन्, पठ्यते च-'संजयलाभमाणे'त्ति आर्षत्वात् संयत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy