________________
५२
,
उत्तराध्ययन- - मूलसूत्रम्९-२-२० / ७४८ गतः प्रव्रजितः कोऽर्थः ? - प्रतिपन्नवाननगारिताम् ॥ तत इति प्रव्रज्याप्रतिपत्तेरहं नाथो जात:संवृत्तो, योगक्षेमकरणक्षम इति भावः, 'आत्मनः ' स्वस्य 'परस्य वा' अन्यस्य पुरुषादेः सर्वेषां भूतानां - जीवानां त्रसानां स्थावराणां चेति त्रसस्थावरभेदभिन्नानामिति विंशतिसूत्रावयवार्थः ॥ किमिति प्रव्रज्याप्रतिपत्त्यनन्तरं नाथस्त्वं जातः पुरा तु न इत्याहअप्पा नेई वेयरणी, अप्पा मे कूडसामली।
मू. ( ७४८ )
अप्पा कामदुहा घेनू, अप्पा मे नंदनं वनं ॥
वृ. 'आत्मे' ति व्यवच्छेदफलत्वाद्वाक्यस्यात्मैव नान्य: कश्चित् किमित्याह- 'नदी' सरित् 'वैतरणी' नरकनद्या नाम, ततो महाऽनर्थहेतुतया नरकनदीव, अत एवात्मैव कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली नरकोद्भवा । तथाऽऽत्मैव कामान्-अभिलाषान् दोग्धि - कामितार्थप्रापकतया प्रपूरयति कामदुधा धेनुरिवधेनुः, इयं च रूढित उक्ताः, एतदुपमत्वं चाभिलाषितस्वर्गापवर्गावाप्तिहेतुतया, आत्मैव 'मे' भम 'नन्दनं' नन्दननामकं 'वनम्' उद्यानम्, एतदौपम्यं चास्य चित्तप्रल्हत्तिहेतुतया ।
मू. ( ७४९ )
-
--
अप्पा कत्ता विकता य, दुहाण य सुहाण य। अप्पा मित्तममित्तं च, दुप्पट्ठियसुपट्टिओ ॥
वृ. यथा चैतदेवं तथाऽऽह - आत्मैव 'कर्ता' विधायको दुःखानां सुखानां चेति योगः, प्रक्रमाच्चात्मन एव 'विकरिता च' विक्षेपकश्चात्मैव तेषामेव, अतश्चात्मैव 'मित्रम्' उपकारितया सुहृत्' अमित्तं 'ति' अमित्रं च ' अपकारितयाऽसुहृत् । कीदृक् सन् ? - 'दुप्पट्ठियसुप्पट्ठिओ'त्ति, दुष्टं प्रस्थितः - प्रवृत्तो दुष्प्रस्थितः दुराचारविधातेतियावत् सुष्ठु प्रस्थितः सुप्रस्थितः सदनुष्ठानकर्तेतियावत् योऽर्थः एतयोर्विशेषणसमासः, दुष्प्रस्थितो ह्यात्मा समस्तदुःखहेतुरिति वैतरण्यादिरूपः सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः । तथा च प्रव्रज्याऽवस्थायामेव सुप्रस्थितत्वेनात्मनोऽन्येषां च योगकरणसमर्थत्वान्नाथत्वमिति सूत्रद्वयगर्भार्थः ॥
Jain Education International
पुनरन्यथाऽनाथत्वमाह
मू. ( ७५० ) इमा हु अन्नावि अनाहया निवा !, तामेगचित्तो निहुओ सुणेहि मे । नियंठधम्मं लहियाणवी जहा, सीयंति एगे बहुकायरा नरा ।।
बृ. 'इयम्' अनन्तरमेव वक्ष्यमाणा 'हुः' पूरणे 'अन्या' अपरा 'अपि: ' समुच्चये 'अनाथता' अस्वामिता, यदमावतोऽह नाथो जात इत्याशयः, 'निव'त्ति नृप 'ता' मित्यनाथताम्, 'एकचित्त: ' एकाग्रमनाः 'निभृता: ' स्थिरः शृणु, का पुनरसावित्याह-निर्ग्रन्थानां धर्मः --आचारो निर्ग्रन्थधर्मस्तं 'लभियाणवि 'त्ति लब्ध्वाऽपि 'यथा' इत्युपप्रदर्शने 'सीदन्ति' तदनुष्ठानं प्रति शिथिलीमवन्ति 'एके' केचन ईषदपरिसमाप्ताः कातराः - निःसत्त्वाः बहुकातराः 'विभाषा सुपोबहु च पुरस्तात्त्वि' ति प्राग्बहुचप्रत्ययः, ये. हि सर्वथा निः सत्त्वास्ते मूलत एव न निर्ग्रन्थमार्ग प्रतिपद्यन्त इत्येवमुच्यते, यदिवा कातरा एव बहवः संभवन्तीति बहुशब्दो विशेषणं 'नराः ' पुरुषाः सीदन्तश्च नात्मानमन्यश्च रक्षयितुं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति भावः ॥
मू. ( ७५१) जे पव्वइत्ताण महव्वयाई, सम्मं (च) नो फासयई पमाया । अनिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदइ बंधनं से ॥
For Private & Personal Use Only
www.jainelibrary.org