________________
अध्ययनं-२०,[नि. ४२९] 'आचार्याः' इति प्राणाचार्य वैद्या इतियावत्, 'विद्यामन्त्रचिकित्सका:' विद्यामन्त्राभ्यास--उक्तरूपाभ्यां व्याधिप्रतिकारः, 'अद्वितीयाः' अनन्यसाधारणतया तथाविधद्वितीयाभावात्, 'सत्थकुसल'त्ति शस्त्रेषु शास्त्रेषु वा कुशलाः शस्त्रकुशला शास्त्रकुशला वा, पठ्यते च 'नानासत्थत्थकुसल'त्ति सुगम, मन्त्राणि च-उक्तरूपाणि मूलानि च-ओषधयस्तेपु विशारदाः-विज्ञा मन्त्रमूलविशारदाः।
नैवोपस्थानमात्रेणैव ते स्थिताः किन्त ते मे चिकित्सां कर्वन्ति 'चाउप्पयं ति 'चतुष्पदा भिषग्भैषजातुरप्रतिचारकात्मकचतुर्भा(त्मकभा)गचतुष्टात्मिकां 'जहाहियं'त्ति 'यथाहितं' हितानतिक्रमेण यथाऽधीतं वा-गुरुसम्प्रदायागतवमनविरेचकादिरूपां, ततः किमित्याह-न चैवं कुर्वन्तोऽपि 'दुःखद' एवंविधरोगजनितादसाताद् ‘विमोचयन्ति' विशेषेण मुत्कलयन्ति, एषा दुःखाविमोचनात्मिका ममानाथता ।। अन्यच्च-'सर्वसारमपि' निःशेषप्रधानं वस्तुरूपं 'दिज्जाहि'त्ति दद्यात् न त्वेवमादरवानपि दुःखात् 'विमोचयंति'त्ति वचनव्यत्ययाद्विमोचयति, एवं सर्वत्र ।।
तथा पुत्रविषयः शोकः पुत्रशोकः, हा ! कथमित्थं दुःखी मत्सुतो जात इत्यादिरूपस्ततो दुःखं तेन 'अट्टिय'त्ति आती 'अद्दिय'त्ति वा 'अर्दिता' उभयत्र पीडितेत्यर्थः, ततः पुत्रशोकदुःखार्ता पुत्रशोकदुःखादिता वा॥ तथा 'सग'त्ति लोकरूढितः सौदर्याः स्वका वा-आत्मया वा । तथा 'भईणि'त्ति भगिन्यः ।। ___ अपरं च भार्या पत्नी 'अनुरक्ता' अनुरागवती 'अनुव्वय'त्ति अन्विति-कुलानुरूपं व्रतम्आचारोऽस्या अनुव्रता पतिव्रतेति यावत्, क्योऽनुरूपा वा, पठ्यते च-'अनुत्तरमनुव्वय'त्ति, इह च मकारोऽलाक्षणिकः, अनुतरा-अतिप्रधाना 'उर'न्ति 'उरः' वक्षः 'परिषिञ्चति' समन्तास्प्लावयति ॥ स्नात्यनेनेति स्नान-गन्धोदकादि मया ज्ञातमज्ञातं वेत्यनेन सद्भावसारतामाह, पठ्यते च-'तारिसं' रोगमावन्ने'त्ति 'तादृशम्' उक्तरूपं 'रोगम्' अक्षिरोगादिकम् 'आपन्ने' प्राप्ते मयीति गम्यते, सेति-भार्या बालेव बाला-अभिनवयौवना 'नोपभुक्ते' नासेवते ।।। ____ 'पासाओऽविन फिट्टईत्ति, अपि: चशब्दार्थः, मत्पर्वाच्च नाफ्याति, सदा सन्निहितैवास्ते, अनेन तस्या अतिवत्सलत्वमाह ।। 'ततः' इति रोगाप्रतिकार्यतानन्तरमहम् ‘एवं वक्ष्यमाणप्रकारेण आहेसु'त्ति उक्तवान्, यथा 'दुक्खमा हुत्ति, हु एवकारार्थ, ततो दुःक्षमैव-दुःसहेव पुनः पुनः 'वेदना' उक्तस्वरूपा रोगव्यथा 'अनुभवितं' वेदयितं जे इति निपातः परणे ।। यतश्चैवमतः 'सयं च'त्ति चशब्दोऽपिशब्दार्थस्ततः सकृदपि-एकदाऽपि यदि मुच्येऽहमिति गम्यते, कुत:?-'वेयण'त्ति वेदनायाः 'विउल'त्ति विपुलायाः-विस्तीर्णाया: 'इतः' इत्यनुभूयमानायाः, ततः किमित्याह-'क्षान्तः' क्षमावान् ‘दान्तः' इन्द्रियनोइन्द्रियदमेन पव्वइए अनगारिय'त्ति, 'प्रव्रजेवं' गृहानिष्कामेयं ततश्च 'अनगारतां' भावभिक्षुतामङ्गीकृयामिति शेषः, यद्वा 'प्रव्रजेयं' प्रतिपद्येयमनगारितां येन संसारोच्छित्ततो मूलत एव न वेदनासम्भवः स्यादिति।
'एवं च चिंतइत्ता णं'ति न केवलमुक्त्वा चिन्तयित्वा चैवं' पासुत्तोमि'त्ति प्रसुतोऽस्मि 'परियट्टतिय'त्ति परिवर्त्तमानायाम्-अतिक्रामत्यां 'ततः' वेदनोपामानन्तरं 'कल्लु'त्ति कल्यो नीरोगः सन् 'प्रभाते' प्रातः, यद्वा कल्ल' इति चिन्तादिनापेक्षया द्वितीयदिने प्रकर्षेण वजितो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org