________________
उत्तराध्ययन-मूलसूत्रम्-२-२०/७४१
मए नायमनायं वा, सा बाला नोवभुंजई।। मू.(७४२)
खणपि मे महाराय!, पासाओविन फिट्टई।
न य दुक्खा विमोयइ, एसा मज्झ अनायहा।। मू.( ७४३) तओऽह एवमाहंसु, दुक्खमा हु पुनो पुनो।
वेयणा अनुहविउंजे, संसारंमि अनंतए । मू.( ७४४) सयं च जइ मुंचिज्जा, वेयणा विउला इओ।
खंतो दंतो निरारंभो, पवईओ अनगारियं ।। मू.(७४५) एवं च चिंतइत्ता णं, पासुत्तो मि बंधवे।
परियत्तंतीइ राईए, वेयणा मे खयं गया। मू. (७४६) तओ कल्ले, पभायंमि, आउच्छित्ता न बंधवे।
खंतो दंतो निरारंभो, पव्वईओ अनगारियं ।। मू.( ७४७) तोऽहं नाहो जाओ, अप्पणो अ परस्स य।
सव्वेसिं चेव भूयाणं, तसाणं थावराण य ।। वृ.विंशतिः सूत्राणि प्राय: प्रतीतार्थान्येव, नवरं न तुमं जाणे अनाहस्स'त्ति न त्वं 'जानीषे' अवबुध्यसे, अनाथस्येति अनाथशब्दस्यार्थं च-अभिधेयमुत्थां वा-उत्थानं मूलोत्पत्ति केनाभिप्राये भयोक्त इत्येवंरूपां, पठ्यते च-'अत्थं पोत्थं वत्ति अर्थ प्रोत्थावा-प्रकृष्टोत्थानरूपामत एव यथाऽनाथः सनाथो वा भवति तथा च न जानीषे इति सम्बन्धः ।। शृणु 'मे' मम कथयत इति शेषः, किंतदित्याह-यथाऽनाथो भवतीत्यनाथशब्दस्याभिधेयः पुरुषो भवति, यथा 'मेय'त्ति मया च प्रवर्तितमिति-प्ररूपितमनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम्॥ _ 'पुराणपुरभेयिणि'त्ति, पुराणपुराणि भिनत्ति-स्वगुणैरसाधारणत्वाइँदेन व्यवस्थापयति पुराणपुरभेदिनी, बहुलवचनात्कर्तरि ल्युट्, पठ्यते च-'नगराण पुडभेयणुत्ति लिङ्गव्यत्ययानगराणां मध्ये पुटभेदनं, पुनरिदमुक्तं भवति-प्रधानगनरी॥ प्रथमे वयसि, इह प्रक्रमाद्यौवने 'अतुला' अनुपमा अक्ष्णोर्वेदना-अक्षिरोगजनिता व्यथा, 'अहोत्थ'त्ति अभूत् 'तिउले'त्ति आर्षत्वात् 'तोदकः व्यथक: 'सर्वगोत्रेषु' सर्वाङ्गेषु, पठ्यते च 'विउलो दाहो सव्वंगेसु य'त्ति गतार्थं, 'सरीरविवरंतरे'त्ति शरीरविवराणि-कर्णरन्ध्रादीनि तेषामन्तरं-मध्यं शरीरविवरान्तरं तस्मिन् ‘पवेसेज्ज'त्ति 'प्रवेशयेत्' प्रक्षिपेत्, शरीरविवरग्रहणमतिसुकुमारत्वादान्तरत्वचो गाढवेदनोपलक्षणं, पठ्यते च-'सरीरबीयअंतरे आवेलिज्ज'त्ति शरीरबीज-सप्तधातवस्तदन्तरेतन्मध्ये 'आपीडयेद्' गाढमवगाहयेत्, ‘एव'मित्यापीड्यमानस्य शस्त्रवत् 'मे' ममाक्षिवेदाना, कोऽर्थः? - यथा तदत्यन्तबाधाविधायि तथैषापीति। __ "त्रिक'मिति कटिभागम् 'अन्तरा'मध्ये 'इच्छां वा' अभिमतवस्त्वभिलाषु न केवलं बहिस्त्रिकायेवेति भावः 'पीडयति' बाधते, वेदनेति सम्बन्धः, तत्कालापेक्षया च वर्तमाननिर्देशः, एवमन्यत्रापि, इन्द्राशनिः-इन्द्रवज्रं तत्समाना-तुल्या अतिदाहोत्पादकत्वादिति भावः 'घोरा' परेषामपि दृश्यमाना भयोत्पादनी 'परमदारुणा' अतीवदुःखोत्पादिका।
किं न कश्चित्तां प्रतिकृतवानित्याह-'उपस्थिताः' वेदनाप्रतीकारं प्रत्युद्यताः 'मे' मम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org